अन्धगजन्यायः
अन्धगजन्यायः
एकदा केचन अन्धाः अन्यं जनम् उद्दिश्य अवदन् - 'अस्मान् गजं दर्शय' इति । सः गजशालां प्रति तान् नीतवान् । तत्र एकैकः अपि गजस्य एकैकम् अवयवम् अस्पृशत् । ततः ते गजं वर्णयितुम् आरब्धवन्तः - कर्णभागं यः स्पृष्टवान् सः अवदत् 'गजः शूर्पसदृशः अस्ति' इति । तथा महासर्पसदृशः इति शुण्डग्राही, स्तम्भतुल्यः इति जङ्घाग्राहिता, पुच्छग्राहकः तु स्थूलरज्जुसमः गजः इति अवदन् । तेषां दृष्टिः नासीत् इति कारणेन तस्य गजस्य साकल्येन वर्णन कर्तु ते अस्मर्थाः अभवन् । तथैव कस्यापि वस्तुनः पूर्णज्ञानं यस्य नास्ति सः तस्य आंशिकज्ञानस्य आधारेण तस्य वस्तुनः वर्णनं कुर्वन् एतत् पूर्णतः एतादृशमेव वस्तु भवेत् इति चिन्तयति ।(सा. ७६) । तथा परमेश्वरविषये श्रुतिवाक्यादीनां विषये वा भवतु मूलतत्त्वम् अजानन्तः स्वस्वाभीष्टप्रदानीव पश्यन्तः परस्परं कलहं कुर्वन्ति । यत्र तत्त्वम् अज्ञातवतां मूर्खाणां परस्परकलहः तदवसरे अस्य न्यायस्य उल्लेखः क्रियते ।
अन्धैः निर्धारितः गजः अन्धगजः तस्य न्यायः इति मध्यमपदलोपगर्भः षष्ठीतत्पुरुषः ।
अस्य न्यायस्य उल्लेखः सुरेश्वरस्य महावार्तिके(४. ४. ५६६) दृश्यते - "एकमेवैकरूपं सद्वस्त्वज्ञातं निरञ्जनम् । जात्यन्धगजदृष्ट्यैव कोटिशः कल्प्यते मृषा ।"
नैष्कर्मसिद्धिग्रन्थे (ii ९३) "तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते।"