रामायणसूक्तयः (युद्धम्)

विकिसूक्तिः तः

१. अनवस्थौ हि दृश्येते युद्धे जयपराजयौ । (सुन्दरकाण्डः ३७/५५)

२. असत्यानि च युद्धानि संशयो मे न रोचते ।

कश्च निःसंशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ॥ (सुन्दरकाण्डः ३०/३५)

३. आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला । (सुन्दरकाण्डः ४६/१७)

४. उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।

सर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ (युद्धकाण्डः१०४/२०)

५. गगनं गगनाकारं सागरः सागरोपमः ।

रामरावणयोर्युद्धं रामरावणयोरिव ॥ (युद्धकाण्डः१०७/५१)

६. देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।

दैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥ (युद्धकाण्डः१०४/१८)

७. नानाशास्त्रेषु संग्रामे वैशारद्यमरिन्दम् ।

अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ (सुन्दरकाण्डः ४८/१४)

८. रक्ष्यो जामाता रमरेष्वपि । (उत्तरकाण्डः २४/३०)

९. संशयश्च जये नित्यम् । (उत्तरकाण्डः १८/१७)

१०. स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।

युद्धकालश्च विजेयः परस्यान्तरदर्शनम् ॥ (युद्धकाण्डः१४७/१९)

११. हीनार्थस्तु समृद्धार्थं रिपुं प्राकृतं यथा ।

निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥ (युद्धकाण्डः६४/१७)