अनुगीता

विकिसूक्तिः तः
Jump to navigation Jump to search

महाभारतस्य अस्वामेधिकअपर्वे भाग अस्ति।

अनुगीता १[सम्पाद्यताम्]

  • सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः।

केशवार्जुनयोः का नु कथा समभवद्द्विज॥१॥

  • कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम्।

तस्यां सभायां रम्यायां विजहार मुदा युतः॥२॥

  • ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप।

यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ॥३॥

  • ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः।

निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्॥४॥

  • विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते।

माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम्॥५॥

  • यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्।

तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः॥६॥

  • मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो।

भवांश्च द्वारकां गन्ता नचिरादिव माधव॥७॥

  • एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत।

परिष्वज्य महातेजा वचनं वदतां वरः॥८॥

  • श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्।

धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्॥९॥

  • अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम्।

नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव॥१०॥

  • स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने।

न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः॥११॥

  • परं हि ब्रह्म कथितं योगयुक्तेन तन्मया।

इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्॥१२॥

  • यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि।

शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे॥१३॥

  • आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम।

ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत्॥१४॥

  • अस्माभिः परिपृष्टश्च यदाह भरतर्षभ।

दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्॥१५॥

  • मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि।

भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो॥१६॥

  • तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन।

शृणुष्वावहितो भूत्वा गदतो मम माधव॥१७॥

  • कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः।

आससाद द्विजं कं चिद्धर्माणामागतागमम्॥१८॥

  • गतागते सुबहुशो ज्ञानविज्ञानपारगम्।

लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः॥१९॥

  • जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः।

द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्॥२०॥

  • चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्।

दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः॥२१॥

  • अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः।

तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह॥२२॥

  • सम्भाषमाणमेकान्ते समासीनं च तैः सह।

यदृच्छया च गच्छन्तमसक्तं पवनं यथा॥२३॥

  • तं समासाद्य मेधावी स तदा द्विजसत्तमः।

चरणौ धर्मकामो वै तपस्वी सुसमाहितः।
प्रतिपेदे यथान्यायं भक्त्या परमया युतः॥२४॥

  • विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्।

परिचारेण महता गुरुं वैद्यमतोषयत्॥२५॥

  • प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः।

भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः॥२६॥

  • तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः।

सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन॥२७॥

  • विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः।

गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम्॥२८॥

  • न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः।

स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः॥२९॥

  • अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्।

काममन्युपरीतेन तृष्णया मोहितेन च॥३०॥

  • पुनः पुनश्च मरणं जन्म चैव पुनः पुनः।

आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः॥३१॥

  • मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः।

सुखानि च विचित्राणि दुःखानि च मयानघ॥३२॥

  • प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह।

धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्॥३३॥

  • अवमानाः सुकष्टाश्च परतः स्वजनात्तथा।

शारीरा मानसाश्चापि वेदना भृशदारुणाः॥३४॥

  • प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः।

पतनं निरये चैव यातनाश्च यमक्षये॥३५॥

  • जरा रोगाश्च सततं वासनानि च भूरिशः।

लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया॥३६॥

  • ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च।

लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया॥३७॥

  • नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्।

आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा॥३८॥

  • उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा।

इतः परं गमिष्यामि ततः परतरं पुनः।
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः॥३९॥

  • नाहं पुनरिहागन्ता मर्त्यलोके परन्तप।

प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते॥४०॥

  • यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः।

अभिजाने च तदहं यदर्थं मा त्वमागतः।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्॥४१॥

  • भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण।

परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम्॥४२॥

  • बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च।

येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप॥४३॥

अनुगीता २[सम्पाद्यताम्]

  • ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्।

पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः॥१॥

  • कथं शरीरं च्यवते कथं चैवोपपद्यते।

कथं कष्टाच्च संसारात्संसरन्परिमुच्यते॥२॥

  • आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति।

शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते॥३॥

  • कथं शुभाशुभे चायं कर्मणी स्वकृते नरः।

उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति॥४॥

  • एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत।

आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु॥५॥

  • आयुः कीर्तिकराणीह यानि कर्माणि सेवते।

शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः॥६॥

  • आयुः क्षयपरीतात्मा विपरीतानि सेवते।

बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते॥७॥

  • सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा।

अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान्॥८॥

  • यदायमतिकष्टानि सर्वाण्युपनिषेवते।

अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन॥९॥

  • दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च।

गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः॥१०॥

  • व्यायाममतिमात्रं वा व्यवायं चोपसेवते।

सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम्॥११॥

  • रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते।

अपक्वानागते काले स्वयं दोषान्प्रकोपयन्॥१२॥

  • स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्।

अथ चोद्बन्धनादीनि परीतानि व्यवस्यति॥१३॥

  • तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा।

जीवितं प्रोच्यमानं तद्यथावदुपधारय॥१४॥

  • ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।

शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै॥१५॥

  • अत्यर्थं बलवानूष्मा शरीरे परिकोपितः।

भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च॥१६॥

  • ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन्।

शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम॥१७॥

  • जातीमरणसंविग्नाः सततं सर्वजन्तवः।

दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ॥१८॥

  • गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे।

तादृशीमेव लभते वेदनां मानवः पुनः॥१९॥

  • भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः।

यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः॥२०॥

  • यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः।

स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम्॥२१॥

  • शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते।

निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः॥२२॥

  • ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः।

स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत्।
तैरेव न विजानाति प्राणमाहारसम्भवम्॥२३॥

  • तत्रैव कुरुते काये यः स जीवः सनातनः।

तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित्।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा॥२४॥

  • तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्।

आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै।
ततः स चेतनो जन्तुर्नाभिजानाति किं चन॥२५॥

  • तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु।

स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना॥२६॥

  • ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्।

निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम्॥२७॥

  • स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः।

अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते॥२८॥

  • ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः।

इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः॥२९॥

  • यथान्ध कारे खद्योतं लीयमानं ततस्ततः।

चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः॥३०॥

  • पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा।

च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्॥३१॥

  • तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः।

कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः॥३२॥

  • ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः।

इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः॥३३॥

  • इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः।

अवाक्स निरये पापो मानवः पच्यते भृशम्।
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः॥३४॥

  • ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः।

कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात्॥३५॥

  • तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम्।

यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम्।
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम्॥३६॥

  • कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः।

तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः॥३७॥

  • न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम्।

इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः॥३८॥

  • उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम्।

यथावत्तां निगदतः शृणुष्वावहितो द्विज॥३९॥

अनुगीता ३[सम्पाद्यताम्]

  • शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्।

प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा॥१॥

  • यथा प्रसूयमानस्तु फली दद्यात्फलं बहु।

तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्॥२॥

  • पापं चापि तथैव स्यात्पापेन मनसा कृतम्।

पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते॥३॥

  • यथा कत्म समादिष्टं काममन्युसमावृतः।

नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम्॥४॥

  • शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्।

क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्॥५॥

  • सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते।

सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः॥६॥

  • स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः।

दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥७॥

  • यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम्।

उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम्॥८॥

  • लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन्।

तथा त्वमपि जानीहि गर्भे जीवोपपादनम्॥९॥

  • यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्।

एवमेव शरीराणि प्रकाशयति चेतना॥१०॥

  • यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्।

पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥११॥

  • ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते।

यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते॥१२॥

  • तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै।

आवर्तमानो जातीषु तथान्योन्यासु सत्तम॥१३॥

  • दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्।

दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥१४॥

  • संयमश्चानृशंस्यं च परस्वादान वर्जनम्।

व्यलीकानामकरणं भूतानां यत्र सा भुवि॥१५॥

  • मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्।

गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः॥१६॥

  • प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते।

ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥१७॥

  • एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः।

आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः॥१८॥

  • तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः।

यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥१९॥

  • अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु।

यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते॥२०॥

  • वर्तमानस्य धर्मेण पुरुषस्य यथातथा।

संसारतारणं ह्यस्य कालेन महता भवेत्॥२१॥

  • एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते।

सर्वं तत्कारणं येन निकृतोऽयमिहागतः॥२२॥

  • शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्।

इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम्॥२३॥

  • शरीरमात्मनः कृत्वा सर्वभूतपितामहः।

त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥२४॥

  • ततः प्रधानमसृजच्चेतना सा शरीरिणाम्।

यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥२५॥

  • इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्।

त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्॥२६॥

  • असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः।

स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥२७॥

  • तस्य कालपरीमाणमकरोत्स पितामहः।

भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च॥२८॥

  • यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि।

यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते॥२९॥

  • सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति।

कायं चामेध्य सङ्घातं विनाशं कर्म संहितम्॥३०॥

  • यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन्।

संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥३१॥

  • जाती मरणरोगैश्च समाविष्टः प्रधानवित्।

चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥३२॥

  • निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्।

तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥३३॥

  • शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्।

प्रोच्यमानं मया विप्र निबोधेदमशेषतः॥३४॥

अनुगीता ४[सम्पाद्यताम्]

  • यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन्।

पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत्॥१॥

  • सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः।

व्यपेतभयमन्युश्च कामहा मुच्यते नरः॥२॥

  • आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः।

अमानी निरभीमानः सर्वतो मुक्त एव सः॥३॥

  • जीवितं मरणं चोभे सुखदुःखे तथैव च।

लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते॥४॥

  • न कस्य चित्स्पृहयते नावजानाति किं चन।

निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः॥५॥

  • अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित्।

त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते॥६॥

  • नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः।

धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते॥७॥

  • अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम्।

अस्वस्थमवशं नित्यं जन्म संसारमोहितम्॥८॥

  • वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः।

आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव॥९॥

  • अगन्ध रसमस्पर्शमशब्दमपरिग्रहम्।

अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते॥१०॥

  • पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम्।

अगुणं गुणभोक्तारं यः पश्यति स मुच्यते॥११॥

  • विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान्।

शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः॥१२॥

  • विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम्।

परमाप्नोति संशान्तमचलं दिव्यमक्षरम्॥१३॥

  • अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्।

यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः॥१४॥

  • तस्योपदेशं पश्यामि यथावत्तन्निबोध मे।

यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि॥१५॥

  • इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्।

तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत्॥१६॥

  • तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः।

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि॥१७॥

  • स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि।

तत एकान्तशीलः स पश्यत्यात्मानमात्मनि॥१८॥

  • संयतः सततं युक्त आत्मवान्विजितेन्द्रियः।

तथायमात्मनात्मानं साधु युक्तः प्रपश्यति॥१९॥

  • यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति।

तथारूपमिवात्मानं साधु युक्तः प्रपश्यति॥२०॥

  • इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत्।

योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ॥२१॥

  • मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम्।

एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्॥२२॥

  • यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत्।

तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः॥२३॥

  • अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते।

विनिवृत्य जरामृत्यू न हृष्यति न शोचति॥२४॥

  • देवानामपि देवत्वं युक्तः कारयते वशी।

ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्॥२५॥

  • विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते।

क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित्॥२६॥

  • दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः।

न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः॥२७॥

  • नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते।

नातः सुखतरं किं चिल्लोके क्व चन विद्यते॥२८॥

  • सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति।

तदैव न स्पृहयते साक्षादपि शतक्रतोः॥२९॥

  • निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन।

योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु॥३०॥

  • दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे।

पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः॥३१॥

  • पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत्।

तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः॥३२॥

  • प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते।

तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः॥३३॥

  • संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने।

कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्॥३४॥

  • दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च।

हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्॥३५॥

  • इत्युक्तः स मया शिष्यो मेधावी मधुसूदन।

पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्॥३६॥

  • भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते।

कथं रसत्वं व्रजति शोणितं जायते कथम्।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति॥३७॥

  • कथमेतानि सर्वाणि शरीराणि शरीरिणाम्।

वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक्॥३८॥

  • कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः।

कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि॥३९॥

  • जीवः कायं वहति चेच्चेष्टयानः कलेवरम्।

किं वर्णं कीदृशं चैव निवेशयति वै मनः।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ॥४०॥

  • इति सम्परिपृष्टोऽहं तेन विप्रेण माधव।

प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम॥४१॥

  • यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत्।

तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्॥४२॥

  • एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव।

आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्॥४३॥

  • न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः।

मनसैव प्रदीपेन महानात्मनि दृश्यते॥४४॥

  • सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम्।

जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति॥४५॥

  • स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम्।

आत्मानमालोकयति मनसा प्रहसन्निव॥४६॥

  • इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम।

आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम्॥४७॥

  • इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः।

अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः॥४८॥

  • इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः।

मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत॥४९॥

  • कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा।

तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि॥५०॥

  • नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः।

नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना॥५१॥

  • सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ।

कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित्॥५२॥

  • न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ।

नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना॥५३॥

  • क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः।

न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम्॥५४॥

  • परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्।

यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी॥५५॥

  • एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥५६॥

  • किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः।

स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः॥५७॥

  • हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने।

सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ॥५८॥

  • श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव।

यः परित्यजते मर्त्यो लोकतन्त्रमसारवत्।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात्॥५९॥

  • एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन।

षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते॥६०॥

"https://sa.wikiquote.org/w/index.php?title=अनुगीता&oldid=167" इत्यस्माद् पुनः प्राप्तिः