अप नः शोशुचदघम् ॥

विकिसूक्तिः तः

अप नः शोशुचदघम् ॥ (ऋग्वेदः १-९७-४)[सम्पाद्यताम्]

दुःखदायकेभ्यः पापेभ्यः अस्मान् दूरे स्थापयतु ।

भगवन्तं 'पापविनाशकः' इति स्तुमः । अस्माभिः कृतानि पापानि विनाशयति इति अवगच्छामः । पुनः पापाचरणाय सिद्धाः भवामः ! कथञ्चित् तस्य क्षालनाय कश्चन विद्यते खलु !! भगवतः पुरतः अस्मद्पक्षीयः सन् सम्भाषणं कर्तुं शतशः अर्चक-पाद्रि-मौलि-इत्याख्याः मध्यस्थाः यदि विद्येरन् तर्हि पापाचरणे कुतः भयम् !!! न्यायेन अन्यायेन वा सम्पादितायां सम्पत्तौ कश्चन भागः देवाय यदि अर्प्येत तर्हि पापक्षालनाय वेतनं दत्तं भवति खलु !!!! इदं सर्वं कल्पितकथाः । मार्गभ्रष्टैः आलस्येन उत्थापिताः कल्पनाः । पापकार्यस्य मूलं भवति पापवचनम्, पापवचनस्य मूलं भवति पापचिन्तनम् । पापचिन्तनं किम् इति बोधयन् तस्य निवारणाय अन्तरङ्गे एव स्थित्वा प्रतिक्षणं मार्गदर्शनं यच्छन् अस्ति सः भगवान् । पापचिन्तनमेव यदा न भवेत् तदा तस्य परिणामरूपस्य दुःखस्य प्रसक्तिः एव न भवति । एवं पापविनाशकः दुःखविनाशकः सः भगवान् ।
"https://sa.wikiquote.org/w/index.php?title=अप_नः_शोशुचदघम्_॥&oldid=217" इत्यस्माद् प्रतिप्राप्तम्