फलकम्:मुख्यपृष्ठं - सुभाषितम्

विकिसूक्तिः तः
मार्च् २०२४
गुरुवासरः
२८
१४:१३ UTC
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।

वृणुते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥

किरातार्जुनीयम् – २/३०

जीवने सर्वदा विचिन्त्य एव सर्वे व्ययहाराः कर्तव्याः । कोऽपि जनः अविचिन्त्य हठात् किमपि कार्यं न कुर्यात्। यदि तथा क्रियेत तर्हि तादृशम् अविवेकिनं महत्यः आपदः आवृण्वन्ति । किन्तु यः सम्यक् विचार्य पदं स्थापयति सः उत्तमफलानि एव प्राप्नोति । तस्य गुणैः आकृष्टा सम्पत्तिः स्वयमेव धावन्ती तत्समीपम् आगच्छति ।