भद्रं कर्णेभिः शृणुयाम ॥

विकिसूक्तिः तः

भद्रं कर्णेभिः शृणुयाम ॥ (यजुर्वेदः २५-२१)[सम्पाद्यताम्]

मङ्गलकरमेव कर्णाभ्यां शृणुयाम

बहिः जगतः विषयान् आत्मानं प्रति नयनम्, आत्मनः प्रतिस्पन्दं बहिः जगत् प्रति प्रापणं च शरीरेन्द्रियाणां निरन्तरं कर्म । शरीरेन्द्रियाणां द्वारा श्रेष्ठवस्तु-विचारादयः यदि अन्तः प्रविशेयुः तर्हि आत्मनि विद्यमानं मालिन्यं दुष्टसंस्कारादयः विनष्टाः भवन्ति । आत्मनि यावती शुद्धता भवेत् तावत् आत्मबलम् आत्मशक्तिश्च वर्धते । तदा शरीरेन्द्रियाणां द्वारा आत्मनः प्रतिस्पन्दाः श्रेष्ठरीत्या अभिव्यक्ताः भवन्ति । आत्मबलस्य वर्धनेन आनन्दानुभवसामर्थ्यञ्च वर्धते । अस्य आनन्दस्य निमित्तमेव खलु सर्वः अपि जीवी जिजीविषति ? अतः मङ्गलकरमेव शृणुयाम, मङ्गलकरमेव पश्येम, दृढानि शरीरेन्द्रियाणि सत्कर्मेषु योजयन्तः तेषां सम्पूर्णं सदुपयोगं स्वीकुर्मः ।