अङ्कोलबीजन्यायः

विकिसूक्तिः तः

अङ्कोलवृक्षस्य बीजानि अधः पतितानि मृगनक्षत्रस्य मेघगर्जनकाले पुनः गत्वा वृक्षेण लग्नानि भवन्ति । अनुकूला परिस्थितिः प्राप्ता चेत् कोऽपि जनः किंवा किमपि वस्तु मूलावस्थां प्राप्तुं शक्नोति । तस्य अधः पतने जाते अपि पूर्वावस्था प्राप्तुं शक्या इत्यभिप्रायेणा अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अङ्कोलबीजन्यायः&oldid=8151" इत्यस्माद् प्रतिप्राप्तम्