सूक्तयः (उकारादिः)
दिखावट
- उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
- उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
- उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
- उदारचरितानां तु वसुधैव कुटुम्बकम्।
- उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
- उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
- उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
- उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
- उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
- उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।