अन्धानन्दन्यायः

विकिसूक्तिः तः

अन्धः आनन्दं प्राप्नोति इति द्योतयितुम् अस्य प्रयोगः भवति । अयम् आनन्दः द्विविधः भवति -

अ. अन्धः यदा दृष्टिं प्राप्नुयात् तदा प्राप्यमाणः आनन्दः एकः,
आ. अन्धः योगी ‘अहं ब्रह्म अस्मि’ इत्यादिभ्यः महावाक्येभ्यः महान्तम् आनन्दं प्राप्नुयात् चेत् अयम् अपरः आनन्दः ।

अनेन न्यायेन द्विविधस्य न्यायस्य द्योतनं भवति ।

"https://sa.wikiquote.org/w/index.php?title=अन्धानन्दन्यायः&oldid=8215" इत्यस्माद् प्रतिप्राप्तम्