अन्धदर्पणन्यायः

विकिसूक्तिः तः

अन्धाय दर्पणः दर्शितः चेदपि तस्य किं प्रयोजनम्? यस्य वस्तुनः उपयोगं यः कर्तु न शक्नोति तस्मै तद् वस्तु दत्त्वा किं प्रयोजनम् संपाद्यते ? वस्तुनः उपयोगः नास्ति अतः दानस्य पुण्यम् अपि नास्ति । अन्धस्य दीपेन किम् ? इत्येतद् वाक्यम् अपि एतम् एव अर्थ बोधयति ।

"https://sa.wikiquote.org/w/index.php?title=अन्धदर्पणन्यायः&oldid=8196" इत्यस्माद् प्रतिप्राप्तम्