स्यामेदिन्द्रस्य शर्मणि ॥

विकिसूक्तिः तः

स्यामेदिन्द्रस्य शर्मणि ॥ (ऋग्वेदः १-४-६)[सम्पाद्यताम्]

इन्द्रस्य छायायां भवाम ।

इन्द्रः नाम पुराणेषु यथा वर्णितं तथा सुरां पिबन् रम्भा-ऊर्वशी-मेनकादीनां नृत्यदर्शने मग्नः काचित् काल्पनिकी व्यक्तिः नैव । एकस्य एव भगवतः विद्यमानेषु बहुषु नामसु परमैश्वर्यशाली इत्यर्थकम् इन्द्रः इत्यपि किञ्चन नाम ।
सुरक्षातः प्राप्यमाणः निरातङ्कभावः सर्वैः अपि इष्यते । एतदपेक्षया अधिका सुरक्षा प्राप्तव्या चेत् मानवैः अस्माभिः स्वीयं कर्तव्यं समीचीनतया परिपालनीयम् । जगतः रचनायां केचन नियमाः विद्यन्ते, कस्य कार्यस्य किं फलम् इति काचित् व्यवस्था विद्यते । तानि अवगत्य तदनुगुणं स्वीयं जीवनं यदि रूपयेम तर्हि नियतानि फलानि अस्मदीयानि भविष्यन्ति । इन्द्रियदासैः भूत्वा भोगे एव व्यस्ताः यदि भवेम इन्द्रियशक्तिः, आरोग्यं, शान्तिः, समाधानञ्च नष्टं भविष्यति । आत्मनः बलवर्धनम् उद्धारञ्च लक्ष्यीकृत्य इन्द्रियाणि च उपयुञ्ज्महे चेत् उत्तमा सुरक्षा अस्मदीया भविष्यति । एषा एव 'इन्द्रस्य छाया' ।