अन्धकवर्तकीयन्यायः

विकिसूक्तिः तः

अन्धकवर्तकीयन्यायः


A blind beggar sits, head lowered, hand begging for money. E Wellcome V0015893
A blind beggar sits, head lowered, hand begging for money. E Wellcome V0015893

अयं न्यायः काकतालीयन्यायवद् अवितर्किते इष्टलाभे अनिष्टलाभे च अवतरति । यथा कश्चिदन्धकः पुमान् करतलेन करं ताडयन्वर्तते, तस्य हस्तद्वयमध्ये वर्तिका पक्षिविशेषो दैवात्समायाति, स तु दुर्लभः, तथा मानुषजन्मनि सत्तां सङ्गोऽतिदुर्लभः ।

अत एवोक्तम् - यशस्तिलकचम्पूः ii १५३ -

संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् ।
तत्रापि यद् भुवनमान्यकुले प्रसूतिः सत्सङ्गतिश्च तदिहान्धकर्तकीयम् ॥(सा.६५५) इति ।

किञ्च - वर्धमानः वदति - गणरत्नमहोदधि iii, १९५ – अन्धकश्च वर्तका च अन्धकवर्तकम् । अन्धकस्य वर्तकाया उपर्यतर्कितः पादन्यास उच्यते । तत्तुल्यमन्धकवर्तकीयम् ॥ यथान्धकस्य पुंसः पादन्यासोऽतर्कितो वर्तिकाख्यविहगोपरि पतेत्, तथा तत्सदृशमन्धकवर्तकीयमिति । इत्यादयः प्रायेणान्योन्यं मिलन्तीति ।

अन्ध एव अन्धकः । स्वार्थे कः । नेत्रविहीन इत्यर्थः । वर्तिका पक्षिविशेषः । वनवटका इति प्रसिद्धा । देशभाषायां तु बटेरा इति प्रसिद्धा । "वर्तका शकुनौ प्राचाम्" उदीचां तु वर्तिकेति स्त्रीप्रत्यये सि. कौ. गणसूत्रादित्वविकल्पः । अन्धकश्च वर्तिका च अनयोः समाहारः - अन्धकवर्तकम् "स नपुंसकम्" २।४।१७ इति नपुंसकत्वम् । अन्धकवर्तकमिव अन्धकवर्तकीयम् - "समासाच्च तद्विषयात्" ५।३।१० इति सूत्रेण छप्रत्ययः । छस्येयः ।

"https://sa.wikiquote.org/w/index.php?title=अन्धकवर्तकीयन्यायः&oldid=17141" इत्यस्माद् प्रतिप्राप्तम्