उद्योगिनं पुरुषसिंहम्...

विकिसूक्तिः तः

सुभाषितम्

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥




तात्पर्यम्

उद्यमशीलान् लक्ष्मीः स्वयम् आश्रयति । सर्वं दैवेन एव अनुग्रहितव्यम् इति ये प्रतीक्षन्ते ते कापुरुषाः । दैवमेव नावलम्बयन् स्वयं परिश्रमः कर्तव्यः । परिश्रमेण अपि कदाचित् फलं यदि न लभ्येत तर्हि कः दोषः तत्र ?