अद्वैतशतकम्

विकिसूक्तिः तः
  • प्रणम्य परमानन्दं

स्वात्मानं परमेश्वरम् ।
अद्वैतशतकं वक्ष्ये
सर्ववेदान्तसंग्रहम् ॥१॥

  • ज्ञप्तिरूपो महादेवो

स्वेच्छया देहमाविशन् ।
जीवात्मेति श्रुतौ प्रोक्तो
देहो मायेति संज्ञितः ॥२॥

  • तस्माद् दृश्यमयो देहो

देहि दृग् रूप उच्यते ।
एवं दृग् दृश्यरूपेण
संस्थितं भूतमण्डलम् ॥३॥

  • विना देहेन जीवात्मा

किञ्चित् कर्तुं न शक्तिमान् ।
विना जोवेन देहोऽपि
ज्ञातुं द्रष्टुं न शक्तिमान् ॥४॥

  • तस्मात्तादात्न्तसंबन्धं

प्राप्तो देहेन चेतनः ।
देहोहमिति निश्चित्य
कर्माणि कुरुते सदा ॥५॥

  • वपुश्चतुर्विधं प्रोक्तं

मनुष्याणां विवेकिनाम् ।
स्थूलं सूक्ष्मं कारणञ्च
सामान्यञ्चेति नामभिः ॥६॥

  • संसारार्णवमग्नानां

जन्तूनामविवेकिनाम् ।
सामान्यदेहरहितम्
त्रिविधं वपुरूच्यते ॥७॥

  • जागरे स्थूलदेहस्यात्

सूक्ष्मदेहः प्रकीर्तितः ।
स्वप्ने, सुषुप्तौ देहश्च
कारणाक्यः प्रकीर्तितः ॥८॥

  • दृश्यरूपमिदं सर्वं

देह इत्याभिधीयते ।
तत्रव्याप्तं परं ज्योति-
र्देहोति परिगीयते ॥९॥

  • अयं सामान्य देहस्यात्

मनुष्याणां विवेकिनाम् ।
सावस्था हि तुरोयारख्या
भुवनेषु सुदुर्लभा ॥१०॥

  • यदा सामन्यदेहेऽस्मिन्

स्थितिः पुंसाभिजायते ।
तदा योगीश्वरो वेदैः
परमात्मेति गीयते ॥११॥

  • यदा स्थूलादिदेहेषु

मनुष्याणां स्थितिर्भवेत् ।
जीवात्मेति तदा प्रोक्तः
सङ्कोचग्रहणाद् बुधैः ॥१२॥

  • अयं जीवो हि संसारे

सदाऽसारे परिभ्रमन् ।
लोकाल्लोकान्तरं गत्वा
गर्भपात्रं विशात्यसौ ॥१३॥

  • गत्वा गर्भगृहाद् भूयो

मानुषं लोकमाविशन् ।
पुत्रोऽयं मम भार्येयं
अस्मदीयमिदं धनम् ॥१४॥

  • इदं गोत्रमिदं मित्रं

अस्मदीयमिदं गृहम् ।
इयं माता मम पिता
जना एते ममारयः ॥१५॥

  • इति निश्चित्य जीवात्मा

रागदेषं दिने दिने ।
एतान् प्रति करोत्येव
स्वाज्ञानादेव केवलम् ॥१६॥

  • एकरूपस्य देवस्य

सर्वेषामन्तरात्मनः ।
व्योमवद् व्याप्तदेहस्य
बोधरूपस्य सर्वदा ॥१७॥

  • कुत्रचिद् दृश्यरूपस्य

मायादीनां परिग्रहात् ।
सर्वस्याधाररूपस्य
मेघाधीनां यथा नभः ॥१८॥

  • सच्चिदानन्दरूपस्य

ब्रह्मरुद्रादिकल्पनात् ।
विभागं कुरुते जीवः
स्वाऽज्ञानादेव केवलम् ॥१९॥

  • व्याप्तरूपस्य देवस्य

सङ्कोचं दुःखमेव हि ।
तदेव जीवः कुरुते
स्वाऽज्ञानादेव केवलम् ॥२०॥

  • अथ सत्यविहीनानां

कामिनां कामचारिणाम् ।
स्वधर्मविमुखानां च
संसर्गं कुरुते सदा ॥२१॥

  • पुनर्वश्यावशो स्थित्वा

तैस्सार्धं श्वखरागवत् ।
सर्वधर्मविनिर्मुक्तो
देहो ता एव सेवते ॥२२॥

  • आलापे हरिणाक्षीणां

दर्शनस्पर्शनादिषु ।
हासभावविलासेषु
मनः सम्यङ् निमज्जति ॥२३॥

  • विषयग्रहणाज्जन्तोः

प्रद्वेष उपजायते ।
मातरं पितरं पुत्रं
वृद्धञ्चान्यजनान् प्रति ॥२४॥

  • अलब्धविषयो जन्तुः

चिन्तया परितप्यते ।
शोकमोहभयक्ळेश-
क्रोधलोभाधियुक्तया ॥२५॥

  • लब्धे तु परमप्रीति

सौभाग्यशतसंयुतम् ।
अभिप्रायशतं ध्यात्वा
विषयेषु विषज्यते ॥२६॥

  • अलब्धविषये लब्धे

जन्तुः श्रेयो न लभ्यते ।
एवं विषयगर्तेषु
परिमज्जति मानवः ॥२७॥

  • सम्पाद्य मित्रं जीवात्मा

तेषां दुःखं दिने दिने ।
ममेति मन्यते नित्यं
जन्मान्तरकृताश्रुभात् ॥२८॥

  • प्रारब्धकर्मणां भुक्तिं

कुर्वन् देहि दिने दिने ।
पौरुषेण प्रयत्नेन
कर्माणि कुरुते सदा ॥२९॥

  • संसारे वर्तमानानां

पुंसां तेनैव हेतुना ।
श्रुभाश्रुभानि कर्माणि
द्विविधनीति सन्मतम् ॥३०॥

  • श्रुभाश्रुभानि कर्माणि

पौरुषाणि न चेद्यदि ।
वेदानां विधिवाक्यानां
व्यर्थत्वं भवति ध्रुवम् ॥३१॥

  • न हिंस्यात् सर्वभूतानि

न कुर्यादहितं सताम् ।
एवमादीनि वाक्यानि
व्यार्थन्येव विचारणे ॥३२॥

  • अन्यथा विधिवाक्यानि

प्रवर्तन्ते तु कं प्रति ।
जीवं प्रति प्रवृत्तिश्चेत्
सोऽपि कर्मवशानुगः ॥३३॥

  • कर्मानुसारि जीवश्च

कर्माण्येवानुवर्तते ।
तस्माद्धि कर्माणि क्षीणे
तस्य मृत्युर्भवेद् ध्रुवम् ॥३४॥

  • ये मूढा द्विविधं कर्म

नाङ्गीकुर्वन्ति मोहतः ।
तेषां हि मरणं मोक्षो
लोकायतिकवद्ध्रुवम् ॥३५॥

  • स्थूलदेहं गृहीत्वैवं

अनुभूय शुभाशुभम् ।
पौरुषं सूक्ष्मदेहेन
भोक्तुमारभते पुनः ॥३६॥

  • स्थूलदेहात् सूक्ष्मदेह-

व्यावृत्तिं मरणं स्मृतम् ।
जीवानां मृतिकालेऽस्मिन्
सूक्ष्मदेहः प्रकीर्तितः ॥३७॥

  • प्रारब्धकर्माणां नाशात्

उपभोगेन चेतनः ।
स्थूलदेहात् सूक्ष्मदेह-
व्यावृत्तिं कुरुतेऽवशः ॥३८॥

  • यथा स्वप्ने स्थूलदेहात्

सूक्ष्मदेहस्थितिर्भवेत् ।
मृतिकाले तथा पुसां
सूक्ष्मदेहस्थितिर्भवेत् ॥३९॥

  • यत् कर्म कुरुते स्वप्ने

सूक्ष्मदेहेन चेतनः ।
स्थूलदेहेन जीवात्मा
तदेव कुरुते तदा ॥४०॥

  • स्थूलदेहं विहयैवं

गृहीत्वा सूक्ष्मविग्रहम् ।
स्वर्गं वा नरकं वाऽपि
जीवात्मा परिगच्छति ॥४१॥

  • जीवात्मा पुण्यबाहुल्यात्

स्वर्गलोकं यथाक्रमम् ।
विकासयति भोगार्थं
स्वरूपे स्वेन चतेसा ॥४२॥

  • विशुद्धं ज्ञानमेवैकं

यथा स्वप्ने त्रिधा भवेत् ।
ग्राहकग्रहणाध्यैश्च
स्वर्गलोके तथा भवेत् ॥४३॥

  • यद्यत् स्वप्नप्रपञ्चस्य

चोपादानं स्वयं भवेत् ।
स्वर्गस्य नरकस्यैव
उपादानं स्वयं भवेत् ॥४४॥

  • जीवात्मा लिङ्गदेहेन

स्वर्गं नरकमेव वा ।
गत्वा मनोमयं पश्चा-
दनुभूय शुभाशुभम् ॥४५॥

  • प्रविश्य कारणं देहं

परिपूर्णं मनोमयम् ।
महत् सुखमवाप्नोति
परित्यज्य परिश्रमम् ॥४६॥

  • विहाय कारणं देहं

स्वात्मज्ञानमयाद्भुतम् ।
शुक्ळार्तेवे सुसंशुद्धे
गर्भपात्रे प्रबुद्धवान् ॥४७॥

  • पुनर्गर्भगृहाद्बुद्ध्वा

शुद्धशुक्ळार्तवं तदा ।
उपाधित्वेन संगृह्य
देहमेव किलेच्छति ॥४८॥

  • गर्भपात्रे स्थितं कुर्वन्

बह्वभद्रावहः पुमान् ।
मूर्च्छावस्थां गृहीत्वादौ
जन्मान्तरसुभाशुभात् ॥४९॥

  • प्रवाहतोऽनादिमयं

देहमेव पुनः पुनः ।
ध्यात्वा ध्यात्वा कालवशात्
देह एव प्रजायते ॥५०॥

  • उपाधित्वेन संगृह्य

स्थितश्शुक्ळार्तवं यदा ।
देहं विना स्थियस्यास्य
कथं ध्यानं भवेत्तदा ॥५१॥

  • बोधमात्रैकरूपस्य

देवस्यानन्दरूपिणः ।
स्वस्वरूपेऽपरिच्छेद्या
माया स्यात् पारमेश्वरी ॥५२॥

  • ज्ञप्तिरूपस्य देवस्य

ज्ञप्तिरूपोऽहमेव हि ।
इति ज्ञानविहीनस्य
बोधो मायेति कथ्यते ॥५३॥

  • एवं विचारणे माया

दैवीति परिकल्पिता ।
तया सङ्कोचमात्तस्य
बन्धोऽनादिरिहोच्यते ॥५४॥

  • अनाध्यन्तवती माया

स्थिता मायाविचारणे ।
चराचरमिदं विश्वं
तत्कार्यत्वात् तथा भवेत् ॥५५॥

  • अत एव हि देवस्य

सच्चिदानन्दरूपिणः ।
सप्तयोनिष्वहंभाव-
स्तत्र तत्र दृढं भवेत् ॥५६॥

  • लोकेषु वर्तमानानां

पुंसां तेन च हेतुना ।
देहं विनाप्यहङ्कारो
वर्तते वासनावशात् ॥५७॥

  • वृक्षबीजे यथा वृक्षो

स्थितश्शाखादिसंयुतः ।
तथाहमि स्थितो देहो
हस्तपादादिसंयुतः ॥५८॥

  • तस्माद् गर्भस्थितिं कुर्वन्

जीबोऽविद्यादिसंयुतः ।
अहङ्कारवशादेव
देह एव प्रजायते ॥५९॥

  • देहि सम्पूर्णदेहोऽसौ

जन्मान्तरशुभाशुभात् ।
पुनर्गर्भगृहाद् गत्वा
मूर्च्छामाप सुविस्मिताम् ॥६०॥

  • एवं देहत्रये कुर्वन्

स्थितिं देहि परिभ्रमन् ।
जीवात्मेतुच्यते सद्भिः
सर्ववेदान्तपारगैः ॥६१॥

  • एवं संसरतः पुंसः

स्वेनार्जितशुभाशुभात् ।
देशिकालोकनादेव
वैराग्यं जायते हृदि ॥६२॥

  • एवं वैराग्ययुक्तस्य

पुंसो हृदि निरन्तरम् ।
आविर्बभूव शुद्धात्मा
विचारस्सोयमीदृशः ॥६३॥

  • धनेन दुःखरोपेण

दुर्लभेनात्ममृत्युना ।
पुंसां का प्रीतिरेवस्यात्
पापरूपेण सर्वदा ॥६४॥

  • किं मे गेहेन किं भोगैः

किं धनईर्धनदैरपि ।
किं मित्रबान्धवईः कार्यं
सर्व कालवशादसत् ॥६५॥

  • किं स्त्रिया पापरूपिण्या

किं पुत्रैर्भन्दहेतुकैः ।
मृत्युना गृह्यमाणस्य
तैः किं कार्यं क्षणे क्षणे ॥६६॥

  • अतीता बहवः पुत्राः

दारा जन्मनि जन्मनि ।
प्रारब्धकर्मभोक्तृणां
पुंसां किमिह तैः फलम् ॥६७॥

  • भावेष्वरतियुक्तस्य

पुंसस्सत्यार्थभाषिणः ।
कोऽहं कथमिदञ्चेति
चिन्ता स्यात् सुव्हिशारदा ॥६८॥

  • सा चिन्ता देशिकं विप्रं

वेदशास्त्रागमान्वितम् ।
ब्रह्मज्ञानवतां पुंसां
वरं घटयति क्षणात् ॥६९॥

  • शक्तिपातपवित्रोऽयं

जीवात्मा गुरुविग्रहम् ।
दृष्ट्वा परवशो भूत्वा
नतिञ्चकै पुनः पुनः ॥७०॥

"https://sa.wikiquote.org/w/index.php?title=अद्वैतशतकम्&oldid=118" इत्यस्माद् प्रतिप्राप्तम्