अभ्रमयूरन्यायः

विकिसूक्तिः तः

मेघान् दृष्ट्वा मयूराः नृत्यन्ति । मेघैः सह मयूराणां कः संबन्धः इति न ज्ञायते । परन्तु वर्षर्तोः आरम्भे मेघान् दृष्ट्वा ते नृत्यन्ति इति सत्यम् एव । तथैव कमपि जनं किञ्चिद् वस्तु वा दृष्ट्वा कस्यचिद् मनुष्यस्य महान् आनन्दः भवति । तादृशस्य आनन्दस्य वर्णनम् अनेन न्यायेन क्रियते । महाकविः कालिदासः एतेषां मयूराणां हर्षस्य वर्णनम् एवं कृतवान् -

सदा मनोज्ञं स्तनदुत्सवोत्सुकं विकीर्णविस्तीर्ण कलापशोभितम् ।
ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥
(ऋतुसंहारः २-६)
"https://sa.wikiquote.org/w/index.php?title=अभ्रमयूरन्यायः&oldid=8307" इत्यस्माद् प्रतिप्राप्तम्