रामायणसूक्तयः (नारी)
दिखावट
१. अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति । (अयोध्याकाण्डः ७८/२१)
२. आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तेनाम् । (अयोध्याकाण्डः ३७/२४)
३. एषा हि प्रकृतिः स्त्रीणामसृष्टे रघुनन्दन ।
- समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ (अरण्यकाण्डः १३/५)
४. देवलोकस्थितिरियं सुराणां शाश्वती मता ।
- पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ (उत्तरकाण्डः २६/३९)
५. नहि तुल्यं बलं सौम्यस्त्रियाश्च पुरुषस्य हि । (उत्तरकाण्डः २६/५१)
६. नहि शक्यः स्त्रिया हन्तुं पुरुषः पापनिशचयः । (उत्तरकाण्डः १७/३२)
७. नारीणां सुदुःखा सपत्नता । (अरण्यकाण्डः १८/२)
८. परदाराभिमर्शात् तु नान्यत् पापतरं महत् । (अरण्यकाण्डः ३८/३०)
९. भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः । (अयोध्याकाण्डः २४/१२)
१०. भयानामपि सर्वेषां वैधव्य - व्यसनं महत् । (उत्तरकाण्डः २५/४२)