रामायणसूक्तयः (धर्मः)
१. अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।
- धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥ (उत्तरकाण्डः ८३/४)
२. आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
- प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् ॥ (अरण्यकाण्डः ९/३१)
३. एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् । (अयोध्याकाण्डः ४०/६)
४. कर्तव्यः शास्त्रदृष्टो हि विधिधर्ममनुस्मर । (अयोध्याकाण्डः ५६/२३)
५. कृते च प्रतिकर्तव्यमेष धर्मः सनातनः । (सुन्दरकाण्डः १/११३)
६. गुरुश्च राजा च पिता च वृद्धः
- क्रोधात् प्रहर्षादथवापि कामात् ।
- यद् व्यदिशेत् कार्यमवेक्ष्य धर्मं
- कस्तं न कुर्यादनृशंसवृत्तिः ॥ (अयोध्याकाण्डः २१/५९)
७. दानं दया सतां पूजा व्यवहारेषु चार्जवम् ।
- एष राम परो धर्मो रक्षणात् प्रेत्य चेह च ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/१०)
८. धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते ।
- भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ (युद्धकाण्डः ६३/९)
९. धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु । (अयोध्याकाण्डः २१/५७)
१०. धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।
- धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ (अरण्यकाण्डः ९/३०)
११. धर्माद् राज्यं धनं सौख्यमधर्माद् दुःखमेव च ।
- तस्माद् धर्मं सुखार्थाय कुर्यात् पापं विसर्जयेत् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/११)
१२. धर्मो हि परमो लोके सत्यं प्रतिष्ठितम् । (अयोध्याकाण्डः २१/४१)
१३. धारणाद् धर्ममित्याहुर्धर्मेण विधृताः प्रजाः ।
- यस्माद् धारयते सर्वे त्रैलोक्यं सचराचरम् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/७)
१४. नहि धर्मोभिरक्तानां लोके किंचन दुर्लभम् । (उत्तरकाण्डः (प्रक्षिप्तः) २/८)
१५. पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः । (अरण्यकाण्डः २१/४९)
१६. यस्मिंस्तु सर्वे स्युरसंचिविष्टाः
- धर्मो यतः स्यात् तदुपक्रमेव ।
- द्वेष्यो भवत्यर्थ परो हि लोके
- कामात्मता खल्वपि न प्रशस्ता ॥ (अयोध्याकाण्डः २१/५८)
१७. वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः । (उत्तरकाण्डः १७/२१)
१८. संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।
- न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ (अयोध्याकाण्डः २१/४२)