रामायणसूक्तयः (नीतिः)

विकिसूक्तिः तः
Jump to navigation Jump to search

१. अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।

स पश्चात् तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥ (उत्तरकाण्डः १५/२२)

२. एकस्य मरणं मेऽस्तु मा भूत् सर्वविनाशनम् । (उत्तरकाण्डः १०५/९)

३. देशकालविहीनानि कार्याणि विपरीतवत् ।

क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ (युद्धकाण्डः ६३/६)

४. न भेदसाध्याः बलदर्पिता जनाः । (सुन्दरकाण्डः ४१/१३)

५. न ह्यनिष्टोऽनुशास्यते । (अरण्यकाण्डः ९०/२०)

६. नहि सामोपन्नानां प्रहर्ता विद्यते भुवि । (किष्किन्धाकाण्डः ५९/१६)

७. नावज्ञा हि परे कार्या य इच्छेच्छ्रेय आत्मनः । (उत्तरकाण्डः ३३/२२)

८. परेषां सहसावज्ञा न कर्तव्या कथञ्चन । (युद्धकाण्डः ९/१२)

९. प्रवृद्धः काञ्चनो वृक्षो न फलकाले निकृत्यते । (युद्धकाण्डः ६१/२६)

१०. भयं भीताद्धि जायते । (अयोध्याकाण्डः ८/५)

११. मृदुर्हि परिभूयते । (अयोध्याकाण्डः २१/११)

१२. वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः । (उत्तरकाण्डः ५८/२०)

१३. शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।

सत्येन परिगृह्णाति सवीरः पुरुषोत्तमः ॥ (किष्किन्धाकाण्डः ३०/६२)

१४. समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः । (सुन्दरकाण्डः ३/४४)

१५. स्वयमेवागतः शत्रुर्न मोक्तव्यः कृतात्मना । (उत्तरकाण्डः ६८/१९)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(नीतिः)&oldid=2983" इत्यस्माद् प्रतिप्राप्तम्