अग्ने नय सुपथा राये ॥

विकिसूक्तिः तः

अग्ने नय सुपथा राये ॥ (यजुर्वेदः ५-३६)[सम्पाद्यताम्]

हे जगदग्रणीः ! सौभाग्यप्राप्तये सन्मार्गे नीयताम् ।

रायः - सम्पत्तिः सर्वैः अपेक्ष्यते । वेदः कदापि सम्पदां न तिरस्करोति । वैराग्यमेकमेव न प्रतिपादयति अपि । किन्तु लक्ष्यं यावत् मुख्यं मार्गः अपि तावदेव मुख्यम् । दुर्मार्गेण अर्जिता सम्पत्तिः वस्तुतः सम्पत्तिः एव न ! तेन क्लेशाः एव उत्पद्यन्ते न तु मनःशान्तिः । तात्कालिकतया प्राप्तं सम्पत्सुखं न तत् सुखम् अपि तु धनमदमात्रम् । अतः अस्माकं मनसि मार्गविषये स्पष्टा परिकल्पना स्यात् । सुपथा - सन्मार्गः । न्यायेन मार्गेण सम्पत्सम्पादनाय प्रेरणा दीयताम् इत्येषा भगवति अस्माकं प्रार्थना । असत्यवादिनः असन्तः, अस्माकं परिश्रमानुगुणमात्रम् अन्येषां पीडा-वञ्चनादिनिमित्तम् अवसरम् अकल्पयन्तः यत् सम्पादयामः सा एव अमूल्या सम्पत्तिः । किमिदं साध्यम् ? इत्येषः प्रश्नः बहूनां मनस्सु उदीयात् । इदं निश्चयेन साध्यम् । किन्तु अनेन मार्गेण विफुलं सम्पादयितुम् अशक्यम् ! ऋजुमार्गेण एव अस्मान् नयतु इति सर्वेषां नेतारं परमात्मानं प्रार्थयाम । तेनैव मार्गेण चलाम, वक्रमार्गेण न कदापि इत्येषः सङ्कल्पः दृढः स्यात् ।
"https://sa.wikiquote.org/w/index.php?title=अग्ने_नय_सुपथा_राये_॥&oldid=52" इत्यस्माद् प्रतिप्राप्तम्