मृत्योरहं ब्रह्मचारी ॥

विकिसूक्तिः तः

मृत्योरहं ब्रह्मचारी ॥ (ऋग्वेदः १०-२२-८)[सम्पाद्यताम्]

मरणात् पाठपठिता अहम् ।

अद्यत्वे तु विचित्रं सन्निवेशं पश्यामः । नित्यं परितः जायमानानि मरणानि पश्यन्तः एव भवामः । मरणं प्राप्तवद्भिः यानि बन्धनानि स्वयम् आरोपितानि आसन् तानि सर्वाणि अपि क्षणमात्रेण कथं मृत्युना उच्छटितम् इति पश्यन्तः भवामः । तैः महता परिश्रमेण सम्पादितानि सम्पत्ति-ऐश्वर्यादीनि तैः सह न गतम् इत्यपि पश्यन्तः एव भवामः । मातापितृभ्यां परित्यक्ता सुलभतया प्राप्ता सम्पत्तिः पुत्रैः अविवेकेन उपयुज्यमानमपि पश्यामः । तन्निमित्तं क्षुल्लके कोलाहले निमग्नाः अपि दृश्यन्ते । शारीरकोन्नत्यै कृताः सर्वेऽपि प्रयत्नाः निष्प्रयोजकाः जाताः इत्येतदपि दृश्यते ।
एवं सत्यपि वयमपि पौनःपुन्येन शरीरपोषणाय, इन्द्रियसुखभोगाय एव तीव्रम् अभिलषन्तः भवामः । आवश्यकतापेक्षया अधिकां सम्पत्तिं सञ्चयन्तः स्मः । तन्निमित्तं यत्किमपि कर्तुं सिद्धाः स्मः । बन्धनाः अल्पाः चेत् ततः मुक्तिः सुलभा इति जानन्तः अपि तस्य वर्धने एव मग्नाः स्मः । वयं चिरञ्जीविनः इव व्यवहरन्तः स्मः । एवं मरणात् अस्माभिः कोऽपि पाठः न पठितः !!
मरणात् पाठं यदि पठेम तर्हि जीवनम् इतोऽपि समीचीनतया यापयितुं शक्नुयाम !!!