रामायणसूक्तयः (धर्मः)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. अक्षयश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।

धर्मप्रवचनं चैव सर्वपापप्रणाशनम् ॥ (उत्तरकाण्डः ८३/४)

२. आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।

प्राप्तये निपुणैर्धर्मो न सुखाल्लभते सुखम् ॥ (अरण्यकाण्डः ९/३१)

३. एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् । (अयोध्याकाण्डः ४०/६)

४. कर्तव्यः शास्त्रदृष्टो हि विधिधर्ममनुस्मर । (अयोध्याकाण्डः ५६/२३)

५. कृते च प्रतिकर्तव्यमेष धर्मः सनातनः । (सुन्दरकाण्डः १/११३)

६. गुरुश्च राजा च पिता च वृद्धः

क्रोधात् प्रहर्षादथवापि कामात् ।
यद् व्यदिशेत् कार्यमवेक्ष्य धर्मं
कस्तं न कुर्यादनृशंसवृत्तिः ॥ (अयोध्याकाण्डः २१/५९)

७. दानं दया सतां पूजा व्यवहारेषु चार्जवम् ।

एष राम परो धर्मो रक्षणात् प्रेत्य चेह च ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/१०)

८. धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते ।

भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ (युद्धकाण्डः ६३/९)

९. धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु । (अयोध्याकाण्डः २१/५७)

१०. धर्मादर्थः प्रभवति धर्मात् प्रभवते सुखम् ।

धर्मेण लभते सर्वं धर्मसारमिदं जगत् ॥ (अरण्यकाण्डः ९/३०)

११. धर्माद् राज्यं धनं सौख्यमधर्माद् दुःखमेव च ।

तस्माद् धर्मं सुखार्थाय कुर्यात् पापं विसर्जयेत् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/११)

१२. धर्मो हि परमो लोके सत्यं प्रतिष्ठितम् । (अयोध्याकाण्डः २१/४१)

१३. धारणाद् धर्ममित्याहुर्धर्मेण विधृताः प्रजाः ।

यस्माद् धारयते सर्वे त्रैलोक्यं सचराचरम् ॥ (उत्तरकाण्डः (प्रक्षिप्तः) २/७)

१४. नहि धर्मोभिरक्तानां लोके किंचन दुर्लभम् । (उत्तरकाण्डः (प्रक्षिप्तः) २/८)

१५. पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः । (अरण्यकाण्डः २१/४९)

१६. यस्मिंस्तु सर्वे स्युरसंचिविष्टाः

धर्मो यतः स्यात् तदुपक्रमेव ।
द्वेष्यो भवत्यर्थ परो हि लोके
कामात्मता खल्वपि न प्रशस्ता ॥ (अयोध्याकाण्डः २१/५८)

१७. वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः । (उत्तरकाण्डः १७/२१)

१८. संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।

न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ (अयोध्याकाण्डः २१/४२)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(धर्मः)&oldid=2971" इत्यस्माद् प्रतिप्राप्तम्