यो ध्रुवाणि परित्यज्य...

विकिसूक्तिः तः

सुभाषितम्

यो ध्रुवाणि परित्यज्य अध्रुवं परिसेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥

चाणक्यनीतिः १-१३

yo dhruvāṇi parityajya adhruvaṃ parisevate ।
dhruvāṇi tasya naśyanti adhruvaṃ naṣṭameva ca ॥

पदच्छेदः

यः, ध्रुवाणि, परित्यज्य, अध्रुवं, परिसेवते, ध्रुवाणि, तस्य, नश्यन्ति, अध्रुवं, नष्टम्, एव, च ॥


तात्पर्यम्

निश्चितं परित्यज्य अनिश्चितम् अन्विषन्तः यदि गच्छेम तर्हि निश्चितं हस्तच्युतं भवति । अनिश्चितं तु दूरे एव तिष्ठति ।


आङ्ग्लार्थः

He who gives up what is imperishable for that which perishable, loses that which is imperishable; and doubtlessly loses that which is perishable also.