आलस्यं हि मनुष्याणां...

विकिसूक्तिः तः

सुभाषितम्

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥




तात्पर्यम्

मानवशरीरे वसन् महान् शत्रुः अस्ति आलस्यम् । परिश्रमसमः बन्धुः न विद्यते । यतः प्रयत्नशीलस्य विनाशः कदापि न भविष्यति ।

"https://sa.wikiquote.org/w/index.php?title=आलस्यं_हि_मनुष्याणां...&oldid=15220" इत्यस्माद् प्रतिप्राप्तम्