अन्तर्दीपिकान्यायः

विकिसूक्तिः तः

अन्तर्दीपिकान्यायः


DiwaliOilLampCrop
DiwaliOilLampCrop

गृहे स्थापितस्य दीपस्य अल्पोऽपि वा प्रकाशः सर्वत्र भवति । एकस्मिन् प्रदेशे वर्तमानस्य जनस्य वस्तुनः वा कारणेन बहूनि कार्याणि भवन्ति चेत् तद द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति । अस्यैव नामान्तरं देहलीदीपन्यायः इति उच्यते ।

यथा- सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन बह्मचर्येण नित्यम् इति मुण्डकोपनिषदि वर्तमानस्य मन्त्रस्य शाङ्करभाष्ये नित्यं सदा, नित्यं तपसा नित्यं सम्यग्ज्ञानेन इति रीत्या नित्यशब्दस्य अन्तर्दीपिकान्यायेन त्रिभिरपि अर्थैः सह संबन्धः दर्शितः । (सा.६५९)

"https://sa.wikiquote.org/w/index.php?title=अन्तर्दीपिकान्यायः&oldid=17136" इत्यस्माद् प्रतिप्राप्तम्