अन्धगोलाङ्गूलन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

कश्चन अन्धः स्वगृहस्य मार्गम् अजानन् मार्गे क्लेशम् अनुभवन् आसीत् । तदा तत्र आगतः कश्चन दुर्जनः तम् एवम् उक्तवान् ‘इयं गौः, एतस्याः लाङ्गूलं गृहीत्वा अग्रे गच्छति चेत् भवान् गृहं प्राप्तुं शक्नोति’ इति । गोः लाङूगूलं गृहीत्वा सः अन्धः कृत्स्ने ग्रामे भ्रमणं कृतवान् परन्तु स्वं गृहं न प्राप्तवान् । ऋजुस्वभावान् जनान् धूर्ताः वञ्चयन्ति इति द्योतयितुम् अस्य न्यायस्य प्रयोगः भवति । शङ्कराचार्यैः वेदान्तशास्त्रस्य् भाष्यलेखनावसरे अस्य न्यायस्य प्रयोगः कृतः विद्यते - मुमुक्षुं कञ्चित् अयोग्यः गुरुः कथम् अन्यथा बोधयन् नाशस्य कारणं भवति इति -

यदि चाज्ञ्स्य सतो मुमुक्षोः अचेतनम् अनात्मानम् आत्मेति उपदिशेत् ।
प्रमाणभूतं शास्त्रं स श्रददधानतया अन्धगोलाङ्गूलन्यायेन
तदाऽत्मदश्ष्टिं न परित्यजेत् तद् व्यतिरिक्तं चात्मानं न प्रतिपद्येत् ।
ब्रह्मसूत्रशाङ्कारभाष्यम् १-१-७ (सा.४०)
"https://sa.wikiquote.org/w/index.php?title=अन्धगोलाङ्गूलन्यायः&oldid=17170" इत्यस्माद् प्रतिप्राप्तम्