व्याकरणसूक्तयः (अपत्यम्)

विकिसूक्तिः तः

<poem> पुत्रा अपत्यमित्यपतनादपत्यम्, एको गुणः स प्राधान्येन विवक्षितः । - महाभाष्यम् ५.१.२, वार्त्तिकम् -३;

पुत्रः अपत्यम् इति कथ्यते । अपतनात् अपत्यम् इति । पुत्रस्य उपस्थितेः कारणात् पितॄणां पतनं न भविष्यति, ते दुःखं न अनुभविष्यन्ति इति कारणतः पुत्रः अपत्यम् इति निर्दिश्यते । इदं नाम अपतनगुणमेव प्रधानतया निर्दिशति ।