भीमं वनं भवति...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः सुजनतामुपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥
तात्पर्यम्
यः मनुष्यः पूर्वस्मिन् जन्मनि अनेकानि सुकृतानि (पुण्यकर्माणि) कृतवान् सः अस्मिन् जन्मनि सर्वत्र सुखम् एव प्राप्नोति । नास्ति अत्र संशयः । तादृशः पुण्यवान् घोरं वनं प्रविशति चेदपि तद्वनं पत्तनमिव सर्वसौलभ्यदायकं भवति । अपि च ये ये तं पश्यन्ति ते सर्वे अपि तस्य विषये मृदु व्यवहरन्ति । किं बहुना, समग्रा भूमिः एव तस्य विषये सम्पद्युक्ता रत्नयुक्ता च भवति ।