रामायणसूक्तयः (नारी)

विकिसूक्तिः तः

१. अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति । (अयोध्याकाण्डः ७८/२१)

२. आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तेनाम् । (अयोध्याकाण्डः ३७/२४)

३. एषा हि प्रकृतिः स्त्रीणामसृष्टे रघुनन्दन ।

समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥ (अरण्यकाण्डः १३/५)

४. देवलोकस्थितिरियं सुराणां शाश्वती मता ।

पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ (उत्तरकाण्डः २६/३९)

५. नहि तुल्यं बलं सौम्यस्त्रियाश्च पुरुषस्य हि । (उत्तरकाण्डः २६/५१)

६. नहि शक्यः स्त्रिया हन्तुं पुरुषः पापनिशचयः । (उत्तरकाण्डः १७/३२)

७. नारीणां सुदुःखा सपत्नता । (अरण्यकाण्डः १८/२)

८. परदाराभिमर्शात् तु नान्यत् पापतरं महत् । (अरण्यकाण्डः ३८/३०)

९. भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः । (अयोध्याकाण्डः २४/१२)

१०. भयानामपि सर्वेषां वैधव्य - व्यसनं महत् । (उत्तरकाण्डः २५/४२)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(नारी)&oldid=2977" इत्यस्माद् प्रतिप्राप्तम्