फलकम्:मुख्यपृष्ठं - सुभाषितम्
दिखावट
जून् २०२६
शनिवासरः
६
१९:२६ UTC
अकाले कृत्यमारब्धं कर्तुरनर्थाय कल्पते ।
कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् ।
|