अजाकृपाणीयन्यायः
अजाकृपाणीयन्यायः
अजायाः कृपाणस्य (खड्गस्य) च सम्पर्कः अकस्मादिव जातः चेदपि अजा मृता भवति एव । यदा काचिद् घटना अनपेक्षितरीत्या घटते तदा तस्याः निर्देशं कर्तुम् अयं न्यायः उपयुज्यते । अकस्मात्, सहसा जायमानानां घटनानां कृते अस्य उपयोगः । अयम् एव अर्थः काकतालीयन्यायेन खल्वाटबिल्वीयन्यायेन च बोध्यते । अन्यस्मिन् न्याये इष्टलाभः अनिष्टलाभः वा सूच्यते परन्तु अनेन न्यायेन अनिष्टप्राप्तेः एव सूचना भवति ।
अजाकृपाणपदाभ्यां तदागमनपतने लक्ष्येते । अजागमनमिव कृपाणपतनमिव अजाकृपाणं, ततः अजाकृपाणमिव अजाकृपाणीयमिति । एवमागच्छन्त्याः अजायाः कृपाणपतनाद्यथा वधः, तत्सदृशं मरणमिति फलितोर्थः अपि विव्रियते ।
अस्य न्यायस्य उत्तमः उल्लेखः श्रीहर्षस्य खण्डनखण्डखाद्ये दृश्यते - पाणौ पञ्च वराटकान्पिधाय कश्चित्पृच्छति कति वराटका इति । पृष्टश्चाजाकृपाणीन्यायेन ब्रवीति पञ्चेति ॥
अधः टिप्पण्याम् एवम् उल्लिखितमस्ति - कण्डूयनार्थं स्तम्भादौ शुथिलबन्धखड्गे छागी ग्रीवां प्रसारयति यदृच्छया च ग्रीवा छिद्यते तथाभूतोऽजाकृपाणीन्यायः काकतालीयन्यायसमः ।
वर्धमानः स्वीये गणरत्नमहोदधिव्याख्यायाम् अन्यविधं लिखति -यथाजय भूमिं खनन्त्यात्मवधाय कृपाणो दर्शितस्तत्तुल्यं वृत्तं केनचिदात्मविनाशाय कृतमजाकृपाणीयम् ॥