को हि भारः समर्थानां...

विकिसूक्तिः तः

सुभाषितम्

को हि भारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ।




तात्पर्यम्

शक्तिमतां कः भारः ? यः परिश्राम्यति तस्य किं दूरम् ? विद्यावतः कः देशः भवति किम् ? यः मधुरं वदति तस्य कः परः ? एतैः साधयितुम् अशक्यं किम् ?छ

"https://sa.wikiquote.org/w/index.php?title=को_हि_भारः_समर्थानां...&oldid=15886" इत्यस्माद् प्रतिप्राप्तम्