शुनं कृषतु लाङ्गलम् ॥
दिखावट
शुनं कृषतु लाङ्गलम् ॥ (अथर्ववेदः ३-१७-६)
[सम्पाद्यताम्]हलेन सम्यक् कर्ष्यताम् ।
- अन्नेन विना न कोऽपि जीवी जीवति । मानवेतरजीविनः प्रकृतौ सहजतया उपलभ्यमानान् आहारान् अन्विष्य तान् खादन्तः जीवन्ति । एकत्र जीवन् मानवः स्वेन अपेक्षितम् आहारं वर्धयितुम् अर्हति । कृषिः जीवनस्य अविभाज्यम् अङ्गं वर्तते । तन्निमित्तं विविधानि उपकरणानि अपेक्षन्ते । सर्वेषां कृष्योपकरणानां प्रतिनिधिः अस्ति हलः । कृषिः समीचीना चेत् आहारसमृद्धिः, सकलजीविनां समाधानं भविष्यति । रिक्तोदरं मात्सर्यापराधानां हेतुः भवति । उपदेशः, अध्यात्मबोधनञ्च उदरं न पूरयन्ति ! जीविका कापि स्यात् नाम, कस्यापि उत्पादनं क्रियमाणं स्यात्, किन्तु बुभुक्षायां सत्यां कृष्योत्पन्नः आहारः एव अपेक्षते !!
- किन्तु अद्यत्वे कृषेः नाम्ना वाणिज्यमेव दृश्यते । तन्निमित्तं तीव्रयान्त्रीकरणं, सम्पन्मूलानां दुरुपयोगश्च सर्वेषाम् अनर्थानां कारणं जातमस्ति । भूमिः, वायुः, जलम्, आहारादयः सर्वे विषमयाः जाताः सन्ति । आधुनिकतन्त्रज्ञानयुगे कृषकस्य, कृषेः च अवगणनं दृश्यते । अचिरात् जागरा प्राप्तव्या ।