अतिदेशन्यायः
पठन सेटिंग्स
तद्वत्करणम् अतिदेशः । केनापि किमपि स्थानम् संप्राप्तं चेत् तस्मिन् स्थाने योग्यानां धर्माणाम् आरोपः अपि क्रियते अथवा समानविषयपर्यन्तं कस्यापि धर्मस्य विस्तारः कृतः इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः क्रियते ।
एतस्य कानिचिद् लक्षणानि इत्थं सन्ति -
- १) एकत्र श्रुतस्य अन्यत्र संबन्धः । अन्यधर्मस्य अन्यत्र आरोपणम् । (सर्वतन्त्रसिद्धान्तपदार्थलक्षणसंग्रहः-९) अलङ्कारशास्त्रे अपि अतिदेशन्यायस्य अतिरिशयुक्तेः वा उपयोगः उपलभ्यते । विशिष्टं गुणं कमपि लक्षयित्वा लेखकेन न कथितेषु बहुषु विषयेषु ते गुणाः अतिदेशपद्धत्या अन्विताः भवन्ति ।
- २) अन्यसंबन्धिनां धर्माणाम् अन्यत्र अवस्थापनम् अतिदेशः । (तन्त्रयुक्ति विचारः पश.२)
- ३) एकत्र श्रुतस्य अन्यत्र संबन्धः । अन्यधर्मस्य अन्यत्र आरोपणम् । (सा. ६१५) ।
एकस्य गुणधर्माणाम् अन्यत्र अन्वयः ।
इतराः अपि व्याख्याः एवं सन्ति -
- १) अतिक्रमणेन अतिदेशः (विष्णुधर्मोत्तरपुराणम्-पृ.१३)
- २) अतिदेशस्तु यत् किञ्चित् अर्थजातम् उदीर्य च ।एवमन्यत् अपि ज्ञेयम् इति स्थापनम् उक्तिभिः । इत्यतिदेशः । (तन्त्रयुक्तिविचारः-पृ.१४)
- ३) अतिदेशस्तु पूर्वोक्तन्यायस्य अनुषङ्गितः (तन्त्रयुक्तिविचारः-पृ.८)
- ४) अतिदेशस्तु पूर्वोक्तन्यायस्य अन्यानुषङ्गिता (तत्रैव-पृ८७)
- ५) अतिदेशो नाम यकिञ्चिदेव प्रकाश्यार्थम् अनुक्तार्थसाधनायैव एवमन्यदपि प्रत्येतव्यमिति परिभाष्यते । (चरकसंहिता-१ पृ. १०३)