भीमं वनं भवति...

विकिसूक्तिः तः

सुभाषितम्

भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥

नीतिशतकम् १०१

bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ
sarvo janaḥ sujanatāmupayāti tasya ।
kṛtsnā ca bhūrbhavati sannidhiratnapūrṇā
yasyāsti pūrvasukṛtaṃ vipulaṃ narasya ॥

पदच्छेदः

भीमं, वनं, भवति, तस्य, पुरं, प्रधानं, सर्वः, जनः, सुजनताम्, उपयाति, तस्य, कृत्स्ना, च, भूः, भवति, सन्निधिरत्नपूर्णा, यस्य, अस्ति, पूर्वसुकृतं, विपुलं, नरस्य ।


तात्पर्यम्

यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति । नास्ति अत्र संशयः । तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति । अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति । किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति ।


आङ्ग्लार्थः

To one who has vast merits from good deeds done earlier, a terrible forest becomes a capital city. Everyone is good to him, and the entire earth is filled with riches and gems.

"https://sa.wikiquote.org/w/index.php?title=भीमं_वनं_भवति...&oldid=17752" इत्यस्माद् प्रतिप्राप्तम्