अण्डकुक्कुटीन्यायः

विकिसूक्तिः तः

अण्डं प्रथमं जातं वा कुक्कुटी प्रथमं जाता वा इति अद्ययावत् न निश्चितम् । अण्डं विना कुक्कुट्याः निर्माणं न भवति तां विना अण्डस्य निर्माणं न भवति । तथैव अङ्कुरः आदौ जातः वा तस्य बीजम् आदौ जातं वा ? इत्यत्र अपि ‘पूर्व- अपर’ संबन्धः नास्ति परस्परकार्यकारणसंबन्धः अस्ति । अयं बीज- अङ्कुरप्रवाहः अनादिः अनन्तः वर्तते । -(सामवेद २१७,२१८)

"https://sa.wikiquote.org/w/index.php?title=अण्डकुक्कुटीन्यायः&oldid=8161" इत्यस्माद् प्रतिप्राप्तम्