रामायणसूक्तयः (युद्धम्)
दिखावट
१. अनवस्थौ हि दृश्येते युद्धे जयपराजयौ । (सुन्दरकाण्डः ३७/५५)
२. असत्यानि च युद्धानि संशयो मे न रोचते ।
- कश्च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ (सुन्दरकाण्डः ३०/३५)
३. आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । (सुन्दरकाण्डः ४६/१७)
४. उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।
- सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ (युद्धकाण्डः१०४/२०)
५. गगनं गगनाकारं सागरः सागरोपमः ।
- रामरावणयोर्युद्धं रामरावणयोरिव ॥ (युद्धकाण्डः१०७/५१)
६. देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।
- दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥ (युद्धकाण्डः१०४/१८)
७. नानाशास्त्रेषु संग्रामे वैशारद्यमरिन्दम् ।
- अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ (सुन्दरकाण्डः ४८/१४)
८. रक्ष्यो जामाता रमरेष्वपि । (उत्तरकाण्डः २४/३०)
९. संशयश्च जये नित्यम् । (उत्तरकाण्डः १८/१७)
१०. स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।
- युद्धकालश्च विजेयः परस्यान्तरदर्शनम् ॥ (युद्धकाण्डः१४७/१९)
११. हीनार्थस्तु समृद्धार्थं रिपुं प्राकृतं यथा ।
- निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ (युद्धकाण्डः६४/१७)