अन्धपङ्गुन्यायः
दिखावट
एकदा एकः अन्धः एकः पङ्गुश्च दैववशात् एकत्र आगतौ । द्वाभ्याम् अपि एकत्रैव गन्तव्यम् आसीत् । द्वावपि स्वयं कुत्रापि गन्तुम् असमर्थौ । तौ एकां युक्तिं कृतवन्तौ । अन्धस्य पृष्ठं पङ्गुः अधिरुढवान् । अन्धः सम्यक् चलितुं शक्तः पङ्गुः सम्यक् द्र्ष्टुं शक्तः । अतः अन्धः गच्छति स्म पङ्गुः तस्मै मार्ग कथयति स्म । एवं द्वावपि स्वकीयं वैगुण्यं विसृत्य स्वीयं सामर्थ्यम् उपयुज्य अभीष्टं स्थानं प्राप्तवन्तौ । एवं बुद्धिमन्तः जनाः परस्परसाहाय्येन लक्ष्यं साधयन्ति इति अस्य न्यायस्य अर्थः ।
द्रष्टव्यम्-
- अ. तन्त्रवार्तिकम्(पश.११,७२,७५,२३२,७९९,८९७)
- आ. शाङ्करभाष्यम् (भामतीटीका- २५०, २५४)
- इ. न्यायमञ्जरी (पश्ष्ठे -२३४, २४९, २५१, ४२५, ४९२) (सा-१७९)