परोऽपेहि मनस्पाप ॥
दिखावट
परोऽपेहि मनस्पाप ॥ (अथर्ववेदः ६-४५-१)
[सम्पाद्यताम्]हे पाप ! मम मनस्तः दूरं गम्यताम् ।
- पापमुद्दिश्य उक्तमिति भाति चेदपि इदम् अस्माकं मनः उद्दिश्य एव उक्तं वर्तते ! पापस्य उद्भवः अत्रैव भवति । तस्य उद्भवः एव यथा न स्यात् तथा जागरूकता वोढव्या । किन्तु संस्कारस्य प्रभावात् यदि उद्भवेत् अङ्कुरावस्थायामेव तत् मर्दनीयम् । अन्यथा तच्च पापं समग्रे मनसि प्रसृत्य मनः दुर्बलं करोति । ततः वचनरूपं प्राप्नोति । वचनरूपस्य पापस्य क्रियारूपप्राप्तेः कति क्षणाः अपेक्षिताः ?! पापक्रियाभिः सर्वनाशः भविष्यति । किं नाम पापम् ? यत् आत्मानं पातयेत्, यत् आत्मशक्तिं नाशयेत् तदेव पापम् ! उदाहरणाय - असत्यकथनेन आतङ्कः, सत्यकथनेन शान्तिः ।