रामायणसूक्तयः (नीतिः)
१. अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।
- स पश्चात् तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥ (उत्तरकाण्डः १५/२२)
२. एकस्य मरणं मेऽस्तु मा भूत् सर्वविनाशनम् । (उत्तरकाण्डः १०५/९)
३. देशकालविहीनानि कार्याणि विपरीतवत् ।
- क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः ६३/६)
४. न भेदसाध्याः बलदर्पिता जनाः । (सुन्दरकाण्डः ४१/१३)
५. न ह्यनिष्टोऽनुशास्यते । (अरण्यकाण्डः ९०/२०)
६. नहि सामोपन्नानां प्रहर्ता विद्यते भुवि । (किष्किन्धाकाण्डः ५९/१६)
७. नावज्ञा हि परे कार्या य इच्छेच्छ्रेय आत्मनः । (उत्तरकाण्डः ३३/२२)
८. परेषां सहसावज्ञा न कर्तव्या कथञ्चन । (युद्धकाण्डः ९/१२)
९. प्रवृद्धः काञ्चनो वृक्षो न फलकाले निकृत्यते । (युद्धकाण्डः ६१/२६)
१०. भयं भीताद्धि जायते । (अयोध्याकाण्डः ८/५)
११. मृदुर्हि परिभूयते । (अयोध्याकाण्डः २१/११)
१२. वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः । (उत्तरकाण्डः ५८/२०)
१३. शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
- सत्येन परिगृह्णाति सवीरः पुरुषोत्तमः ॥ (किष्किन्धाकाण्डः ३०/६२)
१४. समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः । (सुन्दरकाण्डः ३/४४)
१५. स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना । (उत्तरकाण्डः ६८/१९)