यद्दुष्करं दुरापं च...

विकिसूक्तिः तः

सुभाषितम्

यद्दुष्करं दुरापं च कल्याणोदर्कमन्ततः ।
तदेव यत्नतः साध्यं प्राणैरपि धनैरपि ॥

yadduṣkaraṃ durāpaṃ ca kalyāṇodarkamantataḥ ।
tadeva yatnataḥ sādhyaṃ prāṇairapi dhanairapi ॥

पदच्छेदः

यत्, दुष्करं, दुरापं, च, कल्याणोदर्कम्, अन्ततः, तत्, एव, यत्नतः, साध्यं, प्राणैः, अपि, धनैः, अपि ॥


तात्पर्यम्

यत् कर्तुम् असाध्यं, प्राप्तुम् असाध्यं किन्तु अत्यन्तं कल्याणकरम् इति भवेत् तत् कथञ्चित् समग्रस्य धनस्य समर्पणेन वा प्राणानां समर्पणेन वा साधनीयमेव ।


आङ्ग्लार्थः

What may be impossible to do, impossible to achieve but extremely auspicious must somehow be achieved by sacrificing the whole of one’s wealth or one’s life.

"https://sa.wikiquote.org/w/index.php?title=यद्दुष्करं_दुरापं_च...&oldid=17819" इत्यस्माद् प्रतिप्राप्तम्