व्याकरणसूक्तयः (अक्षरज्ञानफलम्)

विकिसूक्तिः तः

<poem> सोऽयमक्षरसमाम्नायो वाक्समाम्नायः पुष्पितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो वेदितव्यो ब्रह्मराशिः । सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति । मातापितरौ चास्य स्वर्गे लोके महीयेते । - महाभाष्यम्-१.१.२;

अक्षरसमाम्नायात् एव वाक्यसमाम्नायः ततः एव सम्पूर्णं वाङ्मयं रचितं भवति । इदमेव पुष्पितं, फलितं, चन्द्रतारकवत् प्रतिमण्डितं सत् ब्रह्मराशिरूपं (वेदराशिः) प्राप्नोति इति अवगन्तव्यम् । एवम् अस्य ज्ञानेन समग्रस्य वेदस्य पुण्यफलं प्राप्यते । इदं यः ज्ञास्यति तदीयौ मातापितरौ स्वर्गलोके पूजितौ भवतः ।