यथा धेनुसहस्रेषु...

विकिसूक्तिः तः



सुभाषितम्

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पुराकृतं कर्म कर्तारमनुगच्छति ॥

सु.भा.-दैवाख्यानम् ९५-१२

yathā dhenusahasreṣu vatso vindati mātaram
tathā purākṛtaṃ karma kartāramanugacchati

पदच्छेदः

यथा, धेनुसहस्रेषु, वत्सः, विन्दति, मातरम्, तथा, पुराकृतं, कर्म, कर्तारम्, अनुगच्छति


तात्पर्यम्

सहस्राधिका: धेनव: सन्ति चेत् अपि वत्स: तासु धेनुषु स्वमातु: एव समीपं गत्वा तामेव अनुसरति । तथा एव अस्माभि: पूर्वजन्मनि कृतानि कर्माणि अस्मान् अनुसरन्ति एव ।


आङ्ग्लार्थः

Just as a calf finds its mother amongst thousands of cows and goes directly to her; in the same way, previously performed actions certainly follow their doer.

"https://sa.wikiquote.org/w/index.php?title=यथा_धेनुसहस्रेषु...&oldid=17754" इत्यस्माद् प्रतिप्राप्तम्