अन्धचटकन्यायः

विकिसूक्तिः तः

एकस्य अन्धस्य हस्ते दैववशात् एकः चटकः आगतः । तेन सः आक्रोशं कर्तुम् आरब्धवान् ‘अहं चटकं गृहीतवान् अहं चटकं गृहीतवान् ’ इति । एवम् अज्ञः मनुष्यः कथञ्चिदपि जायमानानां घटनानां कर्तृत्वस्य यशः स्वयं प्राप्तुम् इच्छति । अयम् अहङ्कारस्य एव प्रकारः खलु ।

"https://sa.wikiquote.org/w/index.php?title=अन्धचटकन्यायः&oldid=8194" इत्यस्माद् प्रतिप्राप्तम्