अग्निकुण्डन्यायः

विकिसूक्तिः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूजायाः कृते आवश्यकानि जलादीनि वस्तूनि शीघ्रम् उपलब्धानि भवन्तु इति एकः ब्राह्मणः एकं कुम्भं
जलेन पूरयित्वा तस्मिन् एव कुम्भे अग्निम् अपि स्थापितवान् रात्रौ । प्रातः काले जलम् अग्निः तथा इतराणि
वस्तूनि शीघ्रम् एव एकत्र लभ्यन्ते इति आशया सः धावित्वा आगतः परं सः किं पश्यति ? अग्नेः ज्वलदङ्गाराः
शान्ताः अभवन् तथा कुम्भे वर्तमानं जलम् अपि मलिनम् अभवत् ।

येषां प्रपञ्चज्ञानं न भवति तादृशानां मन्दबुद्धीनां जनानां विषये अस्य न्यायस्य उपयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अग्निकुण्डन्यायः&oldid=15624" इत्यस्माद् प्रतिप्राप्तम्