सूक्तयः (उकारादिः)

विकिसूक्तिः तः
  • उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
  • उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
  • उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
  • उदारचरितानां तु वसुधैव कुटुम्बकम्।
  • उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
  • उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
  • उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
  • उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
  • उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
  • उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(उकारादिः)&oldid=4461" इत्यस्माद् प्रतिप्राप्तम्