शिवा स्योना पतिलोके वि राज ॥

विकिसूक्तिः तः

शिवा स्योना पतिलोके वि राज ॥ (अथर्ववेदः १४-१-६४)[सम्पाद्यताम्]

कल्याणकारिणी प्रशंसनीया च सती पत्युः गृहे विराजताम् ।

स्त्री द्वितीयस्तरीयप्रजा इव दर्शनं जगतः महान् रोगः । महिलां कामवस्तुमात्रम् इव, पुत्रप्रसूतियन्त्रमात्रम् इव, गृहदासीमात्रम् इव भावयन् व्यवहरति अयं पुरुषप्रधानः समाजः । स्त्रीभ्रूणहत्यायाः विषये अयं समाजः निस्स्पन्दः विद्यते । बहुभ्यः शतकेभ्यः समाजः एवमेव विद्यते । इदं विरुद्ध्य कार्यं कुर्वत् स्त्रीविमोचनान्दोलनमपि तावदेव पुरातनम् ! वैदिकचिन्तनमात्रेण एव अस्याः समस्यायाः परिहारः साध्यः । 'पत्युः गृहे पतिता भव' इत्येषा यस्मिन् समाजे अलिखिता नीतिः वर्तते तस्मिन् 'सम्राज्ञी सती विराजताम्' इत्येतत् वचनं क्रान्तिकारि एव भवेत् । किन्तु तच्च स्थानं प्राप्तुं सा कुटुम्बस्य श्रेयसे परिश्रमं कुर्यात् । आग्रहेण न । प्रीति-विश्वास-त्यागादिभिः । कुटुम्बनिर्वहणे पतिपत्न्योः समानं पात्रं भवति । तयोः स्नेहसम्बन्धः दृढः यदि भवेत् तर्हि सा अस्याः प्रशंसायाः निमित्तम् अर्हतां प्राप्नुयात् । अन्ये अपि हृत्पूर्वकं तां प्रशंसेयुः ।