सामग्री पर जाएँ

सा मित्रं वनुते जने चित् ॥

विकिसूक्तिः तः

सा मित्रं वनुते जने चित् ॥ (ऋग्वेदः १०-२७-१२)

[सम्पाद्यताम्]

जनेषु स्वस्य मित्रं सा स्वयं चिनोति ।

मातापित्रोः निर्णयानुगुणं विवाहस्य निर्वर्तनम् इत्येतत् बाल्यविवाहपद्धतेः अवशेषमात्रम् । प्रौढवयसि विद्यमानयोः, जीवनविषये गभीरं चिन्तयतोः, गृहस्थजीवनस्य उत्तरदायित्वानि अवगतवतोः, तस्य निर्वहणाय सामर्थ्यं सम्पादितवतोः युवकयुवत्योः जीवनसहवर्तिनः चयनं स्वयं क्रियेत चेदेव वरम् । अयमेव स्वयंवरः उच्यते । वेदाः एतान् स्वयंवरान् एव प्रतिपादयन्ति । अर्थहीनेषु सम्प्रदायेषु मग्ने अस्मिन् समाजे इदं वचनं क्रान्तिकारिकमपि अस्ति, सनातनमपि विद्यते । जीवनसहवर्ती नाम सुहृद्, सखी इत्यर्थः । मैत्री एव तयोः संयोजकतन्तुः । अन्येषां सर्वविधानां स्नेहसम्बन्धानाम् अपेक्षया अयं सम्बन्धः भवति निकटतमः । अन्येषाम् अनुरोधं पुरस्कुर्वद्भिः, विविधैः लोभामिषैः प्रभावितैः, बाह्याकर्षणचपलैः वा सद्भिः केनापि परिणयः न अङ्गीकरणीयः । अवगमनपूर्वकं चयनमेव समीचीनतमम ।