अङ्गारन्यायः

विकिसूक्तिः तः

अङ्गारः उष्णः यदा भवति तदा हस्ते गृहीतः चेत् हस्तं दहति स एव यदा शीतलः भवति तदा स्पृष्टः चेत् हस्तं मलिनं करोति । एवं कस्याम् अपि दशायां तस्य स्पर्शः दोषजनकः एव । तथा एव दुर्जनस्य संगतिः अपि हानिम् एव करोति इति द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=अङ्गारन्यायः&oldid=8152" इत्यस्माद् प्रतिप्राप्तम्