यद्दुष्करं दुरापं च...

विकिसूक्तिः तः
Jump to navigation Jump to search

सुभाषितम्

यद्दुष्करं दुरापं च कल्याणोदर्कमन्ततः ।
तदेव यत्नतः साध्यं प्राणैरपि धनैरपि ॥




तात्पर्यम्

यत् कर्तुम् असाध्यं, प्राप्तुम् असाध्यं किन्तु अत्यन्तं कल्याणकरम् इति भवेत् तत् कथञ्चित् समग्रस्य धनस्य समर्पणेन वा प्राणानां समर्पणेन वा साधनीयमेव ।

"https://sa.wikiquote.org/w/index.php?title=यद्दुष्करं_दुरापं_च...&oldid=14979" इत्यस्माद् प्रतिप्राप्तम्