अयोध्याकाण्ड

विकिसूक्तिः तः
Jump to navigation Jump to search

वाल्मीकि रामयणग्रन्थस्य भाग अस्ति।

अन्तर्विषयाः

अशीतितमः सर्गः ॥२-८०॥[सम्पाद्यताम्]

अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।
स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।
तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।
समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥

स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।
अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥

ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।
करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥

लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।
जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥

अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।
केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥

अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥

अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।
निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥

बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।
बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥

अचिरेण एव कालेन परिवाहान् बहु उदकान् ।
चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥

ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।
मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।
बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥

आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।
रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।
भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥

बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।
तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।
पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।
समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥

जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।
शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥

सचन्द्र तारा गण मण्डितम् यथा ।
नभः क्षपायाम् अमलम् विराजते ।
नर इन्द्र मार्गः स तथा व्यराजत ।
क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥

अष्टचत्वारिंशः सर्गः ॥२-४८॥[सम्पाद्यताम्]

तेषामेवम् विष्ण्णानाम्पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणाम् सशोकानाम् मुमूर्षया ॥२-४८-१॥
अनुगम्य निवृत्तानाम् रामम् नगर वासिनाम् ।
उद्गतानि इव सत्त्वानि बभूवुर् अमनस्विनाम् ॥२-४८-२॥

स्वम् स्वम् निलयम् आगम्य पुत्र दारैः समावृताः ।
अश्रूणि मुमुचुः सर्वे बाष्पेण पिहित आननाः ॥२-४८-३॥

न च आहृष्यन् न च अमोदन् वणिजो न प्रसारयन् ।
न च अशोभन्त पण्यानि न अपचन् गृह मेधिनः ॥२-४८-४॥

नष्टम् दृष्ट्वा न अभ्यनन्दन् विपुलम् वा धन आगमम् ।
पुत्रम् प्रथमजम् लब्ध्वा जननी न अभ्यनन्दत ॥२-४८-५॥

गृहे गृहे रुदन्त्यः च भर्तारम् गृहम् आगतम् ।
व्यगर्हयन्तः दुह्ख आर्ता वाग्भिस् तोत्रैः इव द्विपान् ॥२-४८-६॥

किम् नु तेषाम् गृहैः कार्यम् किम् दारैः किम् धनेन वा ।
पुत्रैः वा किम् सुखैः वा अपि ये न पश्यन्ति राघवम् ॥२-४८-७॥

एकः सत् पुरुषो लोके लक्ष्मणः सह सीतया ।
यो अनुगच्चति काकुत्स्थम् रामम् परिचरन् वने ॥२-४८-८॥

आपगाः कृत पुण्याः ताः पद्मिन्यः च सराम्सि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलम् शुचि ॥२-४८-९॥

शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य काननाः ।
आपगाः च महा अनूपाः सानुमन्तः च पर्वताः ॥२-४८-१०॥

काननम् वा अपि शैलम् वा यम् रामः अभिगमिष्यति ।
प्रिय अतिथिम् इव प्राप्तम् न एनम् शक्ष्यन्ति अनर्चितुम् ॥२-४८-११॥

विचित्र कुसुम आपीडा बहु मन्जलि धारिणः ।
अकाले च अपि मुख्यानि पुष्पाणि च फलानि च ॥२-४८-१२॥

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्ति अनुक्रोशात् गिरयो रामम् आगतम् ॥२-४८-१३॥

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तः विविधान् भूयः चित्रामः च निर्झरान् ॥२-४८-१४॥

पादपाः पर्वत अग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामः भयम् न अत्र न अस्ति तत्र पराभवः ॥२-४८-१५॥

स हि शूरः महा बाहुः पुत्रः दशरथस्य च ।
पुरा भवति नो दूरात् अनुगच्चाम राघवम् ॥२-४८-१६॥

पादच् चाया सुखा भर्तुस् तादृशस्य महात्मनः ।
स हि नाथो जनस्य अस्य स गतिः स परायणम् ॥२-४८-१७॥

वयम् परिचरिष्यामः सीताम् यूयम् तु राघवम् ।
इति पौर स्त्रियो भर्तृऋन् दुह्ख आर्ताः तत् तत् अब्रुवन् ॥२-४८-१८॥

युष्माकम् राघवो अरण्ये योग क्षेमम् विधास्यति ।
सीता नारी जनस्य अस्य योग क्षेमम् करिष्यति ॥२-४८-१९॥

को न्व् अनेन अप्रतीतेन स उत्कण्ठित जनेन च ।
सम्प्रीयेत अमनोज्ञेन वासेन हृत चेतसा ॥२-४८-२०॥

कैकेय्या यदि चेद् राज्यम् स्यात् अधर्म्यम् अनाथवत् ।
न हि नो जीवितेन अर्थः कुतः पुत्रैः कुतः धनैः ॥२-४८-२१॥

यया पुत्रः च भर्ता च त्यक्ताव् ऐश्वर्य कारणात् ।
कम् सा परिहरेद् अन्यम् कैकेयी कुल पाम्सनी ॥२-४८-२२॥

कैकेय्या न वयम् राज्ये भृतका निवसेमहि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैः अपि शपामहे ॥२-४८-२३॥

या पुत्रम् पार्थिव इन्द्रस्य प्रवासयति निर्घृणा ।
कः ताम् प्राप्य सुखम् जीवेद् अधर्म्याम् दुष्ट चारिणीम् ॥२-४८-२४॥

उपद्रुतमिदम् सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वम् विनाशमुपयास्यति ॥२-४८-२५॥

न हि प्रव्रजिते रामे जीविष्यति मही पतिः ।
मृते दशरथे व्यक्तम् विलोपः तत् अनन्तरम् ॥२-४८-२६॥

ते विषम् पिबत आलोड्य क्षीण पुण्याः सुदुर्गताः ।
राघवम् वा अनुगच्चध्वम् अश्रुतिम् वा अपि गच्चत ॥२-४८-२७॥

मिथ्या प्रव्राजितः रामः सभार्यः सह लक्ष्मणः ।
भरते सम्निषृष्टाः स्मः सौनिके पशवो यथा ॥२-४८-२८॥

पूर्णचन्द्राननः श्यामो गूढजत्रुररिंदमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मनपूर्वजः ॥२-४८-२९॥
पूर्वाभिभाषी मधुरः सत्यवादी महाबलः ।
सौम्यः सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥२-४८-३०॥
नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयुश्यत्यरण्यानि विचरन् स महारथः ॥२-४८-३१॥

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशुर्दुःखसम्तप्तामृत्योरिव भयागमे ॥२-४८-३२॥

इत्येव विलपन्तीनाम् स्त्रीणाम् वेश्मसु राघवम् ।
जगामास्तम् दिनकरो रजनी चाभ्यवर्तत ॥२-४८-३३॥

नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव तदा सा नगरी बभौ ॥२-४८-३४॥

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥२-४८-३५॥

तथा स्त्रियो राम निमित्तम् आतुरा ।
यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर् विचेतसः ।
सुतैः हि तासाम् अधिको हि सो अभवत् ॥२-४८-३६॥

प्रशान्तगीतोत्सव नृत्तवादना ।
व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा ।
महार्णवः सम्क्षपितोदको यथा ॥२-४८-३७॥

अष्टपञ्चाशः सर्गः ॥२-५८॥[सम्पाद्यताम्]

प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः ।
थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥

तदा सूतो महाराज कृताञ्जलिरुपस्थितः।
राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् ।
विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥

राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् ।
अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥

क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः ।
सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥

दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः ।
भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥

यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः ।
स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥

व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् ।
कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥

सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ ।
वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥

आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय ।
जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥

इति सूतः नर इन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥

अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् ।
अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥

सूत मद्वचनात् तस्य तातस्य विदित आत्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥

सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया ।
आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥

माता च मम कौसल्या कुशलम् च अभिवादनम् ।
अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥

अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु ।
अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥

कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥

भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च ।
सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥

वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः ।
पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥

अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः ।
कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥

अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥

इति एवम् माम् महाराज बृवन्न् एव महा यशाः ।
रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥

लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् ।
केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् ।
कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥

यदि प्रव्राजितः रामः लोभ कारण कारितम् ।
वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥

इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥

असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् ।
जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥

अहम् तावन् महा राजे पितृत्वम् न उपलक्षये ।
भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥

सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् ।
सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥

सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् ।
सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥

जानकी तु महा राज निःश्वसन्ती तपस्विनी ।
भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥

अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी ।
तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥

उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥

तथैव रामः अश्रु मुखः कृत अन्जलिः ।
स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः ।
तथैव सीता रुदती तपस्विनी ।
निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥

अष्टमः सर्गः ॥२-८॥[सम्पाद्यताम्]

मन्थरा त्वभ्यसूयैनामुत्सृज्याभरणं च तत्।
उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥२-८-१॥

हर्षं किमिदमस्थाने कृतवत्यसि बालिशे ।
शोकसागरमध्यस्थमात्मानं नावबुध्यसे ॥२-८-२॥

मनसा प्रहसामि त्वां देवि दुःखार्धिता सती ।
यच्छोचितव्ये हृष्टासि प्राप्येदं व्यसनं महत् ॥२-८-३॥

शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
अरेः सपत्नीपुत्रस्य वृद्धिं मृत्युमिवागताम् ॥२-८-४॥

भरतादेव रामस्य राज्यसाधारणाद्भयम् ।
तद्विचिन्त्य विषण्णास्मि भय भीताद्धि जायते ॥२-८-५॥

लक्ष्मणो हि महेष्वासो रामं सर्वात्मना गतः ।
शत्रुघ्नश्चापि भरतं काकुत्थ्सं लक्ष्मणो यथा ॥२-८-६॥

प्रत्यासन्नक्रमेणापि भरतस्तैव भामिनि ।
राज्यक्रमो विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥२-८-७॥

विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
भयात्प्रवेपे रामस्य चिन्तयन्ती तवात्मजम् ॥२-८-८॥

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥२-८-९॥

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम् ।
उपस्थास्यसि कौसल्यां दासीवत्त्वं कृताञ्जलिः ॥२-८-१०॥

एवम् चेत्त्वं सहास्माभिस्तस्याः प्रेष्य भविष्यसि ।
पुत्रश्च तव रामस्य प्रेष्यभावं गमिष्यति ॥२-८-११॥

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः ।
अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये ॥२-८-१२॥

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः ।
रामस्यैव गुणान् देवी कैकेयि प्रशशंस ह ॥२-८-१३॥

धर्मज्ञो गुरुभिर्दान्तः कृतज्ञ सत्यवाक्चुचि ।
रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति ॥२-८-१४॥

भ्रात्R^ऊन्भऋत्यांश्च दीर्घायुः पितृवत्पालयिष्यति ।
संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम् ॥२-८-१५॥

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम् ।
पितृपैतामहं राज्यमवाप्ता पुरुषर्षभः ॥२-८-१६॥

सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे ।
भविष्यति च क्ल्याणे किमर्थं परितप्यसे ॥२-८-१७॥

यथा ने भरतो मान्यस्तथा भूयोऽपि राघावः ।
कौसल्यातोऽरिक्तं च सो हि शुश्रूषते हि माम् ॥२-८-१८॥

राज्यं यदि हि रामस्य भरतस्यापि तत्तदा ।
मन्यते हि यथात्मानं तथा भ्रात्R^ऊंश्च राघवः ॥२-८-१९॥

कैकेयीवचनं श्रुत्वा मन्थरा भृशदुःखिता ।
दीर्घमुष्णं निःश्वस्य कैकेयीमिदमब्रवीत् ॥२-८-२०॥

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे ।
शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे ॥२-८-२१॥

भविता राघवो राजा राघवस्यानु यः सुतः ।
राजवंशात्तु कैकेयि भरतः परिहास्यते ॥२-८-२२॥

न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि ।
स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥२-८-२३॥

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः ।
स्थापयन्त्यनवद्याङ्गि गुणवत्स्वतरेष्वपि ॥२-८-२४॥

असावत्यन्तनिर्भग्न स्तवपुत्रो भविष्यति ।
अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले ॥२-८-२५॥

साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे ।
सपत्निवृद्दौ या मे त्वं प्रदेयं दातुमिच्चिसि ॥२-८-२६॥

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् ।
देशान्तरं वासयिता लोकान्तरमथापि व ॥२-८-२७॥

बाल एव हि मातुल्यं भरतो नायितस्त्वया ।
सन्निकर्षाच्च सौहार्दं जायते स्थावरेष्वपि ॥२-८-२८॥

भरतस्यानुवशगः शत्रुघ्नोऽपि समं गतः ।
लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥२-८-२९॥

श्रूयते हि द्रुमः कश्चिच्चेत्तव्यो वनजीविभिः ।
सन्निकर्षादिषीकाभिर्मो चितः परमाद्भयात् ॥२-८-३०॥

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः ।
अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम् ॥२-८-३१॥

तस्मान्न लक्ष्मणे रामः पापं किञ्चित्करिष्यति ।
रामस्तु भरते पापं कुर्यादिति न सं शयः ॥२-८-३२॥

तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ।
एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥२-८-३३॥

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ।
यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥२-८-३४॥

स ते सुखोचितो बालो रामस्य सहजो रिपुः ।
समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥२-८-३५॥

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् ।
प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥२-८-३६॥

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया ।
राममाता सपत्नी ते कथं वैरं न शातयेत् ॥२-८-३७॥

यदा हि रामः पृथिवीमवाप्स्यति ।
प्रभूतरत्नाकरशैलपत्तनाम् ।
तदा गमिष्यस्यशुभं पराभवं ।
सहैव दीना भरतेन भामिनि ॥२-८-३८॥

यदा हि रामः पृथिवीमवाप्स्यति ।
ध्रुवं प्रणष्टो भरतो भविष्यति ।
अतो हि संचिन्तय राज्यमात्मजे ।
पर्स्य चैवाद्य विवासकारणम् ॥२-८-३९॥

अष्टषष्ठितमः सर्गः ॥२-६८॥[सम्पाद्यताम्]

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥

यद् असौ मातुल कुले पुरे राज गृहे सुखी ।
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥

गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥

एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥

पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥

पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥

मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥

कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥

दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥

ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥

ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥

ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥

निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥

अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥

अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥

विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।
ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥

ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥

भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।
भर्तुः च वम्शस्य परिग्रह अर्थम् ।
अहेडमानाः त्वरया स्म दूता ।
रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥

अष्टसप्ततितमः सर्गः ॥२-७८॥[सम्पाद्यताम्]

अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।
भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥

गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।
स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥

बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।
किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥

पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।
उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।
प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥

लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।
विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥

मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।
बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥

ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।
गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥

यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।
सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥

शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।
अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥

तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।
यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥

एवम् उक्ता च तेन आशु सखी जन समावृता ।
गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥

ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।
क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥

अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।
यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥

सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।
कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥

स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।
विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥

तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।
चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥

तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।
अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥

स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।
कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥

तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।
शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥

ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।
अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥

हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।
यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥

इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।
त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।
न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥

सा पाद मूले कैकेय्या मन्थरा निपपात ह ।
निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥

शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।
समीक्ष्य कुब्जाम् भरतस्य माता ।
शनैः समाश्वासयद् आर्त रूपाम् ।
क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥

अष्टात्रिंशः सर्गः ॥२-३८॥[सम्पाद्यताम्]

तस्याम् चीरम् वसानायाम् नाथवत्याम् अनाथवत् ।
प्रचुक्रोश जनः सर्वो धिग् त्वाम् दशरथम् तु इति ॥२-३८-१॥

तेन तत्र प्रणादेन दुःखितस्स महीपतिः ।
चिच्छेद जीविते श्रद्धाम् धर्मे यशसि चात्मनः ॥२-३८-२॥

स निह्श्वस्य उष्णम् ऐक्ष्वाकः ताम् भार्याम् इदम् अब्रवीत् ।
कैकेयि कुश चीरेण न सीता गन्तुम् अर्हति ॥२-३८-३॥

सुकुमारी च बाला च सततम् च सुखोचिता ।
नेयम् वनस्य योग्येति सत्यमाह गुरुर्मम ॥२-३८-४॥

इयम् हि कश्यापकरोति किम्चि ।
त्तपस्विनी राजवरस्य कन्या ।
या चीरमासाद्य जनस्य मध्ये ।
स्थिता विसम्ज्ञा श्रमणीव काचित् ॥२-३८-५॥

चीराण्यसास्या जनकस्य कन्या ।
नेयम् प्रतिज्ञा मम दत्तपूर्वा ।
यथासुखम् गच्छतु राजपुत्री ।
वनम् सम्ग्रा सह सर्वर्त्नैः ॥२-३८-६॥

अजीवनार्हेण मया नृशम्सा ।
कृता प्रतिज्ञा नियमेन तावत् ।
त्वया हि बाल्यात् प्रतिपन्नमेतत् ।
त्न्माम् दहेद् वेणुमिवात्मपुष्पम् ॥२-३८-७॥

रामेण यदि ते पा पे किम्चित्कृतमशोभनम् ।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥२-३८-८॥

मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी ।
अपकारम् कमिह ते करोति जनकात्मजा ॥२-३८-९॥

ननु पर्याप्तम् एतत् ते पापे राम विवासनम् ।
किम् एभिः कृपणैः भूयः पातकैः अपि ते कृतैः ॥२-३८-१०॥

प्रतिज्ञातम् मया तावत् त्वयोक्तम् देवि शृण्वता ।
रामम् यदभिषेकाय त्वमिहाअत मब्रवीः ॥२-३८-११॥

तत्त्वेतत्समतिक्रम्य निरयम् गन्तुमिच्छसि ।
मैथिलीमपि या हि त्व मीक्षसे चीरवासिनीम् ॥२-३८-१२॥

इतीव राजा विलपन्महात्मा ।
शोकस्य नान्तम् स ददर्श किम्चित् ।
भृशातुरत्वाच्च पपात भूमौ ।
तेनैव पुत्रव्यसनेन मग्नः ॥२-३८-१३॥

एवम् ब्रुवन्तम् पितरम् रामः सम्प्रस्थितः वनम् ।
अवाक् शिरसम् आसीनम् इदम् वचनम् अब्रवीत् ॥२-३८-१४॥

इयम् धार्मिक कौसल्या मम माता यशस्विनी ।
वृद्धा च अक्षुद्र शीला च न च त्वाम् देव गर्हिते ॥२-३८-१५॥

मया विहीनाम् वरद प्रपन्नाम् शोक सागरम् ।
अदृष्ट पूर्व व्यसनाम् भूयः सम्मन्तुम् अर्हसि ॥२-३८-१६॥

पुत्रशोकम् यथा नर्चेत्त्वया पूज्येन पूजिता ।
माम् हि सम्चिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥२-३८-१७॥

इमाम् महा इन्द्र उपम जात गर्भिनीम् ।
तथा विधातुम् जनमीम् मम अर्हसि ।
यथा वनस्थे मयि शोक कर्शिता ।
न जीवितम् न्यस्य यम क्षयम् व्रजेत् ॥२-३८-१८॥

अष्टादशः सर्गः ॥२-१८॥[सम्पाद्यताम्]

स ददर्श आसने रामः निषण्णम् पितरम् शुभे ।
कैकेयी सहितम् दीनम् मुखेन परिशुष्यता ॥२-१८-१॥

स पितुः चरणौ पूर्वम् अभिवाद्य विनीतवत् ।
ततः ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२-१८-२॥

राम इति उक्त्वा च वचनम् वाष्प पर्याकुल ईक्षणः ।
शशाक न्Rपतिर् दीनो न ईक्षितुम् न अभिभाषितुम् ॥२-१८-३॥

तत् अपूर्वम् नर पतेर् द्Rष्ट्वा रूपम् भय आवहम् ।
रामः अपि भयम् आपन्नः पदा स्प्Rष्ट्वा इव पन्नगम् ॥२-१८-४॥

इन्द्रियैः अप्रह्Rष्टैअः तम् शोक सम्ताप कर्शितम् ।
निह्श्वसन्तम् महा राजम् व्यथित आकुल चेतसम् ॥२-१८-५॥
ऊर्मि मालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् ।
उपप्लुतम् इव आदित्यम् उक्त अन्Rतम् Rषिम् यथा ॥२-१८-६॥

अचिन्त्य कल्पम् हि पितुस् तम् शोकम् उपधारयन् ।
बभूव सम्रब्धतरः समुद्रैव पर्वणि ॥२-१८-७॥

चिन्तयाम् आस च तदा रामः पित्R हिते रतः ।
किम्स्विद् अद्य एव न्Rपतिर् न माम् प्रत्यभिनन्दति ॥२-१८-८॥

अन्यदा माम् पिता द्Rष्ट्वा कुपितः अपि प्रसीदति ।
तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते ॥२-१८-९॥

स दीनैव शोक आर्तः विषण्ण वदन द्युतिः ।
कैकेयीम् अभिवाद्य एव रामः वचनम् अब्रवीत् ॥२-१८-१०॥

कच्चिन् मया न अपराधम् अज्ञानात् येन मे पिता ।
कुपितः तन् मम आचक्ष्व त्वम् चैव एनम् प्रसादय ॥२-१८-११॥

अप्रसन्नमनाः किम् नु सदा मां प्रति वत्सलः ।
विवर्ण वदनो दीनो न हि माम् अभिभाषते ॥२-१८-१२॥

शारीरः मानसो वा अपि कच्चित् एनम् न बाधते ।
सम्तापो वा अभितापो वा दुर्लभम् हि सदा सुखम् ॥२-१८-१३॥

कच्चिन् न किम्चित् भरते कुमारे प्रिय दर्शने ।
शत्रुघ्ने वा महा सत्त्वे मात्RRणाम् वा मम अशुभम् ॥२-१८-१४॥

अतोषयन् महा राजम् अकुर्वन् वा पितुर् वचः ।
मुहूर्तम् अपि न इच्चेयम् जीवितुम् कुपिते न्Rपे ॥२-१८-१५॥

यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः ।
कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥२-१८-१६॥

कच्चित् ते परुषम् किम्चित् अभिमानात् पिता मम ।
उक्तः भवत्या कोपेन यत्र अस्य लुलितम् मनः ॥२-१८-१७॥

एतत् आचक्ष्व मे देवि तत्त्वेन परिप्Rच्चतः ।
किम् निमित्तम् अपूर्वो अयम् विकारः मनुज अधिपे ॥२-१८-१८॥

एवमुक्ता तु कैकेयी राघवेण महात्मना ।
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥२-१८-१९॥

न राजा कुपितो राम व्यसनम् नास्य किम्चन ।
किम्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२-१८-२०॥

प्रियम् त्वामप्रियम् वक्तुम् वाणी नास्योपपर्तते ।
तदवश्यम् त्वया कार्यम् यदनेनाश्रुतम् मम ॥२-१८-२१॥

एष मह्यम् वरम् दत्त्वा पुरा मामभिपूज्य च ।
स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२-१८-२२॥

अतिसृज्य ददानीति वरम् मम विशाम्पतिः ।
स निरर्थं गतजले सेतुम् बन्धितुमिच्छति ॥२-१८-२३॥

धर्मूलमिदम् राम विदितम् च सतामपि ।
तत्सत्यम् न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥२-१८-२४॥

यदि तद्वक्ष्यते राजा शुभम् वा यदि वाऽशुभम् ।
करिष्यसि ततः सर्वमाख्यामि पुनस्त्वहम् ॥२-१८-२५॥

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।
ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥२-१८-२६॥

एतात्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।
उवाच व्यथितो रामस्ताम् देवीम् नृपसन्निधौ ॥२-१८-२७॥

अहो धिङ्नार्हसे देवि पक्तुं मामीदृशं वचः ।
अहम् हि वचनात् राज्ञः पतेयम् अपि पावके ॥२-१८-२८॥
भक्षयेयम् विषम् तीक्ष्णम् मज्जेयम् अपि च अर्णवे ।
नियुक्तः गुरुणा पित्रा न्Rपेण च हितेन च ॥२-१८-२९॥

तत् ब्रूहि वचनम् देवि राज्ञो यद् अभिकान्क्षितम् ।
करिष्ये प्रतिजाने च रामः द्विर् न अभिभाषते ॥२-१८-३०॥

तम् आर्जव समायुक्तम् अनार्या सत्य वादिनम् ।
उवाच रामम् कैकेयी वचनम् भ्Rश दारुणम् ॥२-१८-३१॥

पुरा देव असुरे युद्धे पित्रा ते मम राघव ।
रक्षितेन वरौ दत्तौ सशल्येन महा रणे ॥२-१८-३२॥

तत्र मे याचितः राजा भरतस्य अभिषेचनम् ।
गमनम् दण्डक अरण्ये तव च अद्य एव राघव ॥२-१८-३३॥

यदि सत्य प्रतिज्ञम् त्वम् पितरम् कर्तुम् इच्चसि ।
आत्मानम् च नर रेष्ठ मम वाक्यम् इदम् श्Rणु ॥२-१८-३४॥

स निदेशे पितुस् तिष्ठ यथा तेन प्रतिश्रुतम् ।
त्वया अरण्यम् प्रवेष्टव्यम् नव वर्षाणि पन्च च ॥२-१८-३५॥

भरतस्त्वभिषिच्येत यदेतदभिषेचन्म् ।
त्वदर्थे विहितम् राज्ञा तेन सर्वेण राघव ॥२-१८-३६॥

सप्त सप्त च वर्षाणि दण्डक अरण्यम् आश्रितः ।
अभिषेकम् इमम् त्यक्त्वा जटा चीर धरः वस ॥२-१८-३७॥

भरतः कोसल पुरे प्रशास्तु वसुधाम् इमाम् ।
नाना रत्न समाकीर्णम् सवाजि रथ कुन्जराम् ॥२-१८-३८॥

एतेन त्वां नरेन्द्रोयम् कारुण्येन समाप्लुतः ।
शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥२-१८-३९॥

एतत्कुरु नरेन्ध्रस्य वचनं रघुनन्दन ।
सत्यन महता राम तारयस्व नरेश्वरम् ॥२-१८-४०॥

इतीव तस्यां परुषम् वदन्त्याम् ।
नचैव रामः प्रविवेश शोकम् ।
प्रविव्यधे चापि महानुभावो ।
राजा तु पुत्रव्यसनाभितप्तः ॥२-१८-४१॥

अष्टाविंशः सर्गः ॥२-२८॥[सम्पाद्यताम्]

सएवम् ब्रुवतीम् सीताम् धर्मज्ञो धर्म वत्सलः ।
निवर्तन अर्थे धर्म आत्मा वाक्यम् एतत् उवाच ह ॥२-२८-१॥

सान्त्वयित्वा पुनस्ताम् तु बाष्पदूषितलोचनाम् ।
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥२-२८-२॥

सीते महा कुलीना असि धर्मे च निरता सदा ।
इह आचर स्वधर्मम् त्वम् मा यथा मनसः सुखम् ॥२-२८-३॥

सीते यथा त्वाम् वक्ष्यामि तथा कार्यम् त्वया अबले ।
वने दोषा हि बहवो वदतः तान् निबोध मे ॥२-२८-४॥

सीते विमुच्यताम् एषा वन वास कृता मतिः ।
बहु दोषम् हि कान्तारम् वनम् इति अभिधीयते ॥२-२८-५॥

हित बुद्ध्या खलु वचो मया एतत् अभिधीयते ।
सदा सुखम् न जानामि दुह्खम् एव सदा वनम् ॥२-२८-६॥

गिरि निर्झर सम्भूता गिरि कन्दर वासिनाम् ।
सिम्हानाम् निनदा दुह्खाः श्रोतुम् दुह्खम् अतः वनम् ॥२-२८-७॥

क्रीडमानाश्च विस्रब्धा मत्ताह् शून्ये महामृगाः ।
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥२-२८-८॥

सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ।
मत्तैरपि गजैर्नित्यमतो दुःखतरम् वनम् ॥२-२८-९॥

लताकण्टकसम्पूर्णाः कृकवाकूपनादिताः ।
निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥२-२८-१०॥

सुप्यते पर्ण शय्यासु स्वयम् भग्नासु भू तले ।
रात्रिषु श्रम खिन्नेन तस्मात् दुह्खतरम् वनम् ॥२-२८-११॥

अहोरात्रम् च सन्तोषः कर्तव्यो नियतात्मना ।
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥२-२८-१२॥

उपवासः च कर्तव्या यथा प्राणेन मैथिलि ।
जटा भारः च कर्तव्यो वल्कल अम्बर धारिणा ॥२-२८-१३॥

देवतानाम् पितृइणाम् चकर्तव्यम् विधिपूर्वकम् ।
प्राप्तानामतिथीनाम् च नित्यशः प्रतिपूजनम् ॥२-२८-१४॥

कार्यस्त्रीरभिषेकश्च काले काले च नित्यशः ।
चरता नियमेनैव तस्माद्दुःखतरम् वनम् ॥२-२८-१५॥

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः ।
आर्षेण विधिना वेद्याम् बाले दुःखमतो वनम् ॥२-२८-१६॥

यथालब्धेन कर्तव्यः सन्तोष्स्तेन मैथिलि ।
यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥२-२८-१७॥

अतीव वातः तिमिरम् बुभुक्षा च अत्र नित्यशः ।
भयानि च महान्ति अत्र ततः दुह्खतरम् वनम् ॥२-२८-१८॥

सरी सृपाः च बहवो बहु रूपाः च भामिनि ।
चरन्ति पृथिवीम् दर्पात् अतः दुखतरम् वनम् ॥२-२८-१९॥

नदी निलयनाः सर्पा नदी कुटिल गामिनः ।
तिष्ठन्ति आवृत्य पन्थानम् अतः दुह्खतरम् वनम् ॥२-२८-२०॥

पतम्गा वृश्चिकाः कीटा दम्शाः च मशकैः सह ।
बाधन्ते नित्यम् अबले सर्वम् दुह्खम् अतः वनम् ॥२-२८-२१॥

द्रुमाः कण्टकिनः चैव कुश काशाः च भामिनि ।
वने व्याकुल शाखा अग्राः तेन दुह्खतरम् वनम् ॥२-२८-२२॥

कायक्लेशाश्च बहवो भयानि विविधानि च ।
अरण्यवासे वसतो क्धुःखमेव ततो वनम् ॥२-२८-२३॥

क्रोधलोभे विमोक्तव्यौ कर्तव्या तपसे मतिः ।
न भेतव्यम् च भेतव्ये नित्यम् दुःखमतो वनम् ॥२-२८-२४॥

तत् अलम् ते वनम् गत्वा क्षमम् न हि वनम् तव ।
विमृशन्न् इह पश्यामि बहु दोषतरम् वनम् ॥२-२८-२५॥

वनम् तु नेतुम् न कृता मतिस् तदा ।
बभूव रामेण यदा महात्मना ।
न तस्य सीता वचनम् चकार तत् ।
ततः अब्रवीद् रामम् इदम् सुदुह्खिता ॥२-२८-२६॥

अष्टाशीतितमः सर्गः ॥२-८८॥[सम्पाद्यताम्]

तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।
इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
अब्रवीद् जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥

महा भाग कुलीनेन महा भागेन धीमता ।
जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥

अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।
शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥

प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।
हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।
पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।
मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।
गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥

अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥

न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥

विदेह राजस्य सुता सीता च प्रिय दर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥

इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥

मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥

उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥

हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।
ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥

सार्वभौम कुले जातः सर्व लोक सुख आवहः ।
सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।
सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।
भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥

सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।
वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥

अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।
गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥

न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।
वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥

शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।
अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।
शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥

अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।
फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥

तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।
तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥

वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।
लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥

अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।
अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।
प्रसाद्यमानः शिरसा मया स्वयम् ।
बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥

ततोन्रुवत्सयामि चिराय राघवम् ।
वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥

एकचत्वारिंशः सर्गः ॥२-४१॥[सम्पाद्यताम्]

तस्मिम्स्तु पुरुषव्याघ्रे विनिर्याति कृताञ्जलौ ।
आर्तशब्दोऽथ सम्जज्ञे स्त्रीणामन्तह्पुते तदा ॥२-४१-१॥

अनाथस्य जनस्य अस्य दुर्बलस्य तपस्विनः ।
यो गतिम् शरणम् च आसीत् स नाथः क्व नु गच्चति ॥२-४१-२॥

न क्रुध्यति अभिशस्तः अपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान् प्रसादयन् सर्वान् सम दुह्खः क्व गच्चति ॥२-४१-३॥

कौसल्यायाम् महा तेजा यथा मातरि वर्तते ।
तथा यो वर्तते अस्मासु महात्मा क्व नु गच्चति ॥२-४१-४॥

कैकेय्या क्लिश्यमानेन राज्ञा सम्चोदितः वनम् ।
परित्राता जनस्य अस्य जगतः क्व नु गच्चति ॥२-४१-५॥

अहो निश्चेतनो राजा जीव लोकस्य सम्प्रियम् ।
धर्म्यम् सत्य व्रतम् रामम् वन वासो प्रवत्स्यति ॥२-४१-६॥

इति सर्वा महिष्यः ता विवत्साइव धेनवः ।
रुरुदुः चैव दुह्ख आर्ताः सस्वरम् च विचुक्रुशुः ॥२-४१-७॥

स तम् अन्तः पुरे घोरम् आर्त शब्दम् मही पतिः ।
पुत्र शोक अभिसम्तप्तः श्रुत्वा च आसीत् सुदुह्खितः ॥२-४१-८॥

न अग्नि होत्राणि अहूयन्त सूर्यः च अन्तर् अधीयत ।
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् ॥२-४१-९॥

व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।
पुत्रम् प्रथमजम् लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥

त्रिशन्कुर् लोहित अन्गः च बृहस्पति बुधाव् अपि ।
दारुणाः सोमम् अभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥

नक्षत्राणि गत अर्चीम्षि ग्रहाः च गत तेजसः ।
विशाखाः च सधूमाः च नभसि प्रचकाशिरे ॥२-४१-१२॥

कालिकानिलवेगेन महोदधिरिवोत्थितः ।
रामे वनम् प्रव्रजिते नगरम् प्रचचाल तत् ॥२-४१-१३॥

दिशः पर्याकुलाः सर्वा स्तिमिरेणेव सम्वृताः ।
न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥

अकस्मान् नागरः सर्वो जनो दैन्यम् उपागमत् ।
आहारे वा विहारे वा न कश्चित् अकरोन् मनः ॥२-४१-१५॥

शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।
अयोध्यायाम् जनः सर्वः शुशोच जगतीपतिम् ॥२-४१-१६॥

बाष्प पर्याकुल मुखो राज मार्ग गतः जनः ।
न हृष्टः लक्ष्यते कश्चित् सर्वः शोक परायणः ॥२-४१-१७॥

न वाति पवनः शीतः न शशी सौम्य दर्शनः ।
न सूर्यः तपते लोकम् सर्वम् पर्याकुलम् जगत् ॥२-४१-१८॥

अनर्थिनः सुताः स्त्रीणाम् भर्तारः भ्रातरः तथा ।
सर्वे सर्वम् परित्यज्य रामम् एव अन्वचिन्तयन् ॥२-४१-१९॥

ये तु रामस्य सुहृदः सर्वे ते मूढ चेतसः ।
शोक भारेण च आक्रान्ताः शयनम् न जुहुस् तदा ॥२-४१-२०॥

ततः तु अयोध्या रहिता महात्मना ।
पुरम्दरेण इव मही सपर्वता ।
चचाल घोरम् भय भार पीडिता ।
सनाग योध अश्व गणा ननाद च ॥२-४१-२१॥

एकत्रिंशः सर्गः ॥२-३१॥[सम्पाद्यताम्]

एवम् श्रुत्वा तु सम्वादम् लक्ष्मणः पूर्वमागतः ।
बाष्पपर्याकुलमुखः शोकम् सोढुमशक्नुवन् ॥२-३१-१॥
स भ्रातुश्चरणौ गाढम् निपीड्य रघुनन्दनः ।
सीतामुवाचातियशाम् राघवम् च महाव्रतम् ॥२-३१-२॥

यदि गन्तुम् कृता बुद्धिर्वनम् मृगगजायुतम् ।
अहम् त्वानुगमिष्यामि वनमद्रे धनुर्धरः ॥२-३१-३॥

मया समेतोऽरण्यानि बहूनि विचरिष्यसि ।
पक्षिभिर्मृगयूथैश्च सम्घुष्टानि समन्ततः ॥२-३१-४॥

न देवलोकाक्रमणम् नामरत्वमहम् वृणे ।
ऐश्वर्यम् वापि लोकानाम् कामये न त्वया विना ॥२-३१-५॥

एवम् ब्रुवाणः सौमित्रिर्विनवासाय निश्चितः ।
रामेण बहुभिः सान्वैर्निषिद्धः पुनरब्रवीत् ॥२-३१-६॥

अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् ।
किमिदानीम् पुनरिदम् क्रियते मे निवारणम् ॥२-३१-७॥

यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः ।
एतदिच्छामि विज्ञातुम् सम्शयो हि ममानघ ॥२-३१-८॥

ततः अब्रवीन् महा तेजा रामः लक्ष्मणम् अग्रतः ।
स्थितम् प्राग् गामिनम् वीरम् याचमानम् कृत अन्जलिम् ॥२-३१-९॥

स्निग्धो धर्मरतो वीरस्सततम् सत्पथे स्थितः ।
प्रियः प्राणसमो वशो भ्राता चापि सखा च मे ॥२-३१-१०॥

मया अद्य सह सौमित्रे त्वयि गच्चति तत् वनम् ।
को भरिष्यति कौसल्याम् सुमित्राम् वा यशस्विनीम् ॥२-३१-११॥

अभिवर्षति कामैः यः पर्जन्यः पृथिवीम् इव ।
स काम पाश पर्यस्तः महा तेजा मही पतिः ॥२-३१-१२॥

सा हि राज्यम् इदम् प्राप्य नृपस्य अश्व पतेः सुता ।
दुह्खितानाम् सपत्नीनाम् न करिष्यति शोभनम् ॥२-३१-१३॥

न स्मरिष्यति कौसल्याम् सुमित्राम् च सुदुःखिताम् ।
भरतो राज्यमासाद्य कैकेय्याम् पर्यवस्थितः ॥२-३१-१४॥

तामार्याम् स्वयमेवेह राजाऽनुग्रहणेन वा ।
सौमित्रे भर कौसल्या मुक्तमर्थमिमम् चर ॥२-३१-१५॥

एवम् मम च ते भक्तिर्भविष्यति सुदर्शिता ।
धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्यतुलो महान् ॥२-३१-१६॥

एवम् कुरुष्व सौमित्रे मत्क्R^ते रघुनन्दन ।
अस्माभिर्विप्रहीनाया मातुर्नो न भवेत्सुखम् ॥२-३१-१७॥

एवम् उक्तः तु रामेण लक्ष्मणः श्लक्ष्णया गिरा ।
प्रत्युवाच तदा रामम् वाक्यज्ञो वाक्य कोविदम् ॥२-३१-१८॥

तव एव तेजसा वीर भरतः पूजयिष्यति ।
कौसल्याम् च सुमित्राम् च प्रयतः न अत्र सम्शयः ॥२-३१-१९॥

कौसल्या बिभृयात् आर्या सहस्रम् अपि मद् विधान् ।
यस्याः सहस्रम् ग्रामाणाम् सम्प्राप्तम् उपजीवनम् ॥२-३१-२०॥

तदात्मभरणे चैव मम मातुस्तथैव च ।
पर्याप्ता मद्विधानाम् च भरणाय यशस्विनी ॥२-३१-२१॥

कुरुष्व मामनुचरम् वैधर्म्यम् नेह विद्यते ।
कृतार्थोऽहम् भविष्यामि तव चार्थः प्रकल्पते ॥२-३१-२२॥

धनुर् आदाय सशरम् खनित्र पिटका धरः ।
अग्रतः ते गमिष्यामि पन्थानम् अनुदर्शयन् ॥२-३१-२३॥

आहरिष्यामि ते नित्यम् मूलानि च फलानि च ।
वन्यानि यानि च अन्यानि स्वाहाराणि तपस्विनाम् ॥२-३१-२४॥

भवाम्स् तु सह वैदेह्या गिरि सानुषु रम्स्यते ।
अहम् सर्वम् करिष्यामि जाग्रतः स्वपतः च ते ॥२-३१-२५॥

रामः तु अनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ।
व्रज आपृच्चस्व सौमित्रे सर्वम् एव सुहृज् जनम् ॥२-३१-२६॥

ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम् ।
जनकस्य महा यज्ञे धनुषी रौद्र दर्शने ॥२-३१-२७॥
अभेद्य कवचे दिव्ये तूणी च अक्षय सायकौ ।
आदित्य विमलौ च उभौ खड्गौ हेम परिष्कृतौ ॥२-३१-२८॥
सत्कृत्य निहितम् सर्वम् एतत् आचार्य सद्मनि ।
स त्वम् आयुधम् आदाय क्षिप्रम् आव्रज लक्ष्मण ॥२-३१-२९॥

स सुहृज् जनम् आमन्त्र्य वन वासाय निश्चितः ।
इष्क्वाकु गुरुम् आमन्त्र्य जग्राह आयुधम् उत्तमम् ॥२-३१-३०॥

तत् दिव्यम् राज शार्दूलः सत्कृतम् माल्य भूषितम् ।
रामाय दर्शयाम् आस सौमित्रिः सर्वम् आयुधम् ॥२-३१-३१॥

तम् उवाच आत्मवान् रामः प्रीत्या लक्ष्मणम् आगतम् ।
काले त्वम् आगतः सौम्य कान्क्षिते मम लक्ष्मण ॥२-३१-३२॥

अहम् प्रदातुम् इच्चामि यद् इदम् मामकम् धनम् ।
ब्राह्मणेभ्यः तपस्विभ्यः त्वया सह परम्तप ॥२-३१-३३॥

वसन्ति इह दृढम् भक्त्या गुरुषु द्विज सत्तमाः ।
तेषाम् अपि च मे भूयः सर्वेषाम् च उपजीविनाम् ॥२-३१-३४॥

वसिष्ठ पुत्रम् तु सुयज्ञम् आर्यम् ।
त्वम् आनय आशु प्रवरम् द्विजानाम् ।
अभिप्रयास्यामि वनम् समस्तान् ।
अभ्यर्च्य शिष्टान् अपरान् द्विजातीन् ॥२-३१-३५॥

एकपञ्चाशः सर्गः ॥२-५१॥[सम्पाद्यताम्]

तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् ।
गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥

उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः ।
गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥

न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन ।
ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥

अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥

न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥

लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ ।
न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥

कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥

यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥

कौसल्या चैव राजा च तथैव जननी मम ।
न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥

अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा ।
राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥

कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः ।
शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति ।
अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥

अपि जीवेद्धशरथो वनवासात्पुनर्वयम् ।
प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥

अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् ।
निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥

परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः ।
तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥

तथा हि सत्यम् ब्रुवति प्रजा हिते ।
नर इन्द्र पुत्रे गुरु सौहृदात् गुहः ।
मुमोच बाष्पम् व्यसन अभिपीडितः ।
ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥

एकविंशः सर्गः ॥२-२१॥[सम्पाद्यताम्]

तथा तु विलपन्तीम् ताम् कौसल्याम् राम मातरम् ।
उवाच लक्ष्मणो दीनः तत् काल सदृशम् वचः ॥२-२१-१॥

न रोचते मम अपि एतत् आर्ये यद् राघवो वनम् ।
त्यक्त्वा राज्य श्रियम् गच्चेत् स्त्रिया वाक्य वशम् गतः ॥२-२१-२॥

विपरीतः च वृद्धः च विषयैः च प्रधर्षितः ।
नृपः किम् इव न ब्रूयाच् चोद्यमानः समन्मथः ॥२-२१-३॥

न अस्य अपराधम् पश्यामि न अपि दोषम् तथा विधम् ।
येन निर्वास्यते राष्ट्रात् वन वासाय राघवः ॥२-२१-४॥

न तम् पश्याम्य् अहम् लोके परोक्षम् अपि यो नरः ।
स्वमित्रोऽपि निरस्तोऽपि योऽस्यदोषमुदाहरेत् ॥२-२१-५॥

देव कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम् ।
अवेक्षमाणः को धर्मम् त्यजेत् पुत्रम् अकारणात् ॥२-२१-६॥

तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः ।
पुत्रः को हृदये कुर्यात् राज व्Rत्तम् अनुस्मरन् ॥२-२१-७॥

यावद् एव न जानाति कश्चित् अर्थम् इमम् नरः ।
तावद् एव मया साधम् आत्मस्थम् कुरु शासनम् ॥२-२१-८॥

मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।
कः समर्थो अधिकम् कर्तुम् कृत अन्तस्य इव तिष्ठतः ॥२-२१-९॥

निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज ऋषभ ।
करिष्यामि शरैअः तीक्ष्णैः यदि स्थास्यति विप्रिये ॥२-२१-१०॥

भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्चति ।
सर्वान् एतान् वधिष्यामि मृदुर् हि परिभूयते ॥२-२१-११॥

प्रोत्साहितोऽयम् कैकेय्या स दुष्टो यदिः पिता ।
अमित्रभूतो निस्सङ्गम् वध्यताम् बध्यतामपि ॥२-२१-१२॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्फथम् प्रतिपन्नस्य कार्यम् भवति शासन्म् ॥२-२१-१३॥

बलमेष किमाश्रित्य हेतुम् वा पुरुषर्षभ ।
दातुमिच्छति कैकेय्य राज्यम् स्थितमिदम् तव ॥२-२१-१४॥

त्वया चैव मया चैव कृत्वा वैरम् अनुत्तमम् ।
कस्य शक्तिः श्रियम् दातुम् भरताय अरि शासन ॥२-२१-१५॥

अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः ।
सत्येन धनुषा चैव दत्तेन इष्टेन ते शपे ॥२-२१-१६॥

दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यते ।
प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय ॥२-२१-१७॥

हरामि वीर्यात् दुह्खम् ते तमः सूर्यैव उदितः ।
देवी पश्यतु मे वीर्यम् राघवः चैव पश्यतु ॥२-२१-१८॥

एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामम् कौसल्या रुदन्ती शोक लालसा ॥२-२१-१९॥

भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया ।
यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते ॥२-२१-२०॥

न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् ।
विहाय शोक सम्तप्ताम् गन्तुम् अर्हसि माम् इतः ॥२-२१-२१॥

धर्मज्ञ यदि धर्मिष्ठो धर्मम् चरितुम् इच्चसि ।
शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम् ॥२-२१-२२॥

शुश्रूषुर् जननीम् पुत्र स्व गृहे नियतः वसन् ।
परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः ॥२-२१-२३॥

यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम् ।
त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतः वनम् ॥२-२१-२४॥

त्वद् वियोगान् न मे कार्यम् जीवितेन सुखेन वा ।
त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम् ॥२-२१-२५॥

यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक लालसाम् ।
अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम् ॥२-२१-२६॥

ततः स्त्वम् प्राप्स्यसे पुत्र निरयम् लोक विश्रुतम् ।
ब्रह्म हत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः ॥२-२१-२७॥

विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः ।
उवाच रामः धर्म अत्मा वचनम् धर्म सम्हितम् ॥२-२१-२८॥

न अस्ति शक्तिः पितुर् वाक्यम् समतिक्रमितुम् मम ।
प्रसादये त्वाम् शिरसा गन्तुम् इच्चाम्य् अहम् वनम् ॥२-२१-२९॥

ऋषिणा च पितुर् वाक्यम् कुर्वता व्रत चारिणा ।
गौर् हता जानता धर्मम् कण्डुना अपि विपश्चिता ॥२-२१-३०॥

अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः ।
खनद्भिः सागरैः भूतिम् अवाप्तः सुमहान् वधः ॥२-२१-३१॥

जामदग्न्येन रामेण रेणुका जननी स्वयम् ।
कृत्ता परशुना अरण्ये पितुर् वचन कारिणा ॥२-२१-३२॥

एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम् ।
पितुर्वचनमक्लीबम् करिष्यामि पितुर्शितम् ॥२-२१-३३॥

न खल्व् एतन् मया एकेन क्रियते पितृ शासनम् ।
एतैरपि कृतम् देवि ये मया तव कीर्तिताः ॥२-२१-३४॥

नाहम् धर्ममपूर्वम् ते प्रतिकूलम् प्रवर्तये ।
पूर्वैः अयम् अभिप्रेतः गतः मार्गो अनुगम्यते ॥२-२१-३५॥

तत् एतत् तु मया कार्यम् क्रियते भुवि न अन्यथा ।
पितुर् हि वचनम् कुर्वन् न कश्चिन् नाम हीयते ॥२-२१-३६॥

ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत् ।
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम् ॥२-२१-३७॥

तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमम् चैव सत्यम् च तेजश्च सुदुरासदम् ॥२-२१-३८॥

मम मातुर्महद्दुःखमतुलम् शुभलक्षम्ण ।
अभिप्रायम् अविज्ञाय सत्यस्य च शमस्य च ॥२-२१-३९॥

धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम् ।
धर्म सम्श्रितम् एतच् च पितुर् वचनम् उत्तमम् ॥२-२१-४०॥

सम्श्रुत्य च पितुर् वाक्यम् मातुर् वा ब्राह्मणस्य वा ।
न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता ॥२-२१-४१॥

सो अहम् न शक्ष्यामि पितुर् नियोगम् अतिवर्तितुम् ।
पितुर् हि वचनात् वीर कैकेय्या अहम् प्रचोदितः ॥२-२१-४२॥

तत् एनाम् विसृज अनार्याम् क्षत्र धर्म आश्रिताम् मतिम् ।
धर्मम् आश्रय मा तैक्ष्ण्यम् मद् बुद्धिर् अनुगम्यताम् ॥२-२१-४३॥

तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण अग्रजः ।
उवाच भूयः कौसल्याम् प्रान्जलिः शिरसा आनतः ॥२-२१-४४॥

अनुमन्यस्व माम् देवि गमिष्यन्तम् इतः वनम् ।
शापिता असि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥२-२१-४५॥

तीर्ण प्रतिज्ञः च वनात् पुनर् एष्याम्य् अहम् पुरीम् ।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्धिवम् ॥२-२१-४६॥

शोकस्सम्धार्यताम् मातर्हृदये साधु मा शुचः ।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥२-२१-४७॥

त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया ।
पितुर्नियोगे स्थातव्यमेष धर्मः सनाअनः ॥२-२१-४८॥

अम्ब सम्हृत्य सम्भारान् दुःखम् हृदि निगृह्य च ।
वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥२-२१-४९॥

एतद्वच स्तस्य निशम्य माता ।
सुधर्म्यमव्यग्रमविक्लबम् च ।
मृतेव सम्ज्ञाम् प्रतिलभ्य देवी ।
समीक्ष्य रामम् पुनरित्युवाच ॥२-२१-५०॥

यथैव ते पुत्र पिता तथाहम् ।
गुरुः स्वधर्मेण सुहृत्तया च ।
न त्वानुजानामि न मांविहाय ।
सुदुःखितामर्हसि गन्तुमेवम् ॥२-२१-५१॥

किम् जीवितेनेह विना त्वया मे ।
लोकेन वा किम् स्वधयाऽमृतेन ।
श्रेयो मुहूर्तम् तव सन्निधानम् ।
ममेह कृत्स्नादपि जीवलोकात् ॥२-२१-५२॥

नरैरिवोल्काभिरपोह्यमानो ।
महागजोऽध्वानमनुप्रविष्टः ।
भूयः प्रजज्वाल विलापमेवम् ।
निशम्य रामः करुणम् जनन्या ॥२-२१-५३॥

स मातरम् चैव विसम्ज्ञकल्पा ।
मार्तम् च सौमित्रि मभिप्रतप्तम् ।
धर्मे स्थितो धर्म्यमुवाच वाक्यम् ।
यथा स एवार्हति तत्र वक्तुम् ॥२-२१-५४॥

अहम् हि ते लक्ष्मण नित्यमेव ।
जानामि भक्तिम् च पराक्रमम् च ।
मम त्वभिप्राय मसन्निरीक्ष्य ।
मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥२-२१-५५॥

धर्मार्थकामाः खलु तात लोके ।
समीक्षिता धर्मफलोदयेषु ।
ते तत्र सर्वे स्युरसम्शयम् मे ।
भार्येव वश्याभिमता सुपुत्रा ॥२-२१-५६॥

यस्मिम्स्तु सर्वे स्युरसन्निविष्टा ।
धर्मो यतः स्यात् तदुपक्रमेत ।
द्वेष्यो भवत्यर्थपरो हि लोके ।
कामात्मता खल्वपि न प्रशस्ता ॥२-२१-५७॥

गुरुश्च राजा च पिता च वृद्धः ।
क्रोधात्प्रहर्ष द्यदि वापि कामात् ।
यद्व्यादिशेत् कार्यमवेक्ष्य धर्मम् ।
कस्तन्न कुर्यादनृदनृशम्सवृत्तिः ॥२-२१-५८॥

सवै न शक्नोमि पितुः प्रतिज्ञा ।
मिमामकर्तुम् सकलम् यथावत् ।
स ह्यवयोस्तत गुरुर्नियोगे ।
देवाश्च भर्ता स गतिस्स धर्मः ॥२-२१-५९॥

तस्मिन् पुनर्जीवति धर्मराजे ।
विशेषतः स्वे पथि वर्तमाने ।
देवी मया सार्थमितोऽपगच्छेत् ।
कथम् स्विदन्या विधवेव नारी ॥२-२१-६०॥

सा मानुमन्यस्व वनम् व्रजन्तम् ।
कुरुष्व नः स्वस्त्ययनानि देवि ।
यथा समाप्ते पुनराव्रजेयम् ।
यथा हि स्त्येन पुनर्ययातिः ॥२-२१-६१॥

यशो ह्यहम् केवलराज्यकारणात् ।
न पृष्ठतः कर्तुमलम् महोदयम् ।
अदीर्घकाले न तु देवि जीविते ।
वृणेऽवरामद्य महीमधर्मतः ॥२-२१-६२॥

प्रसादयन् नर वृषभः स मातरम् ।
पराक्रमाज्जिगमिषुरेव दोम्डकान् ।
अथ अनुजम् भ्Rशम् अनुशास्य दर्शनम् ।
चकार ताम् ह्Rदि जननीम् प्रदक्षिणम् ॥२-२१-६३॥

एकषष्ठितमः सर्गः ॥२-६१॥[सम्पाद्यताम्]

वनम् गते धर्म परे रामे रमयताम् वरे ।
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥

यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥

सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥

भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥

गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥

महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।
भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥

पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥

वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥

यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।
निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥

भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥

तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥

एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥

न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।
एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥

हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥

तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥

न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥

नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥

स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥

द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।
यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥

गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥

तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥

हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।
हतः तथा आत्मा सह मन्त्रिभिः च ।
हता सपुत्रा अस्मि हताः च पौराः ।
सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥

इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।
निशम्य राजा अपि मुमोह दुह्खितः ।
ततः स शोकम् प्रविवेश पार्थिवः ।
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥

एकसप्ततितमः सर्गः ॥२-७१॥[सम्पाद्यताम्]

स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥

एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥

सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥

वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥

शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥

राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥

भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥

स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥

तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥

तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥

सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥

वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥

एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।

वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।

ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।

एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।

अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।

उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।

तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।

न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।

उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।

तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।

नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।

चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।

भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।

अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।

सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।

विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।

द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।

स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।

किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।

श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।

सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥

अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥

देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥

दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥

देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥

इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥

ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
रजो अरुण द्वार कपाट यन्त्राम् ।
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥

बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥

एकादशः सर्गः ॥२-११॥[सम्पाद्यताम्]

तं मन्मथशरैर्विद्धं कामवेगवशानुगम् ।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥२-११-१॥

नास्मि विप्रकृता देव केन चिन्नावमानिता ।
अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम् ॥२-११-२॥

प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तु मिच्छसि ।
अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया ॥२-११-३॥

तामुवाच महातेजाः कैकेयीमीषदुत्स्मैतः ।
कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ॥२-११-४॥

अवलिप्ते न जानासि त्वत्तः प्रियतरो मम ।
मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥२-११-५॥

तेनाजय्येन मुख्येन राघवेण महात्मना ।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेच्छसि ॥२-११-६॥

यं मुहूर्तमपश्यंस्तु न जीवेयमहं ध्रुवम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-७॥

आत्मना वात्मजैश्चान्यैर्वृणे यं मनुजर्षभम् ।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥२-११-८॥

भद्रे हृदयमप्येतदन्नुमृश्योद्धरस्व मे ।
एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे ॥२-११-९॥

बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥२-११-१०॥

सा तदर्थमना देवी तमभिप्रायमागतम् ।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥२-११-११॥

तेन वाक्येन संहृष्टा तमभिप्रायमागतम् ।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥२-११-१२॥

यथा क्रमेण शपसि वरं मम ददासि च ।
तच्छृण्वन्तु त्रयस्त्रींशद्देवाः साग्निपुरोगमाः ॥२-११-१३॥

चन्द्रादित्यौ नभशैव ग्रहा रात्र्यहनी दिशः ।
जगच्च पृथिवी चेयं सगन्धर्वा सराक्षसा ॥२-११-१४॥
निशाचराणि भूतानि गृहेषु गृहदेवताः ।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥२-११-१५॥

सत्य्सन्धो महातेजाधर्मज्ञः सुसमाहितः ।
वरं मम ददात्येष तन्मे शृण्वन्तु देवताअः ॥२-११-१६॥

इति देवी महेष्वासं परिगृह्यभिशस्य च ।
ततः परमुवाचेदं वरदं काममोहितम् ॥२-११-१७॥

स्मर राज्न् पुरा वृत्तं तस्मिन् दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवतमन्तरा ॥२-११-१८॥

तत्र चापि मया देव यत्त्वं समभिरक्षितः ।
जाग्रत्या यतमानायास्ततो मे प्राददा वरौ ॥२-११-१९॥

तौ तु दत्तौ वरौ देव निक्षेपौ मृगयाम्यहम् ।
तथैव पृथिवीपाल सकाशे सत्यसंगर ॥२-११-२०॥

तत्प्रतिश्रुत्य धर्मेण न चेद्दास्यसि मे वरम् ।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥२-११-२१॥

वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः ।
प्रच्स्कन्द विनाशाय पाशं वृग इवात्मनः ॥२-११-२२॥

ततः परमुवाचेदं वरदं काममोहितम् ।
वरौ यौ मे त्वया देव तदा दत्तौ महीपते ॥२-११-२३॥
तौ तावदहम्द्यैव वक्ष्यामि शृणु मे वचः ।

अभिषेकसमारम्भओ राघवस्योपकल्पितः ॥२-११-२४॥
अनेनैवाभिषे केण भरतो मेऽभिषिच्यताम् ।

यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥२-११-२५॥
तदा दैवासुरे युद्धे तस्य कालोऽय मागतः ।

नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥२-११-२६॥
चीराजिनजटाधारी रामो भवतु तापसः ।

भरतो भजतामद्य यौवराज्यमकण्टकम् ॥२-११-२७॥
एष मे परमः कामो दत्तमेव वरं वृणे ।
अद्यचैव हि पश्येयं प्रयान्तं राघवं वन्म् ॥२-११-२८॥

स राजराजो भव स्त्यसंगरः ।
कुलं च शीलं च हि रक्ष जन्म च ।
परत्र वासे हि वद्न्त्यनुत्तमं ।
तपोधनाः सत्यवचो हितं नृणाम् ॥२-११-२९॥

एकाशीतितमः सर्गः ॥२-८१॥[सम्पाद्यताम्]

ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः ।
तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥

सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः ।
दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥

स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव ।
भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥

ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च ।
न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥

पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् ।
विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥

तस्य एषा धर्म राजस्य धर्म मूला महात्मनः ।
परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् ।
अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥

इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् ।
कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥

तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् ।
सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥

शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् ।
सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥

स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् ।
अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥

ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् ।
क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥

सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् ।
युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥

ततः हलहला शब्दो महान् समुदपद्यत ।
रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥

ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः ।
प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥

ह्रदैव तिमि नाग सम्वृतः ।
स्तिमित जलो मणि शन्ख शर्करः ।
दशरथ सुत शोभिता सभा ।
सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥

एकोनचत्वारिंशः सर्गः ॥२-३९॥[सम्पाद्यताम्]

रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् ।
समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥
न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् ।
न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥

स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः ।
विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥

मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः ।
प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥

न तु एव अनागते काले देहाच् च्यवति जीवितम् ।
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥
मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् ।
विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥

एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः ।
स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥

एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह ।
राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥

सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः ।
नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥

औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः ।
प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥

एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते ।
पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥

राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः ।
योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥

तम् रथम् राज पुत्राय सूतः कनक भूषितम् ।
आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥

राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये ।
उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥

वासाम्सि च महा अर्हाणि भूषणानि वराणि च ।
वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥

नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः ।
प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥

व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।
उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥

ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।
अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥

असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः ।
भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥

एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥

असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा ।
युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥

न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः ।
स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥

साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे ।
स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥

स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम ।
तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥

विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् ।
कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥

करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् ।
अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥

न माम् असज् जनेन आर्या समानयितुम् अर्हति ।
धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥

न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः ।
न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा ॥२-३९-२९॥

मितम् ददाति हि पिता मितम् माता मितम् सुतः ।
अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥

सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा ।
आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥

सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् ।
शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥

ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् ।
रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥

अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम ।
क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥

सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च ।
सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥

एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः ।
त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥

ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः ।
धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥

सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् ।
तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥

वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् ।
शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥

जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः ।
मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥

मुरज पणव मेघ घोषव ।
द्दशरथ वेश्म बभूव यत् पुरा ।
विलपित परिदेवन आकुलम् ।
व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥

एकोनत्रिंशः सर्गः ॥२-२९॥[सम्पाद्यताम्]

एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता ।
प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥

ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति ।
गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥

मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा ।
पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥
अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ।
रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥

त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया ।
त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥

न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव ।
सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥

पति हीना तु या नारी न सा शक्ष्यति जीवितुम् ।
कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥

अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् ।
पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे ।
वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥

आदेशो वन वासस्य प्राप्तव्यः स मया किल ।
सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥

कृत आदेशा भविष्यामि गमिष्यामि सह त्वया ।
कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥

वन वासे हि जानामि दुह्खानि बहुधा किल ।
प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥

कन्यया च पितुर् गेहे वन वासः श्रुतः मया
भिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥

प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो ।
गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥

कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव ।
वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥

शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा ।
भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥

प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया ।
श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥
इह लोके च पितृभिर् या स्त्री यस्य महा मते ।
अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥

एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् ।
न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥

भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् ।
नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥

यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि ।
विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥

एवम् बहु विधम् तम् सा याचते गमनम् प्रति ।
न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥

एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता ।
स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥

चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् ।
ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥

एकोनपञ्चाशः सर्गः ॥२-४९॥[सम्पाद्यताम्]

रामः अपि रात्रि शेषेण तेन एव महद् अन्तरम् ।
जगाम पुरुष व्याघ्रः पितुर् आज्ञाम् अनुस्मरन् ॥२-४९-१॥

तथैव गच्चतः तस्य व्यपायात् रजनी शिवा ।
उपास्य स शिवाम् सम्ध्याम् विषय अन्तम् व्यगाहत ॥२-४९-२॥

ग्रामान् विकृष्ट सीमान् तान् पुष्पितानि वनानि च ।
पश्यन्न् अतिययौ शीघ्रम् शरैः इव हय उत्तमैः ॥२-४९-३॥
शृण्वन् वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।

राजानम् धिग् दशरथम् कामस्य वशम् आगतम् ॥२-४९-४॥
हा नृशम्स अद्य कैकेयी पापा पाप अनुबन्धिनी ।
तीक्ष्णा सम्भिन्न मर्यादा तीक्ष्णे कर्मणि वर्तते ॥२-४९-५॥
या पुत्रम् ईदृशम् राज्ञः प्रवासयति धार्मिकम् ।
वन वासे महा प्राज्ञम् सानुक्रोशम् अतन्द्रितम् ॥२-४९-६॥

कथम् नाम महाभागा सीता जनकनन्दिनी ।
सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ॥२-४९-७॥

अहो दशरथो राजा निस्नेहः स्वसुत प्रियम् ।
प्रजानामनघम् रामम् परित्यक्तुमिहेच्छति ॥२-४९-८॥

एता वाचो मनुष्याणाम् ग्राम सम्वास वासिनाम् ।
शृण्वन्न् अति ययौ वीरः कोसलान् कोसल ईश्वरः ॥२-४९-९॥

ततः वेद श्रुतिम् नाम शिव वारि वहाम् नदीम् ।
उत्तीर्य अभिमुखः प्रायात् अगस्त्य अध्युषिताम् दिशम् ॥२-४९-१०॥

गत्वा तु सुचिरम् कालम् ततः शीत जलाम् नदीम् ।
गोमतीम् गोयुत अनूपाम् अतरत् सागरम् गमाम् ॥२-४९-११॥

गोमतीम् च अपि अतिक्रम्य राघवः शीघ्रगैः हयैः ।
मयूर हम्स अभिरुताम् ततार स्यन्दिकाम् नदीम् ॥२-४९-१२॥

स महीम् मनुना राज्ञा दत्ताम् इक्ष्वाकवे पुरा ।
स्फीताम् राष्ट्र आवृताम् रामः वैदेहीम् अन्वदर्शयत् ॥२-४९-१३॥

सूतैति एव च आभाष्य सारथिम् तम् अभीक्ष्णशः ।
हम्स मत्त स्वरः श्रीमान् उवाच पुरुष ऋषभः ॥२-४९-१४॥

कदा अहम् पुनर् आगम्य सरय्वाः पुष्पिते वने ।
मृगयाम् पर्याटष्यामि मात्रा पित्रा च सम्गतः ॥२-४९-१५॥

न अत्यर्थम् अभिकान्क्षामि मृगयाम् सरयू वने ।
रतिर् हि एषा अतुला लोके राज ऋषि गण सम्मता ॥२-४९-१६॥
राजर्षीणाम् हि लोकेऽस्मिन् रत्यर्थम् मृगया वने ।
काले कृताम् ताम् मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥२-४९-१७॥

एकोनविंशः सर्गः ॥२-१९॥[सम्पाद्यताम्]

तत् अप्रियम् अमित्रघ्नः वचनम् मरण उपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयीम् च इदम् अब्रवीत् ॥२-१९-१॥

एवम् अस्तु गमिष्यामि वनम् वस्तुम् अहम् तु अतः ।
जटा चीर धरः राज्ञः प्रतिज्ञाम् अनुपालयन् ॥२-१९-२॥

इदम् तु ज्ञातुम् इच्चामि किम् अर्थम् माम् मही पतिः ।
न अभिनन्दति दुर्धर्षो यथा पुरम् अरिम् दमः ॥२-१९-३॥

मन्युर् न च त्वया कार्यो देवि ब्रूहि तव अग्रतः ।
यास्यामि भव सुप्रीता वनम् चीर जटा धरः ॥२-१९-४॥

हितेन गुरुणा पित्रा क्Rतज्ञेन न्Rपेण च ।
नियुज्यमानो विश्रब्धम् किम् न कुर्यात् अहम् प्रियम् ॥२-१९-५॥

अलीकम् मानसम् तु एकम् ह्Rदयम् दहति इव मे ।
स्वयम् यन् न आह माम् राजा भरतस्य अभिषेचनम् ॥२-१९-६॥

अहम् हि सीताम् राज्यम् च प्राणान् इष्टान् धनानि च ।
ह्Rष्टः भ्रात्रे स्वयम् दद्याम् भरताय अप्रचोदितः ॥२-१९-७॥

किम् पुनर् मनुज इन्द्रेण स्वयम् पित्रा प्रचोदितः ।
तव च प्रिय काम अर्थम् प्रतिज्ञाम् अनुपालयन् ॥२-१९-८॥

तत् आश्वासय हि इमम् त्वम् किम् न्व् इदम् यन् मही पतिः ।
वसुधा आसक्त नयनो मन्दम् अश्रूणि मुन्चति ॥२-१९-९॥

गच्चन्तु च एव आनयितुम् दूताः शीघ्र जवैः हयैः ।
भरतम् मातुल कुलात् अद्य एव न्Rप शासनात् ॥२-१९-१०॥

दण्डक अरण्यम् एषो अहम् इतः गच्चामि सत्वरः ।
अविचार्य पितुर् वाक्यम् समावस्तुम् चतुर् दश ॥२-१९-११॥

सा ह्Rष्टा तस्य तत् वाक्यम् श्रुत्वा रामस्य कैकयी ।
प्रस्थानम् श्रद्दधाना हि त्वरयाम् आस राघवम् ॥२-१९-१२॥

एवम् भवतु यास्यन्ति दूताः शीघ्र जवैः हयैः ।
भरतम् मातुल कुलात् उपावर्तयितुम् नराः ॥२-१९-१३॥

तव तु अहम् क्षमम् मन्ये न उत्सुकस्य विलम्बनम् ।
राम तस्मात् इतः शीघ्रम् वनम् त्वम् गन्तुम् अर्हसि ॥२-१९-१४॥

व्रीडा अन्वितः स्वयम् यच् च न्Rपः त्वाम् न अभिभाषते ।
न एतत् किम्चिन् नर श्रेष्ठ मन्युर् एषो अपनीयताम् ॥२-१९-१५॥

यावत् त्वम् न वनम् यातः पुरात् अस्मात् अभित्वरन् ।
पिता तावन् न ते राम स्नास्यते भोक्ष्यते अपि वा ॥२-१९-१६॥

धिक् कष्टम् इति निह्श्वस्य राजा शोक परिप्लुतः ।
मूर्चितः न्यपतत् तस्मिन् पर्यन्के हेम भूषिते ॥२-१९-१७॥

रामः अपि उत्थाप्य राजानम् कैकेय्या अभिप्रचोदितः ।
कशया इव आहतः वाजी वनम् गन्तुम् क्Rत त्वरः ॥२-१९-१८॥

तत् अप्रियम् अनार्याया वचनम् दारुण उदरम् ।
श्रुत्वा गत व्यथो रामः कैकेयीम् वाक्यम् अब्रवीत् ॥२-१९-१९॥

न अहम् अर्थ परः देवि लोकम् आवस्तुम् उत्सहे ।
विद्धि माम् Rषिभिस् तुल्यम् केवलम् धर्मम् आस्थितम् ॥२-१९-२०॥

यद् अत्रभवतः किम्चित् शक्यम् कर्तुम् प्रियम् मया ।
प्राणान् अपि परित्यज्य सर्वथा क्Rतम् एव तत् ॥२-१९-२१॥

न हि अतः धर्म चरणम् किम्चित् अस्ति महत्तरम् ।
यथा पितरि शुश्रूषा तस्य वा वचन क्रिया ॥२-१९-२२॥

अनुक्तः अपि अत्रभवता भवत्या वचनात् अहम् ।
वने वत्स्यामि विजने वर्षाणि इह चतुर् दश ॥२-१९-२३॥

न नूनम् मयि कैकेयि किम्चित् आशम्ससे गुणम् ।
यद् राजानम् अवोचः त्वम् मम ईश्वरतरा सती ॥२-१९-२४॥

यावन् मातरम् आप्Rच्चे सीताम् च अनुनयाम्य् अहम् ।
ततः अद्य एव गमिष्यामि दण्डकानाम् महद् वनम् ॥२-१९-२५॥

भरतः पालयेद् राज्यम् शुश्रूषेच् च पितुर् यथा ।
तहा भवत्या कर्तव्यम् स हि धर्मः सनातनः ॥२-१९-२६॥

स रामस्य वचः श्रुत्वा भ्Rशम् दुह्ख हतः पिता ।
शोकात् अशक्नुवन् बाष्पम् प्ररुरोद महा स्वनम् ॥२-१९-२७॥

वन्दित्वा चरणौ रामः विसम्ज्ञस्य पितुस् तदा ।
कैकेय्याः च अपि अनार्याया निष्पपात महा द्युतिः ॥२-१९-२८॥

स रामः पितरम् क्Rत्वा कैकेयीम् च प्रदक्षिणम् ।
निष्क्रम्य अन्तः पुरात् तस्मात् स्वम् ददर्श सुह्Rज् जनम् ॥२-१९-२९॥

तम् बाष्प परिपूर्ण अक्षः प्Rष्ठतः अनुजगाम ह ।
लक्ष्मणः परम क्रुद्धः सुमित्र आनन्द वर्धनः ॥२-१९-३०॥

आभिषेचनिकम् भाण्डम् क्Rत्वा रामः प्रदक्षिणम् ।
शनैः जगाम सापेक्षो द्Rष्टिम् तत्र अविचालयन् ॥२-१९-३१॥

न च अस्य महतीम् लक्ष्मीम् राज्य नाशो अपकर्षति ।
लोक कान्तस्य कान्तत्वम् शीत रश्मेर् इव क्षपा ॥२-१९-३२॥

न वनम् गन्तु कामस्य त्यजतः च वसुम्धराम् ।
सर्व लोक अतिगस्य इव लक्ष्यते चित्त विक्रिया ॥२-१९-३३॥

प्रतिषिद्ध्य शुभम् छत्रं व्यजने च स्वलंकृते ।
विसर्जयित्वा स्वजनं रथम् पौरास्तथा जन्नान् ॥२-१९-३४॥
धारयन् मनसा दुह्खम् इन्द्रियाणि निग्Rह्य च ।
प्रविवेश आत्मवान् वेश्म मातुर प्रिय शम्सिवान् ॥२-१९-३५॥

सर्वो ह्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः ।
नालक्षयत् रामस्य किम्चिदाकारमानने ॥२-१९-३६॥

उचितम् च महाबाहुर्न जहौ हर्षमात्मनः ।
शारदः समुदीर्णाम्शुश्चन्द्रस्तेज इवात्मजम् ॥२-१९-३७॥

वाचा मधुरया रामः स्र्वं सम्मानयन् जनम् ।
मातुस्समीपं धीरात्मा प्रविवेश महायशाः ॥२-१९-३८॥

तं गुणैस्समतां प्राप्तो भ्राता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम् ॥२-१९-३९॥

प्रविश्य वेश्म अतिभ्Rशम् मुदा अन्वितम् ।
समीक्ष्य ताम् च अर्थ विपत्तिम् आगताम् ।
न चैव रामः अत्र जगाम विक्रियाम् ।
सुह्Rज् जनस्य आत्म विपत्ति शन्कया ॥२-१९-४०॥

एकोनषष्ठितमः सर्गः ॥२-५९॥[सम्पाद्यताम्]

मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥

उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् ।
प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥

गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् ।
आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥

विषये ते महा राज माम व्यसन कर्शिताः ।
अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥

उपतप्तोदका नद्यः पल्वलानि सराम्सि च ।
परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥

न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च ।
राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥

लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः ।
सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥

जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥

अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ।
न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥

प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति ।
नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥

देव राजरथम् दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥

हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् ।
हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥

आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः ।
अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥

न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च ।
अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥

अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा ।
आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
निरानन्दा महा राज राम प्रव्राजन आतुला ।
कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥

सूतस्य वचनम् श्रुत्वा वाचा परम दीनया ।
बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥

कैकेय्या विनियुक्तेन पाप अभिजन भावया ।
मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥

न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः ।
मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥

भवितव्यतया नूनम् इदम् वा व्यसनम् महत् ।
कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥

सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् ।
त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥

यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥

अथवा अपि महा बाहुर् गतः दूरम् भविष्यति ।
माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥

वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः ।
यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥

लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् ।
रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥

अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् ।
इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥

हा राम राम अनुज हा हा वैदेहि तपस्विनी ।
न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥

स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥

रामशोकमहाभोगः सीताविरहपारगः ।
श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना ।
दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥

अशोभनम् यो अहम् इह अद्य राघवम् ।
दिदृक्षमाणो न लभे सलक्ष्मणम्
इति इव राजा विलपन् महा यहाशः
पपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥

इति विलपति पार्थिवे प्रनष्टे ।
करुणतरम् द्विगुणम् च राम हेतोः ।
वचनम् अनुनिशम्य तस्य देवी ।
भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥

एकोनसप्ततितमः सर्गः ॥२-६९॥[सम्पाद्यताम्]

याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् ।
भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥

व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् ।
पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥

तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः ।
आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥

वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे ।
नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥

स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः ।
गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥

तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् ।
सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥

एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह ।
शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥

स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् ।
पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥

प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे ।
पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥

ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः ।
तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥

स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि ।
सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् ।
सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् ।
अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥

पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् ।
प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥

त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः ।
रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥

प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी ।
प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥

एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् ।
अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥

नरः यानेन यः स्वप्ने खर युक्तेन याति हि ।
अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥

एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये ।
शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥

न पश्यामि भयस्थानम् भयम् चैवोपधारये ।
भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् ।

इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् ।
अनेक रूपाम् अवितर्किताम् पुरा ।
भयम् महत् तद्द् हृदयान् न याति मे ।
विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥

एकोनाशीतितमः सर्गः ॥२-७९॥[सम्पाद्यताम्]

ततः प्रभात समये दिवसे अथ चतुर्दशे ।
समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥

गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।
रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥

त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।
सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥

आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।
प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥

राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।
अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥

आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।
भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥

ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।
न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥

रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।
अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥

युज्यताम् महती सेना चतुर् अन्ग महा बला ।
आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥

आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।
पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥

तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।
आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥

न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।
वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥

क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥

एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।
प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥

एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।
यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥

अनुत्तमम् तत् वचनम् नृप आत्मज ।
प्रभाषितम् सम्श्रवणे निशम्य च ।
प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।
निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥

ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।
सामात्याः सपरिषदो वियात शोकाः ।
पन्थानम् नर वर भक्तिमान् जनः च ।
व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥

चतुःपञ्चाशः सर्गः ॥२-५४॥[सम्पाद्यताम्]

ते तु तस्मिन् महा वृक्षौषित्वा रजनीम् शिवाम् ।
विमले अभ्युदिते सूर्ये तस्मात् देशात् प्रतस्थिरे ॥२-५४-१॥

यत्र भागीरथी गन्गा यमुनाम् अभिवर्तते ।
जग्मुस् तम् देशम् उद्दिश्य विगाह्य सुमहद् वनम् ॥२-५४-२॥
ते भूमिम् आगान् विविधान् देशामः च अपि मनो रमान् ।
अदृष्ट पूर्वान् पश्यन्तः तत्र तत्र यशस्विनः ॥२-५४-३॥

यथा क्षेमेण गच्चन् स पश्यमः च विविधान् द्रुमान् ।
निवृत्त मात्रे दिवसे रामः सौमित्रिम् अब्रवीत् ॥२-५४-४॥

प्रयागम् अभितः पश्य सौमित्रे धूमम् उन्नतम् ।
अग्नेर् भगवतः केतुम् मन्ये सम्निहितः मुनिः ॥२-५४-५॥

नूनम् प्राप्ताः स्म सम्भेदम् गन्गा यमुनयोः वयम् ।
तथा हि श्रूयते शम्ब्दो वारिणा वारि घट्टितः ॥२-५४-६॥

दारूणि परिभिन्नानि वनजैः उपजीविभिः ।
भरद्वाज आश्रमे च एते दृश्यन्ते विविधा द्रुमाः ॥२-५४-७॥

धन्विनौ तौ सुखम् गत्वा लम्बमाने दिवा करे ।
गन्गा यमुनयोह् सम्धौ प्रापतुर् निलयम् मुनेः ॥२-५४-८॥

रामः तु आश्रमम् आसाद्य त्रासयन् मृग पक्षिणः ।
गत्वा मुहूर्तम् अध्वानम् भरद्वाजम् उपागमत् ॥२-५४-९॥

ततः तु आश्रमम् आसाद्य मुनेर् दर्शन कान्क्षिणौ ।
सीतया अनुगतौ वीरौ दूरात् एव अवतस्थतुः ॥२-५४-१०॥

स प्रविश्य महात्मानमृषिम् शिष्यगणैर्वऋतम् ।
सम्शितव्रतमेकाग्रम् तपसा लब्धचक्षुषम् ॥२-५४-११॥
हुत अग्नि होत्रम् दृष्ट्वा एव महा भागम् कृत अन्जलिः ।
रामः सौमित्रिणा सार्धम् सीतया च अभ्यवादयत् ॥२-५४-१२॥

न्यवेदयत च आत्मानम् तस्मै लक्ष्मण पूर्वजः ।
पुत्रौ दशरथस्य आवाम् भगवन् राम लक्ष्मणौ ॥२-५४-१३॥

भार्या मम इयम् वैदेही कल्याणी जनक आत्मजा ।
माम् च अनुयाता विजनम् तपो वनम् अनिन्दिता ॥२-५४-१४॥

पित्रा प्रव्राज्यमानम् माम् सौमित्रिर् अनुजः प्रियः ।
अयम् अन्वगमद् भ्राता वनम् एव दृढ व्रतः ॥२-५४-१५॥

पित्रा नियुक्ता भगवन् प्रवेष्यामः तपो वनम् ।
धर्मम् एव आचरिष्यामः तत्र मूल फल अशनाः ॥२-५४-१६॥

तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।
उपानयत धर्म आत्मा गाम् अर्घ्यम् उदकम् ततः ॥२-५४-१७॥

नानाविधानन्नरसान् वन्यमूलफलाश्रयान् ।
तेभ्यो ददौ तप्ततपा वासम् चैवाभ्यकल्पयत् ॥२-५४-१८॥

मृग पक्षिभिर् आसीनो मुनिभिः च समन्ततः ।
रामम् आगतम् अभ्यर्च्य स्वागतेन आह तम् मुनिः ॥२-५४-१९॥

प्रतिगृह्य च ताम् अर्चाम् उपविष्टम् स राघवम् ।
भरद्वाजो अब्रवीद् वाक्यम् धर्म युक्तम् इदम् तदा ॥२-५४-२०॥

चिरस्य खलु काकुत्स्थ पश्यामि त्वाम् इह आगतम् ।
श्रुतम् तव मया च इदम् विवासनम् अकारणम् ॥२-५४-२१॥

अवकाशो विविक्तः अयम् महा नद्योह् समागमे ।
पुण्यः च रमणीयः च वसतु इह भगान् सुखम् ॥२-५४-२२॥

एवम् उक्तः तु वचनम् भरद्वाजेन राघवः ।
प्रत्युवाच शुभम् वाक्यम् रामः सर्व हिते रतः ॥२-५४-२३॥

भगवन्न् इताअसन्नः पौर जानपदो जनः ।
सुदर्शमिह माम् प्रेक्ष्य मन्येऽह मिममाश्रमम् ॥२-५४-२४॥
आगमिष्यति वैदेहीम् माम् च अपि प्रेक्षको जनः ।
अनेन कारणेन अहम् इह वासम् न रोचये ॥२-५४-२५॥

एक अन्ते पश्य भगवन्न् आश्रम स्थानम् उत्तमम् ।
रमते यत्र वैदेही सुख अर्हा जनक आत्मजा ॥२-५४-२६॥

एतत् श्रुत्वा शुभम् वाक्यम् भरद्वाजो महा मुनिः ।
राघवस्य ततः वाक्यम् अर्थ ग्राहकम् अब्रवीत् ॥२-५४-२७॥

दश क्रोशैतः तात गिरिर् यस्मिन् निवत्स्यसि ।
महर्षि सेवितः पुण्यः सर्वतः सुख दर्शनः ॥२-५४-२८॥
गो लान्गूल अनुचरितः वानर ऋष्क निषेवितः ।
चित्र कूटैति ख्यातः गन्ध मादन सम्निभः ॥२-५४-२९॥

यावता चित्र कूटस्य नरः शृन्गाणि अवेक्षते ।
कल्याणानि समाधत्ते न पापे कुरुते मनः ॥२-५४-३०॥

ऋषयः तत्र बहवो विहृत्य शरदाम् शतम् ।
तपसा दिवम् आरूधाः कपाल शिरसा सह ॥२-५४-३१॥

प्रविविक्तम् अहम् मन्ये तम् वासम् भवतः सुखम् ।
इह वा वन वासाय वस राम मया सह ॥२-५४-३२॥

स रामम् सर्व कामैअः तम् भरद्वाजः प्रिय अतिथिम् ।
सभार्यम् सह च भ्रात्रा प्रतिजग्राह धर्मवित् ॥२-५४-३३॥

तस्य प्रयागे रामस्य तम् महर्षिम् उपेयुषः ।
प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः ॥२-५४-३४॥

सीतातृतीय काकुत्स्थह् परिश्रान्तः सुखोचितः ।
भरद्वाजाश्रमे रम्ये ताम् रात्रि मवस्त्सुखम् ॥२-५४-३५॥

प्रभातायाम् रजन्याम् तु भरद्वाजम् उपागमत् ।
उवाच नर शार्दूलो मुनिम् ज्वलित तेजसम् ॥२-५४-३६॥

शर्वरीम् भवनन्न् अद्य सत्य शील तव आश्रमे ।
उषिताः स्म इह वसतिम् अनुजानातु नो भवान् ॥२-५४-३७॥

रात्र्याम् तु तस्याम् व्युष्टायाम् भरद्वाजो अब्रवीद् इदम् ।
मधु मूल फल उपेतम् चित्र कूटम् व्रज इति ह ॥२-५४-३८॥

वासमौपयिकम् मन्ये तव राम महाबल ।
नानानगगणोपेतः किन्नरोरगसेवितह् ॥२-५४-३९॥
मयूरनादाभिरुतो गजराजनिषेवितः ।
गम्यताम् भवता शैलश्चित्रकूटः स विश्रुतः ॥२-५४-४०॥
पुण्यश्च रमणीयश्च बहुमूलफलायुतः ।

तत्र कुन्जर यूथानि मृग यूथानि च अभितः ॥२-५४-४१॥
विचरन्ति वन अन्तेषु तानि द्रक्ष्यसि राघव ।

सरित्प्रस्रवणप्रस्थान् दरीकन्धरनिर्घरान् ॥२-५४-४२॥
चरतः सीतया सार्धम् नन्दिष्यति मनस्तव ।

प्रहृष्ट कोयष्टिक कोकिल स्वनैः ।
र्विनादितम् तम् वसुधा धरम् शिवम् ।
मृगैः च मत्तैः बहुभिः च कुन्जरैः ।
सुरम्यम् आसाद्य समावस आश्रमम् ॥२-५४-४३॥

चतुःषष्ठितमः सर्गः ॥२-६४॥[सम्पाद्यताम्]

वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः ।
विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥

तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः ।
एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥

ततः तम् घटम् आदय पूर्णम् परम वारिणा ।
आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥

तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ ।
अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥
तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ ।
ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥

शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः ।
तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥

पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत ।
किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥

यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया ।
उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥

यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया ।
न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥

त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् ।
समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥

मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया ।
हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥

मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् ।
आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥

क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः ।
सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥

भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः ।
जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥

ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः ।
द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥

गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि ।
विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥

भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना ।
विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।
स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥

स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः ।
भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥

अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया ।
शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥

स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः ।
नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥

सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥

यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥

क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ।
ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥

सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति ।
ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥

अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि ।
अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥

नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत ।
अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥
रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् ।
शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥

अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ ।
अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥

तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ ।
निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥

न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक ।
किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥

न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक ।
किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥

कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् ।
अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥

को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः ।
श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥

कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् ।
भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥

इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् ।
कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥

तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति ।
श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥

उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने ।
क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥

ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् ।
क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।
ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥

अपापो असि यथा पुत्र निहतः पाप कर्मणा ।
तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥

यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः ।
हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥

याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः ।
नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥

या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या ।
भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥
गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि ।
देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥

न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् ।
स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥

एवम् स कृपणम् तत्र पर्यदेवयत असकृत् ।
ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥

स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः ।
स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥

आबभाषे च वृद्धौ तौ सह शक्रेण तापसः ।
आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥

स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् ।
भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥

एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता ।
आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया ।
माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥

अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा ।
यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥

त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः ।
तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥

पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् ।
एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥

अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः ।
तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥

त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति ।
जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥

एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु ।
चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥

तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् ।
तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥

तस्यायम् कर्मणो देवि विपाकः समुपस्थितः ।
अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥

तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः ।
यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥

चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश ।
इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥

एतन्मे सदृशम् देवि यन्मया राघवे कृतम् ।
सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥

दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः ।
कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥

यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा ।
यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥

चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते ।
दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥

अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये ।
न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।
उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥

न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् ।
मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥

पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् ।
धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥

सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च ।
सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥

निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् ।
द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥

कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे ।
वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।
क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥

अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् ।
सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥

हा राघव महा बाहो हा मम आयास नाशन ।
हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥

यथा तु दीनम् कथयन् नर अधिपः ।
प्रियस्य पुत्रस्य विवासन आतुरः ।
गते अर्ध रात्रे भृश दुह्ख पीडितः ।
तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥

चतुःसप्ततितमः सर्गः ॥२-७४॥[सम्पाद्यताम्]

ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा ।
रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥

राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि ।
परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥

किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः ।
ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥

भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् ।
कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥

यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा ।
सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥

त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः ।
अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥

मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके ।
न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥

कौसल्या च सुमित्रा च याः च अन्या मम मातरः ।
दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥

न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः ।
राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः ।
वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥

यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते ।
भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥

कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये ।
कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥

किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् ।
ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥

अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते ।
तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥

अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता ।
वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥

ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले ।
रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥

अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः ।
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥

इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् ।
सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥

निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् ।
आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥

ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् ।
इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥

भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् ।
कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥

एवम् उक्ता तु सुरभिः सुर राजेन धीमता ।
पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥

शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप ।
अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ ।
अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥

मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ ।
यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥

यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् ।
ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥

सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया ।
श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् ।
किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥

एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता ।
तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥

अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् ।
वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥

आनाययित्वा तनयम् कौसल्याया महा द्युतिम् ।
स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥

न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् ।
शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥

सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश ।
रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥

अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे ।
कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥

इति नागैव अरण्ये तोमर अन्कुश चोदितः ।
पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥

सम्रक्त नेत्रः शिथिल अम्बरः तदा ।
विधूत सर्व आभरणः परम्तपः ।
बभूव भूमौ पतितः नृप आत्मजः ।
शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥

चतुरशीतितमः सर्गः ॥२-८४॥[सम्पाद्यताम्]

ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।
निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥

महती इयम् अतः सेना सागर आभा प्रदृश्यते ।
न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥

यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।
स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥

बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।
अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।
भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥

भर्ता चैव सखा चैव रामः दाशरथिर् मम ।
तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥

तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।
बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥

नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।
सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥

यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।
सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥

इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च ।
अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥

तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।
भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥

एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥

तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।
असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥

एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।
उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥

लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।
आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥

निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।
निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥

अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।
आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥

आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।
अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥

चतुर्थः सर्गः ॥२-४॥[सम्पाद्यताम्]

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
मन्त्रयुत्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥२-४-१॥

श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥२-४-२॥

अथान्तर्गृहमासाद्य राजा दशरथस्तदा ।
सूतमामन्त्रयामास रामं पुनरिहानय ॥२-४-३॥

प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥२-४-४॥

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥२-४-५॥

प्रवेश्य चैनं त्वरितं रामो वचन मब्रवीत् ।
यदागमनकृत्यं ते भूयस्तद्भ्रुह्यशेषतः ॥२-४-६॥

तमुवाच ततः सूतो राजा त्वां द्रष्टु मिच्छति ।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥२-४-७॥

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥२-४-८॥

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
प्रवेश्यामास गृहं विवक्षुः प्रियमुत्तमम् ॥२-४-९॥

प्रविश्न्नेप च श्रीमान् राघवो भवनं पितुः ।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्ज्लिः ॥२-४-१०॥

प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥२-४-११॥

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।
अन्न्वद्भिः क्रतुश्तैस्तथेष्टं भूरिदक्षिणैः ॥२-४-१२॥

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।
दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥२-४-१३॥

अनुभूतानि चेष्टानि मया वीर सुखान्यपि ।
देवर्षिपितृविप्राणामनृणोऽस्मि तथात्मनः ॥२-४-१४॥

न किञ्चिन्म कर्तव्यं तवान्यत्राभिषेचनात् ।
अतो युत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥२-४-१५॥

अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥२-४-१६॥

अपि चाद्याशुभान् राम स्वप्ने प्श्यामि दारुणान् ।
सनिर्घाता दिवोल्का च परतीह महास्वना ॥२-४-१७॥

अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।
आवेदयन्ति दैवज्ञावः सूर्याङ्गारकराहुभिः ॥२-४-१८॥

प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
राजा हि मृत्युमाप्नोति घोरं वापदमृच्छति ॥२-४-१९॥

तद्यावदेव मे चेतो न विमुञ्चति राघव ।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥२-४-२०॥

अद्य चन्द्रोभ्युपगतः पुष्यात्पूर्वं पुनर्वसू ।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥२-४-२१॥

ततः पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।
श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥२-४-२२॥

तस्मात्त्वयादप्रभृति निशेयं नियतात्मना ।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥२-४-२३॥

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥२-४-२४॥

विप्रोषितश्च भरतो यावदेव पुरादितः ।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥२-४-२५॥

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
ज्येष्ठनुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥२-४-२६॥

किन्तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।
सतां च धर्मनित्यानां कृतशोभि च राघव ॥२-४-२७॥

इत्युक्तः सोओऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।
व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥२-४-२८॥

प्रविश्य चात्मनो वेश्म राज्ञोद्धिष्टेऽभिषेचने ।
तत्क्षणेन च निर्गम्य मातुर्न्तःपुरं ययौ ॥२-४-२९॥

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥२-४-३०॥

प्रागेव चागता तत्र सुमित्रा लक्ष्मण स्तदा ।
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥२-४-३१॥

तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा ।
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥२-४-३२॥

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥२-४-३३॥

तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।
उवाच वचनं रामो हर्ष्यंस्तामिदं तदा ॥२-४-३४॥

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
भविता श्वोऽभिषेको मे यथा मि शासनं पितुः ॥२-४-३५॥

सीतया प्युपवस्तव्या रजनीयं मया सह ।
एवमृत्विगुपाध्यायैस्सह मामुक्तवान् पिता ॥२-४-३६॥

यानि यान्यत्र योग्यानि श्वो भाविन्यभिषेचने ।
तानि मे मङ्गLआन्यद्य वैदेह्याश्चैव कारय ॥२-४-३७॥

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।
हर्ष्बाष्पकलं वाक्यमिदं राम मभाषत ॥२-४-३८॥

वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।
ज्ञातीन्मे त्वं श्रियायुक्तः सुमित्रायाश्च नन्दय ॥२-४-३९॥

कल्याणे बत न्क्षत्रे मयि जातोऽसि पुत्रक ।
येन त्वया दशरथो गुणैराराधितः पिता ॥२-४-४०॥

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे ।
येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥२-४-४१॥

इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
प्राञ्जलिं प्रह्वमासीनमभिवीख्स्य स्मयन्निव ॥२-४-४२॥

लक्ष्मणेमां माया सार्धं प्रशाधि त्वं वसुन्धराम् ।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥२-४-४३॥

सौमित्रे भुङ्क्ष्व भोगां स्त्वमिष्टान् राज्यफलानि च ।
जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥२-४-४४॥

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेश्नम् ॥२-४-४५॥

चतुर्दशः सर्गः ॥२-१४॥[सम्पाद्यताम्]

पुत्र शोक अर्दितम् पापा विसम्ज्ञम् पतितम् भुवि ।
विवेष्टमानम् उदीक्ष्य सा ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-१४-१॥

पापम् क्Rत्वा इव किम् इदम् मम सम्श्रुत्य सम्श्रवम् ।
शेषे क्षिति तले सन्नः स्थित्याम् स्थातुम् त्वम् अर्हसि ॥२-१४-२॥

आहुः सत्यम् हि परमम् धर्मम् धर्मविदो जनाः ।
सत्यम् आश्रित्य हि मया त्वम् च धर्मम् प्रचोदितः ॥२-१४-३॥

सम्श्रुत्य शैब्यः श्येनाय स्वाम् तनुम् जगती पतिः ।
प्रदाय पक्षिणो राजन् जगाम गतिम् उत्तमाम् ॥२-१४-४॥

तथ हि अलर्कः तेजस्वी ब्राह्मणे वेद पारगे ।
याचमाने स्वके नेत्रेउद्ध्Rत्य अविमना ददौ ॥२-१४-५॥

सरिताम् तु पतिः स्वल्पाम् मर्यादाम् सत्यम् अन्वितः ।
सत्य अनुरोधात् समये वेलाम् खाम् न अतिवर्तते ॥२-१४-६॥

स्त्यमेकपदं ब्रह्मे सत्ये धर्मः प्रतिष्ठतः।
सत्यमेवाक्षया वेदाः सत्येनै वाप्यते परम् ॥२-१४-७॥

सत्यं समनुवर्त्स्व यदि धर्मे धृता मतिः ।
सफलः स वरो मेऽस्तु वरदो ह्यसि सत्तम ॥२-१४-८॥

धर्मस्येहाभिकामार्थं मम चैवाचिचोदनात् ।
प्रव्राजय सुतं रामम् त्रिः खलु त्वां ब्रवीम्यहम् ॥२-१४-९॥

समयम् च मम आर्य इमम् यदि त्वम् न करिष्यसि ।
अग्रतः ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥२-१४-१०॥

एवम् प्रचोदितः राजा कैकेय्या निर्विशन्कया ।
न अशकत् पाशम् उन्मोक्तुम् बलिर् इन्द्र क्Rतम् यथा ॥२-१४-११॥

उद्भ्रान्त ह्Rदयः च अपि विवर्ण वनदो अभवत् ।
स धुर्यो वै परिस्पन्दन् युग चक्र अन्तरम् यथा॥२-१४-१२॥

विह्वलाभ्याम् च नेत्राभ्याम् अपश्यन्न् इव भूमिपः ।
क्Rच्च्रात् धैर्येण सम्स्तभ्य कैकेयीम् इदम् अब्रवीत् ॥२-१४-१३॥

यः ते मन्त्र क्Rतः पाणिर् अग्नौ पापे मया ध्Rतः ।
तम् त्यजामि स्वजम् चैव तव पुत्रम् सह त्वया ॥२-१४-१४॥

प्रयाता रजनी देवि सूर्यस्योदयनं प्रति ।
अभिषेकं गुरुजन्स्त्वरयीष्यति मां ध्रुवम् ॥२-१४-१५॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।

रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥२-१४-१६॥
त्वया सपुत्त्रया नैव कर्तव्या सलिलक्रिया ।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचन्म् ॥२-१४-१७॥

न च शक्नोम्यहं द्रषुं पूर्वं तथा सुखम् ।
हतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥२-१४-१८॥

तां तथा ब्रुवत्स्तस्य भूमिपन्य महात्मनः ।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रश्रालिनी ॥२-१४-१९॥

ततः पाप समाचारा कैकेयी पार्थिवम् पुनः ।
उवाच परुषम् वाक्यम् वाक्यज्ञा रोष मूर्चिता ॥२-१४-२०॥

किम् इदम् भाषसे राजन् वाक्यम् गर रुज उपमम् ।
आनाययितुम् अक्लिष्टम् पुत्रम् रामम् इह अर्हसि ॥२-१४-२१॥

स्थाप्य राज्ये मम सुतम् क्Rत्वा रामम् वने चरम् ।
निह्सपत्नाम् च माम् क्Rत्वा क्Rत क्Rत्यो भविष्यसि ॥२-१४-२२॥

स नुन्नैव तीक्षेन प्रतोदेन हय उत्तमः ।
राजा प्रदोचितः अभीक्ष्णम् कैकेयीम् इदम् अब्रवीत् ॥२-१४-२३॥

धर्म बन्धेन बद्धो अस्मि नष्टा च मम चेतना ।
ज्येष्ठम् पुत्रम् प्रियम् रामम् द्रष्टुम् इच्चामि धार्मिकम् ॥२-१४-२४॥

ततः प्रभातां र्जनीमुदिते च दिवाकरे ।
पुण्ये नक्षत्रयोगे चे मुहूर्ते च समाहिते ॥२-१४-२५॥
वसिष्ठो गुणसंपन्नः शिष्येः परिवृतस्तदा ।
उपगृह्याशु संभारान् [रविवेश पुरोत्तमम् ॥२-१४-२६॥

सिक्तसंमार्जितपथां पताकोत्तमभूषिताम् ।
विचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥२-१४-२७॥
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां राघवार्थे समुस्त्सुकाम् ॥२-१४-२८॥
चन्दनागुरुधूपैश्च सर्वतः प्रतिधूपिताम् ।
तां पुरीम् समतिक्रम्य पुरन्दरपुरोपमाम् ॥२-१४-२९॥
ददर्शान्तः पुरश्रेष्ठं नानाद्विजगणायुतम् ।
पौरजानपदाकिर्र्र्णं ब्राह्मणैरुपशोभितम् ॥२-१४-३०॥

तदन्तः पुरमासाद्य व्यतिचक्राम तम् जनम् ॥२-१४-३१॥
वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ।

स त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ।
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शन्म् ॥२-१४-३२॥

तमुवाच महातेजाः सूतपुत्रं विशारदम् ॥२-१४-३३॥
वसिष्ठः क्षिप्रमाचक्ष्व नृपते र्मामिहागतम् ।

इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः ॥२-१४-३४॥
औदुम्बरं भद्रपीठमभिषेकार्थमागतम् ।
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥२-१४-३५॥
क्षौद्रम् दधि घृतं लाजा दर्भाः सुमनसः पयः ।
अष्टौ च कन्या रुचिरा मत्तश्छ वरवारणः ॥२-१४-३६॥
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ।
वाहनं नरसंयुक्तं चत्रं च शशिपन्निभम् ॥२-१४-३७॥
श्वेते च वालव्यजने भृङ्गारुश्छ हिरण्मयः ।
हेमदामपिनद्धश्च किकुद्मान् पाण्डुरो वृषः ॥२-१४-३८॥
केसरी च चतुर्दंष्ट्रो हि श्रेष्ठो महाबलः ।
सिंहानस्नं व्याघ्रतनुः समिद्धश्छ हुताशनः ॥२-१४-३९॥
सर्ववादित्रसंघाश्च वेश्याश्छालंकृताः स्त्रियः ।
आचार्या ब्राह्मणा गावः पुण्यश्च मृगपक्षिणः ॥२-१४-४०॥
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ।
एते चान्ये च बहवो नीयमानाः प्रियम्वदाः ॥२-१४-४१॥
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ।

त्वरयस्व महाराजं यथा समुदितेऽहनि ॥२-१४-४२॥
पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ।

इति तस्य वचः श्रुत्वा सूतपुत्रो महात्मनः ॥२-१४-४३॥
स्तुवन्नृपतिशार्धूलं प्रविवेश निवेशनम् ।

तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् ॥२-१४-४४॥
न शेकुरभिसंरोद्धुं राज्ञः प्रयचिकीर्ष्वः ।

स सवीपस्थितो राज्ञ्स्तामवस्थामजज्ञीवान् ॥२-१४-४५॥
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ।

ततः सूतो यथाकालं पार्थिवस्य निवेशने ॥२-१४-४६॥
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।

यथा नन्दति तेजस्वी सागरो भास्करोदये ।
प्रीतह् प्रीतेन मनसा तथानन्दघनः स्वतः ॥२-१४-४७॥

इन्द्रमस्यां तु वेLआयामभितुष्टाव मातलिः ॥२-१४-४८॥
सोऽजयद्धानवान्सर्वांस्तथा त्वां बोधयाम्यहम् ।

वेदाः सहाङ्गविद्याश्छ यथाह्यात्मभुवम् विभुम् ॥२-१४-४९॥
ब्रह्माणम् बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ।

आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥२-१४-५०॥
बोधयत्यद्य पृथिवीं तथा त्वाम् बोधयाम्यहम् ।

उत्तिष्ठाशु महाराज कृतकौतुकमङ्गLअः ॥२-१४-५१॥
विराजमानो वपुषा मेरोरिव दिवाकरः ।

सोमसूर्यौ च काकुत्थ्स शिववैश्रवणावपि ॥२-१४-५२॥
वरुणाश्छग्निरिन्द्रश्च विजयं प्रदिश्न्तु ते ।

गता भगवती रात्रिः कृतकृत्य मिदं तव ॥२-१४-५३॥
बुद्ध्यस्व सृपशार्दूल कुरु कार्यमनन्तरम् ।
उदतिष्ठत रामस्य समग्रमभिषेचन्म् ॥२-१४-५४॥

पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ।
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति ॥२-१४-५५॥

क्षिप्रमाज्ञ्प्यतां राजन् राघवस्याभिषेचन्म् ।
यथा ह्यपालाः पशवो यथा सेना ह्यानायका ॥२-१४-५६॥
यथा च्न्द्रं विना रात्रिर्यथा गावो विना वृषम् ।
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते ॥२-१४-५७॥

इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ।
अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥२-१४-५८॥

ततः स राजा तम् सूतम् सन्न हर्षः सुतम् प्रति ।
शोक आरक्त ईक्षणः श्रीमान् उद्वीक्ष्य उवाच धार्मिकः ॥२-१४-५९॥
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ।

सुमन्त्रः करुणम् श्रुत्वा द्Rष्ट्वा दीनम् च पार्थिवम् ॥२-१४-६०॥
प्रग्Rहीत अन्जलिः किम्चित् तस्मात् देशात् अपाक्रमन् ।

यदा वक्तुम् स्वयम् दैन्यान् न शशाक मही पतिः ॥२-१४-६१॥
तदा सुमन्त्रम् मन्त्रज्ञा कैकेयी प्रत्युवाच ह ।

सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः ॥२-१४-६२॥
प्रजागरपरिश्रान्तो निद्रावशमुपेयुवान् ।

तद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् ॥२-१४-६३॥
राममानय भद्रं ते नात्र कार्या विचारणा ।

स मन्यमानः कल्याणम् हृदयेन नन्नन्ध च ॥२-१४-६४॥
निर्जगाम च संप्रीत्या त्वरितो राजशासनात् ।

सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥२-१४-६५॥
व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ।

इति सूतो मतिं कृत्वा हर्षेण महता वृतः ॥२-१४-६६॥
निर्जगाम महाबाहो राघवस्य दिदृक्षया ।

सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात् ॥२-१४-६७॥
निष्क्रम्य जनसंबाधं ददर्श द्वारमग्रतः ।

ततः पुरस्तत्सासा विनिर्गतो ।
महीपतीन् द्वारगतो विलोकयन् ।
ददर्श पौरान् विविधान्महाधना ।
नुपस्थितान् द्वारमुपेत्य विष्ठतान् ॥२-१४-६८॥

चतुर्विंशः सर्गः ॥२-२४॥[सम्पाद्यताम्]

तम् समीक्ष्य तु अवहितम् पितुर् निर्देश पालने ।
कौसल्या बाष्प सम्रुद्धा वचो धर्मिष्ठम् अब्रवीत् ॥२-२४-१॥

अदृष्ट दुह्खो धर्मात्मा सर्व भूत प्रियम् वदः ।
मयि जातः दशरथात् कथम् उन्चेन वर्तयेत् ॥२-२४-२॥

यस्य भृत्याः च दासाः च मृष्टानि अन्नानि भुन्जते ।
कथम् स भोक्ष्यते नाथो वने मूल फलानि अयम् ॥२-२४-३॥

क एतत् श्रद्दधेत् श्रुत्वा कस्य वा न भवेद् भयम् ।
गुणवान् दयितः राज्ञो राघवो यद् विवास्यते ॥२-२४-४॥

नूनम् तु बलवान् लोके कृतान्तः सर्वमादिशन् ।
लोके रामाभिरामस्त्वम् वनम् यत्र गमिष्यसि ॥२-२४-५॥

अयम् तु मामात्मभवस्तवादर्शनमारुतः ।
विलापदुःखसमिधो रुदिताश्रुहुताहुतिः ॥२-२४-६॥
चिन्ताबाष्पमहाधूस्तवागमनचिन्तजः ।
कर्शयित्वा भृशम् पुत्र निश्वासायाससम्भवः ॥२-२४-७॥
त्वया विहीनाम् इह माम् शोक अग्निर् अतुलो महान् ।
प्रधक्ष्यति यथा कक्षम् चित्र भानुर् हिम अत्यये ॥२-२४-८॥

कथम् हि धेनुः स्वम् वत्सम् गच्चन्तम् न अनुगच्चति ।
अहम् त्वा अनुगमिष्यामि यत्र पुत्र गमिष्यसि ॥२-२४-९॥

तथा निगदितम् मात्रा तत् वाक्यम् पुरुष Rषभः ।
श्रुत्वा रामः अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥
कैकेय्या वन्चितः राजा मयि च अरण्यम् आश्रिते ।
भवत्या च परित्यक्तः न नूनम् वर्तयिष्यति ॥२-२४-१०॥

भर्तुः किल परित्यागो नृशम्सः केवलम् स्त्रियाः ।
स भवत्या न कर्तव्यो मनसा अपि विगर्हितः ॥२-२४-११॥

यावज् जीवति काकुत्स्थः पिता मे जगती पतिः ।
शुश्रूषा क्रियताम् तावत् स हि धर्मः सनातनः ॥२-२४-१२॥

एवम् उक्ता तु रामेण कौसल्या शुभ दर्शना ।
तथा इति उवाच सुप्रीता रामम् अक्लिष्ट कारिणम् ॥२-२४-१३॥

एवम् उक्तः तु वचनम् रामः धर्मभ्Rताम् वरः ।
भूयः ताम् अब्रवीद् वाक्यम् मातरम् भृश दुह्खिताम् ॥२-२४-१४॥

मया चैव भवत्या च कर्तव्यम् वचनम् पितुः ।
राजा भर्ता गुरुः श्रेष्ठः सर्वेषाम् ईश्वरः प्रभुः ॥२-२४-१५॥

इमानि तु महा अरण्ये विह्Rत्य नव पन्च च ।
वर्षाणि परम प्रीतः स्थास्यामि वचने तव ॥२-२४-१६॥

एवम् उक्ता प्रियम् पुत्रम् बाष्प पूर्ण आनना तदा ।
उवाच परम आर्ता तु कौसल्या पुत्र वत्सला ॥२-२४-१७॥

आसाम् राम सपत्नीनाम् वस्तुम् मध्ये न मे क्षमम् ।
नय माम् अपि काकुत्स्थ वनम् वन्यम् म्Rगीम् यथा ॥२-२४-१८॥
यदि ते गमने बुद्धिः कृता पितुर् अपेक्षया ।

ताम् तथा रुदतीम् रामः रुदन् वचनम् अब्रवीत् ॥२-२४-१९॥
जीवन्त्या हि स्त्रिया भर्ता दैवतम् प्रभुर् एव च ।

भवत्या मम चैव अद्य राजा प्रभवति प्रभुः ।
भरतः च अपि धर्मात्मा सर्व भूत प्रियम् वदः ॥२-२४-२०॥

भवतीम् अनुवर्तेत स हि धर्म रतः सदा ।
यथा मयि तु निष्क्रान्ते पुत्र शोकेन पार्थिवः ॥२-२४-२१॥

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः ॥२-२४-२२॥
श्रमम् न अवाप्नुयात् किम्चित् अप्रमत्ता तथा कुरु ।

दारुणश्चाप्ययम् शोको यथैनम् न विनाशयेत् ॥२-२४-२३॥
राज्ञो वृद्धस्य सततम् हितम् चर समाहिता ।

व्रत उपवास निरता या नारी परम उत्तमा ॥२-२४-२४॥
भर्तारम् न अनुवर्तेत सा च पाप गतिर् भवेत् ।

भर्तुः शुश्रूषया नारी लभते स्वर्गमु त्तमम् ॥२-२४-२५॥
अपि या निर्नमस्कारा निवृत्ता देवपूजनात् ।

शुश्रूषम् एव कुर्वीत भर्तुः प्रिय हिते रता ॥२-२४-२६॥
एष धर्मः पुरा द्Rष्टः लोके वेदे श्रुतः स्म्Rतः ।

अग्निकार्येषु च सदा सुमनोभिश्च देवताः ॥२-२४-२७॥
पूज्याः ते मत् क्Rते देवि ब्राह्मणाः चैव सुव्रताः ।

एवम् कालम् प्रतीक्षस्व मम आगमन कान्क्षिणी ॥२-२४-२८॥
प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ।

प्राप्स्यसे परमम् कामम् मयि प्रत्यागते सति ॥२-२४-२९॥
यदि धर्मभ्Rताम् श्रेष्ठो धारयिष्यति जीवितम् ।

एवम् उक्ता तु रामेण बाष्प पर्याकुल ईक्षणा ॥२-२४-३०॥
कौसल्या पुत्र शोक आर्ता रामम् वचनम् अब्रवीत् ।

गमने सुकृताम् बुद्धिम् न ते शक्नोमि पुत्रक ॥२-२४-३१॥
विनिवर्तयितुम् वीर नूनम् कालो दुरत्ययः ।

गच्च पुत्र त्वम् एक अग्रः भद्रम् ते अस्तु सदा विभो ॥२-२४-३२॥
पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा ।

प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥२-२४-३३॥
पितुरानृण्यताम् प्राप्तेत्वयि लप्स्ये परम् सुखम् ।

कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि ॥२-२४-३४॥
यस्त्वा सम्चोदयति मे वच आच्चिद्य राघव ।

गच्छेदानीम् महाबाहो क्षेमेण पुनरागतः ॥२-२४-३५॥
नन्दयिष्यसि माम् पुत्रः साम्ना वाक्येन चारुणा ।

अपीदानीम् स कालः स्स्याद्वनात्प्रत्यागतम् पुनः ॥२-२४-३६॥
यत्त्वाम् पुत्रकः पश्येयम् जटावल्कधारिणम् ।

तथा हि रामम् वन वास निश्चितम् ।
ददर्श देवी परमेण चेतसा ।
उवाच रामम् शुभ लक्षणम् वचो।
बभूव च स्वस्त्ययन अभिकान्क्षिणी ॥२-२४-३७॥

चतुश्चत्वारिंशः सर्गः ॥२-४४॥[सम्पाद्यताम्]

विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमद उत्तमाम् ।
इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत् ॥२-४४-१॥

तव आर्ये सद् गुणैः युक्तः पुत्रः स पुरुष उत्तमः ।
किम् ते विलपितेन एवम् कृपणम् रुदितेन वा ॥२-४४-२॥

यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा बलः ।
साधु कुर्वन् महात्मानम् पितरम् सत्य वादिनाम् ॥२-४४-३॥
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल उदये ।
रामः धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥२-४४-४॥

वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो अस्मिन् सदा अनघः ।
दयावान् सर्व भूतेषु लाभः तस्य महात्मनः ॥२-४४-५॥

अरण्य वासे यद् दुह्खम् जानती वै सुख उचिता ।
अनुगच्चति वैदेही धर्म आत्मानम् तव आत्मजम् ॥२-४४-६॥

कीर्ति भूताम् पताकाम् यो लोके भ्रामयति प्रभुः ।
दम सत्य व्रत परः किम् न प्राप्तः तव आत्मजः ॥२-४४-७॥

व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम् ।
न गात्रम् अम्शुभिः सूर्यः सम्तापयितुम् अर्हति ॥२-४४-८॥

शिवः सर्वेषु कालेषु काननेभ्यो विनिह्सृतः ।
राघवम् युक्त शीत उष्णः सेविष्यति सुखो अनिलः ॥२-४४-९॥

शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन् ।
रश्मिभिः सम्स्पृशन् शीतैः चन्द्रमा ह्लादयिष्यति ॥२-४४-१०॥

ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा ओजसे ।
दानव इन्द्रम् हतम् दृष्ट्वा तिमि ध्वज सुतम् रणे ॥२-४४-११॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असन्त्रस्तोऽ प्यरण्यस्थो वेश्मनीव निवत्स्यति ॥२-४४-१२॥

यस्येषुपदमासाद्य विनाशम् यान्ति शत्रवः ।
कथम् न प्R^थिवी तस्य शासने स्थातुमर्हति ॥२-४४-१३॥

या श्रीःशौर्यम् च रामस्य या च कल्याणसत्वता ।
निवृत्तारण्यवासः स्वं क्षिप्रम् राज्यमवाप्स्यति ॥२-४४-१४॥

सूर्यस्यापि भवेत्सूर्योह्यग्नेरग्निः प्रभोः प्रभोः ।
श्रियश्च श्रीर्भवेदग्र्या कीर्त्याः क्षमाक्षमा ॥२-४४-१५॥
दैवतम् दैवतानाम् च भूतानाम् भूतसत्तमः ।
तस्य केह्यगुणा देवि वने वा प्यथवा पुरे ॥२-४४-१६॥

पृथिव्या सह वैदेह्या श्रिया च पुरुष ऋषभः ।
क्षिप्रम् तिसृभिर् एताभिः सह रामः अभिषेक्ष्यते ॥२-४४-१७॥

दुह्खजम् विसृजन्ति अस्रम् निष्क्रामन्तम् उदीक्ष्य यम् ।
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रम् आनन्दजम् पयः ॥२-४४-१८॥
कुशचीरधरम् देवम् गच्छन्तमपराजितम् ।
सीतेवानुगता लक्ष्मीस्तस्य किम् नाम दुर्लभम् ॥२-४४-१९॥

धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
लक्ष्मणोव्रजति ह्यग्रे तस्य किम् नाम दुर्लभम् ॥२-४४-२०॥

निवृत्तवनवासम् तम् द्रष्टासि पुनरागतम् ।
जहिशोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते ॥२-४४-२१॥

शिरसा चरणावेतौ वन्दमानमनिन्दिते ।
पुनर्द्रक्ष्यसि कल्याणि! पुत्रं चन्द्रमिवोदितम् ॥२-४४-२२॥

पुनः प्रविष्टम् द्R^ष्ट्वा तमभिषिक्तम् महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्याम् क्षिप्रमान्न्दजम् पयः ॥२-४४-२३॥

मा शोको देवि दुःखम् वा न राअमे दृअह्य्RWऽशिवम् ।
क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् ससीतम् सह लक्ष्मणम् ॥२-४४-२४॥

त्वया शेषोओ जनश्चैव समाश्वास्यो यदाऽनघे ।
किमिदानीमिदम् देवि करोषि हृदि विक्लबम् ॥२-४४-२५॥

नार्हा त्वम् शोचितुम् देवि यस्यास्ते राघवस्सुतः ।
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥२-४४-२६॥

अभिवादयमानम् तम् दृष्ट्वा ससुहृदम् सुतम् ।
मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ लेका इव वार्षिकी ॥२-४४-२७॥

पुत्रः ते वरदः क्षिप्रम् अयोध्याम् पुनर् आगतः ।
पाणिभ्याम् मृदुपीनाभ्याम् चरणौ पीडयिष्यति ॥२-४४-२८॥

अभिवाद्य नमस्यन्तम् शूरम् ससुहृदम् सुतम् ।
मुदास्रैः प्रोक्ष्यसि पुनर्मेघराजि रिवाचलम् ॥२-४४-२९॥

आश्वासयन्ती विविधैश्च वाक्यै ।
र्वाक्योपचारे कुशलानाद्या ।
रामस्य ताम् मातरमेवमुक्त्वा ।
देवी सुमित्राविरराम रामा ॥२-४४-३०॥

निशम्य तल् लक्ष्मण मातृ वाक्यम् ।
रामस्य मातुर् नर देव पत्न्याः ।
सद्यः शरीरे विननाश शोकः ।
शरद् गतः मेघैव अल्प तोयः ॥२-४४-३१॥

चतुस्त्रिंशः सर्गः ॥२-३४॥[सम्पाद्यताम्]

ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।
उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥

स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥

उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥

आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥

तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥

अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥

स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥

गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।
वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥

स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥

सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।
दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥

सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥

एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥

अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥

आगतेषु च दारेषु समवेक्ष्य मही पतिः ।
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥

स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥

स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥

सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।
तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥

तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥

स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।
हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥

तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥

अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥

आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥

लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥

अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥

प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥

अहम् राघव कैकेय्या वर दानेन मोहितः ।
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥

एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥

भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥

नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥

रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥

श्रेयसे वृद्धये तात पुनर् आगमनाय च ।
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥

न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥

अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥

मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥

दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।
मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥

न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥

पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥

न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥

अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥

प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥

इयम् सराष्ट्रा सजना धन धान्य समाकुला ।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥

वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।

अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
चतुर्दश समा वत्स्ये वने वनचरैः सह ।

मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥

अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥

न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥

त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥

न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥

अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।
मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥

मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥

पिता हि दैवतम् तात देवतानामपि स्मृतम् ।
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥

चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥

येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥

पुरम् च राष्ट्रम् च मही च केवला ।
मया निसृष्टा भरताय दीयताम् ।
अहम् निदेशम् भवतः अनुपालयन् ।
वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥

मया निसृष्टाम् भरतः महीम् इमाम् ।
सशैल खण्डाम् सपुराम् सकाननाम् ।
शिवाम् सुसीमाम् अनुशास्तु केवलम् ।
त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥

न मे तथा पार्थिव धीयते मनो ।
महत्सु कामेषु न च आत्मनः प्रिये ।
यथा निदेशे तव शिष्ट सम्मते ।
व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥

तत् अद्य न एव अनघ राज्यम् अव्ययम् ।
न सर्व कामान् न सुखम् न मैथिलीम् ।
न जीवितम् त्वाम् अनृतेन योजयन् ।
वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥

फलानि मूलानि च भक्षयन् वने ।
गिरीमः च पश्यन् सरितः सराम्सि च ।
वनम् प्रविश्य एव विचित्र पादपम् ।
सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥

एवम् स राजा व्यसनाभिपन्नः ।
शोकेन दुःखेन च ताम्यमानः ।
आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।
मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥

देव्यस्ततः सम्रुरुदुः समेता ।
स्ताम् वर्जयित्वा नरदेवपत्नीम् ।
रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।
हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥

चत्वारिंशः सर्गः ॥२-४०॥[सम्पाद्यताम्]

अथ रामः च सीता च लक्ष्मणः च कृत अन्जलिः ।
उपसम्गृह्य राजानम् चक्रुर् दीनाः प्रदक्षिणम् ॥२-४०-१॥

तम् च अपि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
राघवः शोक सम्मूढो जननीम् अभ्यवादयत् ॥२-४०-२॥

अन्वक्षम् लक्ष्मणो भ्रातुः कौसल्याम् अभ्यवादयत् ।
अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥२-४०-३॥

तम् वन्दमानम् रुदती माता सौमित्रिम् अब्रवीत् ।
हित कामा महा बाहुम् मूर्ध्नि उपाघ्राय लक्ष्मणम् ॥२-४०-४॥

सृष्टः त्वम् वन वासाय स्वनुरक्तः सुहृज् जने ।
रामे प्रमादम् मा कार्षीः पुत्र भ्रातरि गच्चति ॥२-४०-५॥

व्यसनी वा समृद्धो वा गतिर् एष तव अनघ ।
एष लोके सताम् धर्मः यज् ज्येष्ठ वशगो भवेत् ॥२-४०-६॥

इदम् हि वृत्तम् उचितम् कुलस्य अस्य सनातनम् ।
दानम् दीक्षा च यज्ञेषु तनु त्यागो मृधेषु च ॥२-४०-७॥

लक्स्मणम् त्वेवम्क्त्वा सा सम्सिद्धम् प्रियराघवम् ।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥२-४०-८॥

रामम् दशरथम् विद्धि माम् विद्धि जनक आत्मजाम् ।
अयोध्याम् अटवीम् विद्धि गच्च तात यथा सुखम् ॥२-४०-९॥

ततः सुमन्त्रः काकुत्स्थम् प्रान्जलिर् वाक्यम् अब्रवीत् ।
विनीतः विनयज्ञः च मातलिर् वासवम् यथा ॥२-४०-१०॥

रथम् आरोह भद्रम् ते राज पुत्र महा यशः ।
क्षिप्रम् त्वाम् प्रापयिष्यामि यत्र माम् राम वक्ष्यसि ॥२-४०-११॥

चतुर् दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तानि उपक्रमितव्यानि यानि देव्या असि चोदितः ॥२-४०-१२॥

तम् रथम् सूर्य सम्काशम् सीता हृष्टेन चेतसा ।
आरुरोह वर आरोहा कृत्वा अलम्कारम् आत्मनः ॥२-४०-१३॥

तथैव आयुध जातानि भ्रातृभ्याम् कवचानि च ।
रथ उपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१४॥

वनवासम् हि सम्ख्यय वासाम्स्याभरणानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥२-४०-१५॥

तथैवायुधजालानि भ्रातृभ्याम् कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनम् च तत् ॥२-४०-१६॥
सीता तृतीयान् आरूढान् दृष्ट्वा धृष्टम् अचोदयत् ।
सुमन्त्रः सम्मतान् अश्वान् वायु वेग समान् जवे ॥२-४०-१७॥

प्रयाते तु महा अरण्यम् चिर रात्राय राघवे ।
बभूव नगरे मूर्च्चा बल मूर्च्चा जनस्य च ॥२-४०-१८॥

तत् समाकुल सम्भ्रान्तम् मत्त सम्कुपित द्विपम् ।
हय शिन्जित निर्घोषम् पुरम् आसीन् महा स्वनम् ॥२-४०-१९॥

ततः सबाल वृद्धा सा पुरी परम पीडिता ।
रामम् एव अभिदुद्राव घर्म आर्तः सलिलम् यथा ॥२-४०-२०॥

पार्श्वतः पृष्ठतः च अपि लम्बमानाः तत् उन्मुखाः ।
बाष्प पूर्ण मुखाः सर्वे तम् ऊचुर् भृश दुह्खिताः ॥२-४०-२१॥

सम्यच्च वाजिनाम् रश्मीन् सूत याहि शनैः शनैः ।
मुखम् द्रक्ष्यामि रामस्य दुर्दर्शम् नो भविष्यति ॥२-४०-२२॥

आयसम् हृदयम् नूनम् राम मातुर् असम्शयम् ।
यद् देव गर्भ प्रतिमे वनम् याति न भिद्यते ॥२-४०-२३॥

कृत कृत्या हि वैदेही चाया इव अनुगता पतिम् ।
न जहाति रता धर्मे मेरुम् अर्क प्रभा यथा ॥२-४०-२४॥

अहो लक्ष्मण सिद्ध अर्थः सतताम् प्रिय वादिनम् ।
भ्रातरम् देव सम्काशम् यः त्वम् परिचरिष्यसि ॥२-४०-२५॥

महति एषा हि ते सिद्धिर् एष च अभ्युदयो महान् ।
एष स्वर्गस्य मार्गः च यद् एनम् अनुगच्चसि ॥२-४०-२६॥

एवम् वदन्तः ते सोढुम् न शेकुर् बाष्पम् आगतम् ।
अथ राजा वृतः स्त्रीभिर् दीनाभिर् दीन चेतनः ॥२-४०-२७॥

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः ।
निर्जगाम प्रियम् पुत्रम् द्रक्ष्यामि इति ब्रुवन् गृहात् ॥२-४०-२८॥

शुश्रुवे च अग्रतः स्त्रीनाम् रुदन्तीनाम् महा स्वनः ।
यथा नादः करेणूनाम् बद्धे महति कुन्जरे ॥२-४०-२९॥

पिता च राजा काकुत्स्थः श्रीमान् सन्नः तदा बभौ ।
परिपूर्णः शशी काले ग्रहेण उपप्लुतः यथा ॥२-४०-३०॥

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
सूतम् सम्चोदयामास त्वरितम् वाह्यतामिति ॥२-४०-३१॥

रामो याहीति सूतम् तम् तिष्ठेति स जनस्तदा ।
उभयम् नाशकत्सूतः कर्तुमध्वनि चोदितः ॥२-४०-३२॥

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
पतितैरभ्यवहितम् प्रशशाम महीरजः ॥२-४०-३३॥

रुदिताश्रुपरिद्यूनम् हाहाकृतमचेतनम् ।
प्रयाणे राघवस्यासीत्पुरम् परमपीडितम् ॥२-४०-३४॥

सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम् ।
मीनसम्क्षोभचलितैः सलिलम् पङ्कजैरिव ॥२-४०-३५॥

दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतम् पुरम् ।
निपपातैव दुःखेन हतमूल इव द्रुमः ॥२-४०-३६॥

ततओ हल हला शब्दो जज्ञे रामस्य पृष्ठतः ।
नराणाम् प्रेक्ष्य राजानम् सीदन्तम् भृश दुह्खितम् ॥२-४०-३७॥

हा राम इति जनाः केचित् राम माता इति च अपरे ।
अन्तः पुरम् समृद्धम् च क्रोशन्तम् पर्यदेवयन् ॥२-४०-३८॥

अन्वीक्षमाणो रामः तु विषण्णम् भ्रान्त चेतसम् ।
राजानम् मातरम् चैव ददर्श अनुगतौ पथि ॥२-४०-३९॥

स बद्ध इव पाशेन किशोरो मातरम् यथा ।
धर्मपाशेन सम्क्षिप्तः प्रकाशम् नाभुदैक्षत ॥२-४०-४०॥

पदातिनौ च यान अर्हाव् अदुह्ख अर्हौ सुख उचितौ ।
दृष्ट्वा सम्चोदयाम् आस शीघ्रम् याहि इति सारथिम् ॥२-४०-४१॥

न हि तत् पुरुष व्याघ्रः दुह्खदम् दर्शनम् पितुः ।
मातुः च सहितुम् शक्तः तोत्र अर्दितैव द्विपः ॥२-४०-४२॥

प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
बद्धवत्सा यथा धेनू राममाताभ्याधावत ॥२-४०-४३॥

तथा रुदन्तीम् कौसल्याम् रथम् तम् अनुधावतीम् ।
क्रोशन्तीम् राम राम इति हा सीते लक्ष्मण इति च ॥२-४०-४४॥
रामलक्ष्मणसीतार्थम् स्रवन्तीम् वारि नेत्रजम् ।
असकृत् प्रैक्षत तदा नृत्यन्तीम् इव मातरम् ॥२-४०-४५॥

तिष्ठ इति राजा चुक्रोष याहि याहि इति राघवः ।
सुमन्त्रस्य बभूव आत्मा चक्रयोः इव च अन्तरा ॥२-४०-४६॥

न अश्रौषम् इति राजानम् उपालब्धो अपि वक्ष्यसि ।
चिरम् दुह्खस्य पापिष्ठम् इति रामः तम् अब्रवीत् ॥२-४०-४७॥

रामस्य स वचः कुर्वन्न् अनुज्ञाप्य च तम् जनम् ।
व्रजतः अपि हयान् शीघ्रम् चोदयाम् आस सारथिः ॥२-४०-४८॥

न्यवर्तत जनो राज्ञो रामम् कृत्वा प्रदक्षिणम् ।
मनसा अपि अश्रु वेगैः च न न्यवर्तत मानुषम् ॥२-४०-४९॥

यम् इच्चेत् पुनर् आयान्तम् न एनम् दूरम् अनुव्रजेत् ।
इति अमात्या महा राजम् ऊचुर् दशरथम् वचः ॥२-४०-५०॥

तेषाम् वचः सर्व गुण उपपन्नम् ।
प्रस्विन्न गात्रः प्रविषण्ण रूपः ।
निशम्य राजा कृपणः सभार्यो ।
व्यवस्थितः तम् सुतम् ईक्षमाणः ॥२-४०-५१॥

तृतीयः सर्गः ॥२-३॥[सम्पाद्यताम्]

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥२-३-१॥

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थ मिच्छथ ॥२-३-२॥

इति प्रत्यर्च्य तान् राजा ब्राह्मणानिद मब्रवीत् ।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥२-३-३॥

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥२-३-४॥
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।

शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥२-३-५॥
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ।

अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ॥२-३-६॥
तदद्य भगवन् सर्वमाज्ञापयितु मर्हसि ।

तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ॥२-३-७॥
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ।

सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥२-३-८॥
शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी ।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥२-३-९॥
चतुरङ्गबलं चैव गजं च शुभलक्षणम् ।
चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ॥२-३-१०॥
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥२-३-११॥
उपस्थापयत प्रातरग्न्यगारं महीपतेः ।

यच्चान्यत्किञ्चिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥२-३-१२॥
अस्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥२-३-१३॥

प्रशस्तमन्नं गुणवद्धधिक्षीरोपसेचनम् ।
द्विजानां शतसाहस्रे यत्प्रकाममलं भवेत् ॥२-३-१४॥

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥२-३-१५॥

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥२-३-१६॥

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ।
सर्वे च ताLआवचरा गणिकाश्च स्वलंकृताः ॥२-३-१७॥
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ।

देवायतनचैत्येषु सान्नभक्षाः सदक्षिणाः ॥२-३-१८॥
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक् पृथक् ।

दीर्घासिबद्धा योधाश्च सन्नद्धा मृष्टवाससः ॥२-३-१९॥
महाराजाङ्गणं सर्वे प्रविशन्तु महोदयम् ।

एवं व्यादिश्य विप्रौ तौ क्रियास्तत्र सुनिष्ठितौ ॥२-३-२०॥
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च ।

कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥२-३-२१॥
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ।

ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥२-३-२२॥
रामः कृतात्मा भवता शीघ्रमानीयतामिति ।

स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥२-३-२३॥
रामं तत्रानयांचक्रे रथेन रथिनां वरम् ।

अथ तत्र समासीनास्तदा दशरथं नृपम् ॥२-३-२४॥
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः ।
म्लेच्छाश्चार्याश्च ये चान्ये वने शैलान्तवासिनः ॥२-३-२५॥
उपासाञ्चक्रिरे सर्वे तं देवा इव वासवम् ।

तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥२-३-२६॥
प्रासादस्थो रथगतं ददर्शायान्त मात्मजम् ।

गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥२-३-२७॥
दीर्घ बाहुं महसत्त्वं मत्तमातङ्गगामिनम् ।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥२-३-२८॥
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम् ।
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥२-३-२९॥
न ततर्प समायान्तं पश्यमानो नराधिपः ।

अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात् ॥२-३-३०॥
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात् ।

स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ॥२-३-३१॥
आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ।

स प्राञ्^जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥२-३-३२॥
नाम स्वं श्रावयन् रामो ववन्धे चरणौ पितुः ।

तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥२-३-३३॥
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ।

तस्मै चाभ्युदितं दिव्यं मणिकाञ्चनभूषितं ॥२-३-३४॥
दिदेश राजा रुचिरं रामाय परमासनम् ।

तदासनवरं प्राप्य व्यदीपयत राघवः ॥२-३-३५॥
स्वयेव प्रभया मेरुमुदये विमलो रविः ।

तेन विभ्राजता तत्र सा सभाभिव्यरोचत ॥२-३-३६॥
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ।

तं पश्यमानो नृपति स्तुतोओष प्रियमात्मजम् ॥२-३-३७॥
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।

स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ॥२-३-३८॥
उवाचेदं वचो राजा देवेन्द्रमिव काश्यपः ।

ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥२-३-३९॥
उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः ।

यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥२-३-४०॥
तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ।

कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि ॥२-३-४१॥
गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम् ।

भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥२-३-४२॥
कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च ।

परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥२-३-४३॥
अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय ।

कोष्ठागारायुधागारैः कृत्वा सन्नि चयान् बहून् ॥२-३-४४॥
तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम् ।
तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवाऽमराः ॥२-३-४५॥
तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ।

तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥२-३-४६॥
त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ।

सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥२-३-४७॥
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ।

अथाभिवाद्य राजानं रथमारुह्य राघवः ॥२-३-४८॥
ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः ।

ते चापि पौरा नृपतेर्वचस्त ।
च्छ्रुत्वा तदा लाभमिवेष्टमाशु ।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा ।
देवान् समानर्चुरतिप्रहृष्टाः ॥२-३-४९॥

त्रयस्त्रिंशः सर्गः ॥२-३३॥[सम्पाद्यताम्]

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनम् बहु ।
जग्मतुः पितरम् द्रष्टुम् सीतया सह राघवौ ॥२-३३-१॥

ततो गृहीते दुष्प्रेक्ष्येअशोभेताम् तदा आयुधे ।
माला दामभिर् आसक्ते सीतया समलम्कृते ॥२-३३-२॥

ततः प्रासाद हर्म्याणि विमान शिखराणि च ।
अधिरुह्य जनः श्रीमान् उदासीनो व्यलोकयत् ॥२-३३-३॥

न हि रथ्याः स्म शक्यन्ते गन्तुम् बहु जन आकुलाः ।
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥२-३३-४॥

पदातिम् वर्जितच् चत्रम् रामम् दृष्ट्वा तदा जनाः ।
ऊचुर् बहु विधा वाचः शोक उपहत चेतसः ॥२-३३-५॥

यम् यान्तम् अनुयाति स्म चतुर् अन्ग बलम् महत् ।
तम् एकम् सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥२-३३-६॥

ऐश्वर्यस्य रसज्ञः सन् कामिनाम् चैव कामदः ।
न इच्चति एव अनृतम् कर्तुम् पितरम् धर्म गौरवात् ॥२-३३-७॥

या न शक्या पुरा द्रष्टुम् भूतैः आकाशगैः अपि ।
ताम् अद्य सीताम् पश्यन्ति राज मार्ग गता जनाः ॥२-३३-८॥

अङ्ग राग उचिताम् सीताम् रक्त चन्दन सेविनीम् ।
वर्षम् उष्णम् च शीतम् च नेष्यति आशु विवर्णताम् ॥२-३३-९॥

अद्य नूनम् दशरथः सत्त्वम् आविश्य भाषते ।
न हि राजा प्रियम् पुत्रम् विवासयितुम् अर्हति ॥२-३३-१०॥

निर्गुणस्य अपि पुत्रस्या काथम् स्यात् विप्रवासनम् ।
किम् पुनर् यस्य लोको अयम् जितः वृत्तेन केवलम् ॥२-३३-११॥

आनृशम्स्यम् अनुक्रोशः श्रुतम् शीलम् दमः शमः ।
राघवम् शोभयन्ति एते षड् गुणाः पुरुष उत्तमम् ॥२-३३-१२॥

तस्मात् तस्य उपघातेन प्रजाः परम पीडिताः ।
औदकानि इव सत्त्वानि ग्रीष्मे सलिल सम्क्षयात् ॥२-३३-१३॥

पीडया पीडितम् सर्वम् जगद् अस्य जगत् पतेः ।
मूलस्य इव उपघातेन वृक्षः पुष्प फल उपगः ॥२-३३-१४॥

मूलं ह्येष मनुष्याणाम् धर्मसारो महाद्युतिः ।
पुष्पम् फलम् च पत्रम् च शाखाश्चा स्येतरे जनाः ॥२-३३-१५॥

ते लक्ष्मणैव क्षिप्रम् सपत्न्यः सह बान्धवाः ।
गच्चन्तम् अनुगच्चामः येन गच्चति राघवः ॥२-३३-१६॥

उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च ।
एक दुह्ख सुखा रामम् अनुगच्चाम धार्मिकम् ॥२-३३-१७॥

समुद्धृत निधानानि परिध्वस्त अजिराणि च ।
उपात्त धन धान्यानि हृत साराणि सर्वशः ॥२-३३-१८॥
रजसा अभ्यवकीर्णानि परित्यक्तानि दैवतैः ।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥२-३३-१९॥
अपेतोदकधूमानि हीनसम्मार्जनानि च ।
प्रनष्टबलिकर्मेज्यमन्त्रहोमजपानि च ॥२-३३-२०॥
दुष्कालेनेव भग्नानि भिभाजनवन्ति च ।
अस्मत् त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥२-३३-२१॥

वनम् नगरम् एव अस्तु येन गच्चति राघवः ।
अस्माभिः च परित्यक्तम् पुरम् सम्पद्यताम् वनम् ॥२-३३-२२॥

बिलानि दम्ष्ट्रिणः सर्वे सानूनि मृग पक्षिणः ।
अस्मत् त्यक्तम् प्रपद्यन्ताम् सेव्यमानम् त्यजन्तु च ॥२-३३-२३॥
इति एवम् विविधा वाचो नाना जन समीरिताः ।

तृणमाम्सफलादानाम् देशम् व्यालमृगद्विजम् ॥२-३३-२४॥
प्रपद्यताम् हि कैकेयी सपुत्रा सहबान्धवैः ।
राघावेण वने सर्वे सह वत्स्याम निर्वृताः ॥२-३३-२५॥

इत्येवम् विविधा वाचो नानाजनसमीरिताः।
शुश्राव रामः श्रुत्वा च न विचक्रे अस्य मानसम् ॥२-३३-२६॥

स तु वेश्म पितुर्दूरा त्कैलासशिखरप्रभम् ।
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥२-३३-२७॥

विनीतवीरपुरुषं प्रविश्य तु नृपालयम् ।
ददर्शवस्थितम् दीनम् सुमन्त्रमविदूरतः ॥२-३३-२८॥

प्रतीक्षमाणो अभिजनम् तदा आर्तम् ।
अनार्त रूपः प्रहसन्न् इव अथ।
जगाम रामः पितरम् दिदृक्षुः ।
पितुर् निदेशम् विधिवच् चिकीर्षुः ॥२-३३-२९॥

तत् पूर्वम् ऐक्ष्वाक सुतः महात्मा ।
रामः गमिष्यन् वनम् आर्त रूपम् ।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रम् ।
पितुर् महात्मा प्रतिहारण अर्थम् ॥२-३३-३०॥

पितुर्निदेशेन तु धर्मवत्सलो ।
वन प्रवेशे कृत बुद्धि निश्चयः ।
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् ।
निवेदयस्व आगमनम् नृपाय मे ॥२-३३-३१॥

त्रयोदशः सर्गः ॥२-१३॥[सम्पाद्यताम्]

अतत् अर्हम् महा राजम् शयानम् अतथा उचितम् ।
ययातिम् इव पुण्य अन्ते देव लोकात् परिच्युतम् ॥२-१३-१॥
अनर्थ रूपा सिद्ध अर्थाअभीता भय दर्शिनी ।
पुनर् आकारयाम् आस तम् एव वरम् अन्गना ॥२-१३-२॥

त्वम् कत्थसे महा राज सत्य वादी द्Rढ व्रतः ।
मम च इमम् वरम् कस्मात् विधारयितुम् इच्चसि ॥२-१३-३॥

एवम् उक्तः तु कैकेय्या राजा दश रथः तदा ।
प्रत्युवाच ततः क्रुद्धो मुहूर्तम् विह्वलन्न् इव ॥२-१३-४॥

म्Rते मयि गते रामे वनम् मनुज पुम्गवे ।
हन्त अनार्ये मम अमित्रे रामः प्रव्राजितः वनम् ॥२-१३-५॥

स्वर्गेऽपि खलु रामस्य कुशलं दैवतैरह्म् ।
प्रत्यादेशादभिहितं धारयिष्ये कथं बत ॥२-१३-६॥

कैकेय्याः प्रियकामेन रामः प्रव्राजितो मया ।
यदि सत्यम् ब्रवीम्य् एतत् तत् असत्यम् भविष्यति ॥२-१३-७॥

अपुत्रेण मया पुत्रः श्रमेण महता महान् ।
रामो लब्धो महाबाहुः स कथं त्यज्यते मया ॥२-१३-८॥

शूर्श्च कृतविद्यश्च जितक्रोधः क्षमापरः ।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥२-१३-९॥

कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
अभिराममहं रामम् प्रेषयिष्यामि दण्डकान् ॥२-१३-१०॥

सुखानामुचितस्यैव दुःखैरनुचितस्य च ।
दुःखं नामानुपश्येयं कथं रामस्य धीमतः ॥२-१३-११॥

यदि दुःखमकृत्वाद्य मम संक्रमणं भवेत् ।
अदुःखार्हस्य रामस्य ततः सुखमवाप्नु याम् ॥२-१३-१२॥

नृशंसे पापसंकल्पे रामं स्त्यपराक्रमम् ।
किम् विप्रियेण कैकेयि प्रियं योजयसे मम ॥२-१३-१३॥
अकीर्तिरतुला लोके ध्रुवः परिभवश्च मे ।

तथा विलपतः तस्य परिभ्रमित चेतसः ॥२-१३-१४॥
अस्तम् अभ्यगमत् सूर्यो रजनी च अभ्यवर्तत ।

सा त्रि यामा तथा आर्तस्य चन्द्र मण्डल मण्डिता ॥२-१३-१५॥
राज्ञो विलपमानस्य न व्यभासत शर्वरी ।

तथैव उष्णम् विनिह्श्वस्य व्Rद्धो दशरथो न्Rपः ॥२-१३-१६॥
विललाप आर्तवद् दुह्खम् गगन आसक्त लोचनः ।

न प्रभातम् त्वया इच्चामि मया अयम् रचितः अन्जलिः ॥२-१३-१७॥
अथवा गम्यताम् शीघ्रम् न अहम् इच्चामि निर्घ्Rणाम् ।

अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम् ॥२-१३-१८॥
न्Rशम्साम् कैकेयीम् द्रष्टुम् यत् क्Rते व्यसनम् महत् ।

एवम् उक्त्वा ततः राजा कैकेयीम् सम्यत अन्जलिः ॥२-१३-१९॥
प्रसादयाम् आस पुनः कैकेयीम् च इदम् अब्रवीत् ।

साधु व्Rत्तस्य दीनस्य त्वद् गतस्य गत आयुषः ॥२-१३-२०॥
प्रसादः क्रियताम् देवि भद्रे राज्ञो विशेषतः ।

शून्येन खलु सुश्रोणि मया इदम् समुदाह्Rतम् ॥२-१३-२१॥
कुरु साधु प्रसादम् मे बाले सह्Rदया हि असि ।

प्रसीद देवि रामो मे त्वद्धत्तं राज्यमव्ययम् ॥२-१३-२२॥
लभतामसितापाङ्गे यशः परमवाप्नुहि ।

मम रामस्य लोकस्य गुरूणां भरतस्य च ॥२-१३-२३॥
प्रियमेतद्गुरुश्रोणि कुरु चारुमुखेक्षणे ।

विशुद्ध भावस्य सु दुष्ट भावा ।
दीनस्य ताम्राश्रुकलस्य राज्ञः ।
श्रुत्वा विचित्रम् करुणम् विलापम् ।
भर्तुर् न्Rशम्सा न चकार वाक्यम् ॥२-१३-२४॥

ततः स राजा पुनर् एव मूर्चितः ।
प्रियाम् अतुष्टाम् प्रतिकूल भाषिणीम् ।
समीक्ष्य पुत्रस्य विवासनम् प्रति ।
क्षितौ विसम्ज्ञो निपपात दुह्खितः ॥२-१३-२५॥

इतीव राज्ञो व्य्थितस्य सा निशा ।
जगाम घोरं स्वसतो मनस्विनः ।
विबोध्यमानः प्रतिबोधनं तदा ।
निवारयामास स राजसत्तमः ॥२-१३-२६॥

त्रयोविंशः सर्गः ॥२-२३॥[सम्पाद्यताम्]

इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः ।
श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥

तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ ।
निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥

तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा ।
बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥

अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः ।
तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥
अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् ।

अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥
धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया ।
कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥
यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः ।

किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति ।
पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥

सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥
तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः ।

यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव ।
तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥

लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् ।
नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥

येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते ।
स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥

कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः ।
करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥

यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् ।
तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥

मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः ।
तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।
तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥

विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते ।
वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥

दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् ।
न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥

द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च ।
दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥

अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः ।
यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥

अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् ।
प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥

लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् ।
न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥

यैः विवासः तव अरण्ये मिथो राजन् समर्थितः ।
अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥

अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव ।
अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥

मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा ।
प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥

ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् ।
आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥

पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते ।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥

स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया ।
न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥
प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् ।
राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥

मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्Rतः भव ।
अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥

न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे ।
न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥
अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् ।

न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥
असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा ।
प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥

खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे ।
हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥

खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः ।
पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥

बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने ।
कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥

बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् ।
विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥

अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति ।
राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥

अद्य चन्दन सारस्य केयूरा मोक्षणस्य च ।
वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥
अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।
अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥

ब्रवीहि को अद्य एव मया वियुज्यताम् ।
तव असुह्Rद् प्राण यशः सुह्Rज् जनैः ।
यथा तव इयम् वसुधा वशे भवेत् ।
तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥

विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् ।
स लक्ष्मणम् राघव वम्श वर्धनः ।
उवाच पित्र्ये वचने व्यवस्थितम् ।
निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥

त्रिंशः सर्गः ॥२-३०॥[सम्पाद्यताम्]

सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा ।
वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥

सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् ।
प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥

किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः ।
राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥

अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति ।
तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥

किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते ।
यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥

द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् ।
सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥

न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ ।
त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥

स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् ।
शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥

यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे ।
त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥

स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि ।
तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥

न च मे भविता तत्र कश्चित् पथि परिश्रमः ।
पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥

कुश काश शर इषीका ये च कण्टकिनो द्रुमाः ।
तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥

महा वात समुद्धूतम् यन् माम् अवकरिष्यति ।
रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥

शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा ।
कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥

पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु ।
दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥

न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः ।
आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥

न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् ।
मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥

यः त्वया सह स स्वर्गो निरयो यः त्वया विना ।
इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥

अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि ।
विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥

पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् ।
उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥

इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे ।
किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥

इति सा शोक सम्तप्ता विलप्य करुणम् बहु ।
चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥

सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना ।
चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥

तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् ।
नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥

तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् ।
पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥

ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् ।
उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥

न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये ।
न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥

तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने ।
वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥

यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि ।
न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥

धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा ।
तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥

न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि ।
वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥

एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता ।
अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥

अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते ।
स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥

यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि ।
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥

न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः ।
तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥

स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च ।
गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥

देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् ।
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥

स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः ।
तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥

मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् ।
वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥

सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे ।
अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥

सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च ।
व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥

आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः ।
नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥

ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् ।
देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥

भूषणानि महार्हाणि वरवस्त्राणि यानि च ।
रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥
शयनीयानि यानानि मम चान्यानि यानि च ।
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥

अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः ।
क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥

ततः प्रहृष्टा परिपूर्ण मानसा ।
यशस्विनी भर्तुर् अवेक्ष्य भाषितम् ।
धनानि रत्नानि च दातुम् अन्गना ।
प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥

त्रिचत्वारिंशः सर्गः ॥२-४३॥[सम्पाद्यताम्]

ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् ।
कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥

राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् ।
विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥

विवास्य रामम् सुभगा लब्ध कामा समाहिता ।
त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥

अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् ।
काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥

पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः ।
प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥

गज राज गतिर् वीरः महा बाहुर् धनुर् धरः ।
वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥

वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया ।
त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥

ते रत्न हीनाः तरुणाः फल काले विवासिताः ।
कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥

अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः ।
सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥

श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति ।
यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥

कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ ।
नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥

कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति ।
पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥

कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ ।
लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥

प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता ।
उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥

कदा सुमनसः कन्या द्विजातीनाम् फलानि च ।
प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥

कदा परिणतः बुद्ध्या वयसा च अमर प्रभः ।
अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥

निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया ।
पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥

सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता ।
कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥

न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् ।
एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥

न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते ।
अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥

अयम् हि माम् दीपयते समुत्थितः ।
तनूज शोक प्रभवो हुत अशनः ।
महीम् इमाम् रश्मिभिर् उत्तम प्रभो ।
यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥

त्रिपञ्चाशः सर्गः ॥२-५३॥[सम्पाद्यताम्]

स तम् वृक्षम् समासाद्य सम्ध्याम् अन्वास्य पश्चिमाम् ।
रामः रमयताम् श्रेष्ठैति ह उवाच लक्ष्मणम् ॥२-५३-१॥

अद्य इयम् प्रथमा रात्रिर् याता जन पदात् बहिः ।
या सुमन्त्रेण रहिता ताम् न उत्कण्ठितुम् अर्हसि ॥२-५३-२॥

जागर्तव्यम् अतन्द्रिभ्याम् अद्य प्रभृति रात्रिषु ।
योग क्षेमः हि सीताया वर्तते लक्ष्मण आवयोह् ॥२-५३-३॥

रात्रिम् कथम्चित् एव इमाम् सौमित्रे वर्तयामहे ।
उपावर्तामहे भूमाव् आस्तीर्य स्वयम् आर्जितैः ॥२-५३-४॥

स तु सम्विश्य मेदिन्याम् महा अर्ह शयन उचितः ।
इमाः सौमित्रये रामः व्याजहार कथाः शुभाः ॥२-५३-५॥

ध्रुवम् अद्य महा राजो दुह्खम् स्वपिति लक्ष्मण ।
कृत कामा तु कैकेयी तुष्टा भवितुम् अर्हति ॥२-५३-६॥

सा हि देवी महा राजम् कैकेयी राज्य कारणात् ।
अपि न च्यावयेत् प्राणान् दृष्ट्वा भरतम् आगतम् ॥२-५३-७॥

अनाथः चैव वृद्धः च मया चैव विनाकृतः ।
किम् करिष्यति काम आत्मा कैकेय्या वशम् आगतः ॥२-५३-८॥

इदम् व्यसनम् आलोक्य राज्ञः च मति विभ्रमम् ।
कामएव अर्ध धर्माभ्याम् गरीयान् इति मे मतिः ॥२-५३-९॥

को हि अविद्वान् अपि पुमान् प्रमदायाः कृते त्यजेत् ।
चन्द अनुवर्तिनम् पुत्रम् तातः माम् इव लक्ष्मण ॥२-५३-१०॥

सुखी बत सभार्यः च भरतः केकयी सुतः ।
मुदितान् कोसलान् एको यो भोक्ष्यति अधिराजवत् ॥२-५३-११॥

स हि सर्वस्य राज्यस्य मुखम् एकम् भविष्यति ।
ताते च वयसा अतीते मयि च अरण्यम् आश्रिते ॥२-५३-१२॥

अर्थ धर्मौ परित्यज्य यः कामम् अनुवर्तते ।
एवम् आपद्यते क्षिप्रम् राजा दशरथो यथा ॥२-५३-१३॥

मन्ये दशरथ अन्ताय मम प्रव्राजनाय च ।
कैकेयी सौम्य सम्प्राप्ता राज्याय भरतस्य च ॥२-५३-१४॥

अपि इदानीम् न कैकेयी सौभाग्य मद मोहिता ।
कौसल्याम् च सुमित्राम् च सम्प्रबाधेत मत् कृते ॥२-५३-१५॥

मा स्म मत् कारणात् देवी सुमित्रा दुह्खम् आवसेत् ।
अयोध्याम् इतएव त्वम् काले प्रविश लक्ष्मण ॥२-५३-१६॥

अहम् एको गमिष्यामि सीतया सह दण्डकान् ।
अनाथाया हि नाथः त्वम् कौसल्याया भविष्यसि ॥२-५३-१७॥

क्षुद्र कर्मा हि कैकेयी द्वेषात् अन्याय्यम् आचरेत् ।
परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥२-५३-१८॥

नूनम् जाति अन्तरे कस्मिम्स् स्त्रियः पुत्रैः वियोजिताः ।
जनन्या मम सौमित्रे तत् अपि एतत् उपस्थितम् ॥२-५३-१९॥

मया हि चिर पुष्टेन दुह्ख सम्वर्धितेन च ।
विप्रायुज्यत कौसल्या फल काले धिग् अस्तु माम् ॥२-५३-२०॥

मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ।
सौमित्रे यो अहम् अम्बाया दद्मि शोकम् अनन्तकम् ॥२-५३-२१॥

मन्ये प्रीति विशिष्टा सा मत्तः लक्ष्मण सारिका ।
यस्याः तत् श्रूयते वाक्यम् शुक पादम् अरेर् दश ॥२-५३-२२॥

शोचन्त्याः च अल्प भाग्याया न किम्चित् उपकुर्वता ।
पुर्त्रेण किम् अपुत्राया मया कार्यम् अरिम् दम ॥२-५३-२३॥

अल्प भाग्या हि मे माता कौसल्या रहिता मया ।
शेते परम दुह्ख आर्ता पतिता शोक सागरे ॥२-५३-२४॥

एको हि अहम् अयोध्याम् च पृथिवीम् च अपि लक्ष्मण ।
तरेयम् इषुभिः क्रुद्धो ननु वीर्यम् अकारणम् ॥२-५३-२५॥

अधर्म भय भीतः च पर लोकस्य च अनघ ।
तेन लक्ष्मण न अद्य अहम् आत्मानम् अभिषेचये ॥२-५३-२६॥

एतत् अन्यच् च करुणम् विलप्य विजने बहु ।
अश्रु पूर्ण मुखो रामः निशि तूष्णीम् उपाविशत् ॥२-५३-२७॥

विलप्य उपरतम् रामम् गत अर्चिषम् इव अनलम् ।
समुद्रम् इव निर्वेगम् आश्वासयत लक्ष्मणः ॥२-५३-२८॥

ध्रुवम् अद्य पुरी रामायोध्या युधिनाम् वर ।
निष्प्रभा त्वयि निष्क्रान्ते गत चन्द्रा इव शर्वरी ॥२-५३-२९॥

न एतत् औपयिकम् राम यद् इदम् परितप्यसे ।
विषादयसि सीताम् च माम् चैव पुरुष ऋषभ ॥२-५३-३०॥

न च सीता त्वया हीना न च अहम् अपि राघव ।
मुहूर्तम् अपि जीवावो जलान् मत्स्याव् इव उद्धृतौ ॥२-५३-३१॥

न हि तातम् न शत्रुघ्नम् न सुमित्राम् परम् तप ।
द्रष्टुम् इच्चेयम् अद्य अहम् स्वर्गम् वा अपि त्वया विना ॥२-५३-३२॥

ततस्तत्र सुखासीने नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृताम् शय्याम् भेजाते धर्मवत्सलौ ॥२-५३-३३॥

स लक्ष्मणस्य उत्तम पुष्कलम् वचो ।
निशम्य च एवम् वन वासम् आदरात् ।
समाः समस्ता विदधे परम् तपः ।
प्रपद्य धर्मम् सुचिराय राघवः ॥२-५३-३४॥

ततस्तु तस्मिन् विजने वने तदा ।
महाबलौ राघववम्शवर्धनौ ।
न तौ भयम् सम्भ्रममभ्युपेयतु ।
र्यथैव सिम्हौ गिरिसानुगोचरौ ॥२-५३-३५॥

त्रिषष्ठितमः सर्गः ॥२-६३॥[सम्पाद्यताम्]

प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः ।
अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥

राम लक्ष्मणयोः चैव विवासात् वासव उपमम् ।
आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥

सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः ।
विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥

स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् ।
अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥

स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः ।
कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥

यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् ।
तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥

गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् ।
दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥

कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति ।
पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥

अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति ।
स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥

सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् ।
रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥

लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता ।
कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥

तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् ।
सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥

यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् ।
एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥

देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् ।
ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥

उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः ।
परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥

उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥

क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः ।
वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥

पतितेन अम्भसा चन्नः पतमानेन च असकृत् ।
आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥

पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥

आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि ।
उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥

तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी ।
व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥

निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् ।
अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः ।

तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् ।

अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः ।

ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् ।

अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः ।
हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ।
कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥

प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः ।
इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥

ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः ।
कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥

जटा भार धरस्य एव वल्कल अजिन वाससः ।
को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥

एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् ।
न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥

नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः ।
मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥

तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया ।
मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥

वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः ।
केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥

तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः ।
कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥

तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु ।
सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥

तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः ।
अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् ।
पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥

स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् ।
इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥

किम् तव अपकृतम् राजन् वने निवसता मया ।
जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥

एकेन खलु बाणेन मर्मणि अभिहते मयि ।
द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥

तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ ।
चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥

न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा ।
पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥

जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः ।
चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥

पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव ।
न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥

इयम् एक पदी राजन् यतः मे पितुर् आश्रमः ।
तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥

विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः ।
रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति ।
इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥

दुःखितस्य च दीनस्य मम शोकातुरस्य च ।
लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥

ताम्यमानः स माम् दुःखादुवाच परमार्तवत् ।
सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥

सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् ।
ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥

न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा ।
शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥

इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः ।
विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् ।
तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥

जल आर्द्र गात्रम् तु विलप्य कृच्चान् ।
मर्म व्रणम् सम्ततम् उच्चसन्तम् ।
ततः सरय्वाम् तम् अहम् शयानम् ।
समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥

त्रिसप्ततितमः सर्गः ॥२-७३॥[सम्पाद्यताम्]

श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ ।
भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥

किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः ।
विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥

दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः ।
राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥

कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता ।
अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥

मृत्युमापादितो राजा त्वया मे पापदर्शिनि ।
सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥

त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः ।
तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥

विनाशितो महाराजः पिता मे धर्मवत्सलः ।
कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥

कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते ।
दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥

ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् ।
वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी ।
त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥

तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् ।
प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥

अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् ।
प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥

लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति ।
तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥

अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ ।
केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥

तम् हि नित्यम् महा राजो बलवन्तम् महा बलः ।
उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥

सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् ।
दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥

अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा ।
सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥

न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् ।
यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥

उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि ।
साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥

अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते ।
अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥

न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे ।
गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥

सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते ।
राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥

तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् ।
अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥

तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः ।
बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥

न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये ।
त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥

एष त्विदानीमेवाहमप्रियार्थम् तवनघम् ।
निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥

निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः ।
दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥

इति एवम् उक्त्वा भरतः महात्मा ।
प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् ।
शोक आतुरः च अपि ननाद भूयः ।
सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥

त्र्यशीतितमः सर्गः ॥२-८३॥[सम्पाद्यताम्]

ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् ।
प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥

अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः ।
अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥

नव नाग सहस्राणि कल्पितानि यथा विधि ।
अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥

षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥

शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् ।
अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥

प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् ।
तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥

मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् ।
कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥

दृष्टएव हि नः शोकम् अपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥

इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥

ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः ।
रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥

मणि काराः च ये केचित् कुम्भ काराः च शोभनाः ।
सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
मायूरकाः क्राकचिका रोचका वेधकाः तथा ।
दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः ।
स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः ।
शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥

समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः ।
गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥

सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः ।
सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥

प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् ।
भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥

ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः ।
समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥

उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् ।
व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥

निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।
विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥

दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः ।
और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥

तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः ।
न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥

निवेश्य गन्गाम् अनु ताम् महा नदीम् ।
चमूम् विधानैः परिबर्ह शोभिनीम् ।
उवास रामस्य तदा महात्मनो ।
विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥

दशमः सर्गः ॥२-१०॥[सम्पाद्यताम्]

विदर्शिता यदा देवी कुब्जया पापया भृशम् ।
तदा शेते स्म सा भूमौ दिग्धविद्धेव किन्नरी ॥२-१०-१॥

निश्चित्य मनसा कृत्यम् सा सम्यगिति भामिनी ।
मन्थरायै श्नः सर्वमाच्चक्षे विचक्षणा ॥२-१०-२॥

सा दीना निश्चयं कृत्वा मन्थरावाक्यमोहिता ।
नागकन्येव निःस्वस्य दीर्घमुष्णं च भामिनी ॥२-१०-३॥
मुहूर्तं चिन्तयामास मार्गमात्मसुखावहम् ।

सा सुहृच्चार्थकामा च तं निशम्य सुनिश्चयम् ॥२-१०-४॥
बभूव परमप्रीता सिद्धिं प्राप्येव मन्थरा ।

अथ सा रुषिता देवी सम्यक्कृत्वा विनिश्चयम् ॥२-१०-५॥
संविवेशाबला भूमौ निवेश्य भृकुटिं मुखे ।

ततश्चित्राणि माल्यानि दिव्यान्याभरणानि च ॥२-१०-६॥
अपविद्धानि कैकेय्या तानि भूमिं प्रपेदिरे ।

तया तान्यपविद्धानि माल्यान्याभरणानि च ॥२-१०-७॥
अशोभयन्त वसुधां नक्षत्राणि यथा नभः ।

क्रोधागारे निपतिता सा बभौ मलिनाम्बरा ॥२-१०-८॥
एकवेणीं दृढं बद्ध्वा गतसत्त्वेव किन्नरी ।

आज्ञाप्य तु महाराजो राघवस्याभिषेचन्म् ॥२-१०-९॥
उपस्थासमनुज्ञाप्य प्रविवेश निवेशन्म् ।

अद्य रामाभिषेको वै प्रसिद्ध इति जज्ञिवान् ॥२-१०-१०॥
प्रियार्हं प्रियमाख्यातुं विवेशान्तःपुरं वशी ।

स कैकेय्या गृहं श्रेष्ठं प्रविवेश महायशाः ॥२-१०-११॥
पाण्डुराभ्रमिवाकाशं राहुयुक्तं निशाकरः ।

शुकबर्हिणसंयुक्तं क्रौञ्चहंसरुतायुतम् ॥२-१०-१२॥
वादित्ररवसंघुष्टं कुब्जावामनिकायुतम् ।
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः ॥२-१०-१३॥
दान्तराजत सौवर्णवेदिकाभिस्समायुतम् ।
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम् ॥२-१०-१४॥
दान्तराजतसौवर्णैः संवृतं परमासनैः ।
विविध्यैरन्नपानैश्छ भक्ष्यैश्चवि विधैरपि ॥२-१०-१५॥
उपपन्नं महार्हैश्च भूषितैस्त्रिदिवोपमम् ।
तत्प्रविश्य महाराजः स्वमन्तःपुरमृद्धिमत् ॥२-१०-१६॥
न ददर्श प्रियां राजा कैकेयीं शयनोत्तमे ।

स कामबलसंयुक्तो रत्यर्थं मनुजाधिपः ॥२-१०-१७॥
अपश्यन् दयितां भार्यां पप्रच्छ विषसाद च ।

न ही तस्य पुरा देवी तां वेLआमत्यवर्तत ॥२-१०-१८॥
न च राजा गृहं शून्यं प्रविवेश कदाचन ।

ततो गृहगतो राजा कैकेयीं पर्यपृच्छत ॥२-१०-१९॥
यथापुरमविज्ञाय स्वार्थलिप्सुमपण्डिताम् ।

प्रतीहारी त्वथोवाच संत्रस्ता तु क्R^ताञ्जलिः ॥२-१०-२०॥
देव देवी भृशं कृद्धा क्रोधागारमभिद्रुता ।

प्रतीहार्या वचः श्रुत्वा राजा परमदुर्मनाः ॥२-१०-२१॥
विषसाद पुनर्भुयो लुलितव्याकुलेन्ध्रियः ।

तत्रतां पतितां भूमौ शयानामतथोचिताम् ॥२-१०-२२॥
प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः ।

स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम् ॥२-१०-२३॥
अपापः पापसङ्कल्पां ददर्श धरणीतले ।
लतामिव विनिष्कृत्तां पतितां देव तामिव ॥२-१०-२४॥
किन्नरीमिव निर्धूतां च्युतामप्सरसं यथा ।
मायामिव परिभ्रष्टां हरिणीमिव संयताम् ॥२-१०-२५॥

क्रेणुमिव दिग्धेन विद्धां मृगयुना वने ।
महागज इन्वारण्ये स्नेहात्परिममर्श ताम् ॥२-१०-२६॥

परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः ।
कामी कमलपत्राक्षीमुवाच वनितामिदम् ॥२-१०-२७॥

न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम् ।
देवि केनाभिशप्तासि केन वासि विमानिता ॥२-१०-२८॥
यदिदं ममम् दुःखाय शेशे क्ल्याणि पांसुषु ।

भूमौ शेषे किमर्थं त्वं मयि कल्याणचेतसि ।
भूतोपहतचित्तेव मम चित्तप्रमाथिनी ॥२-१०-२९॥

सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ।
सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि ॥२-१०-३०॥

कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम् ।
कः प्रियं लभतामद्य को वा सुमहदप्रियम् ॥२-१०-३१॥

मा रोदीर्मा च कार्षिस्त्वं देवि संपरिशोषणम् ॥२-१०-३२॥
अवध्यो वध्यतां को वा को वा वध्यो विमुच्यताम् ।
दरिद्रः को भवेदाढ्यो द्रव्यवान्वाप्यकिञ्चनः ॥२-१०-३३॥

अहं चैव मदीयाश्च सर्वे तव वशानुगाः ।
न ते किम्चिदभिप्रायं व्याहन्तुमहमुत्सहे ॥२-१०-३४॥

आत्मनो जीवितेनापि ब्रुहि यन्मनसेच्छसि ।
बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥२-१०-३५॥
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ।

यावदावर्त ते चक्रं तावती मे वसुन्धरा ॥२-१०-३६॥
प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः ।
वङ्गाङ्गमगधा मत्स्याः समृद्धाः काशिकोसलाः ॥२-१०-३७॥

तत्र जातं बहुद्रव्यं धनधान्य मजाविकम् ।
ततो वृणीष्व कैकेयि यद्यत्त्वं मनसेच्छसि ॥२-१०-३८॥

किमायासेन ते भीरु उत्तिष्टोत्तिष्ट शोभने ।
तत्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम् ॥२-१०-३९॥
तत्ते व्यपनयिष्यामि नीहरमिव र्श्मिवान् ।

तथोक्ता सा समास्वस्ता वक्तुकामा तदप्रियम् ॥२-१०-४०॥
परिपीडयितुं भूयो भर्तारमुपचक्रमे ।

द्वात्रिंशः सर्गः ॥२-३२॥[सम्पाद्यताम्]

ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् ।
गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥

तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् ।
सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥

ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह ।
जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥

तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह ।
सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥

जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः ।
सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥
अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् ।
सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥

हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय ।
रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥

अङ्गदानि विचित्राणि केयूराणि शुभानि च ।
पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥

पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् ।
तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥

नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम ।
तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥

इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् ।
राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥

अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः ।
सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥

अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ ।
अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥

तर्पयस्व महाबाहो गोसहसरैश्च मानद ।
सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥

कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति ।
आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥
तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय ।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥

सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः ।
तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥

पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च ।
ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥
नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन ।
अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥
शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा ।
व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥

मेखलीनाम् महासघः कौसल्याम् समुपस्थितः ।
तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥

अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् ।
तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥

ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् ।
यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥

अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः ।
सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥

लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम ।
अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥

इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् ।
उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥

ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः ।
स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥

ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः ।
द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥

तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः ।
क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥

तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् ।
अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥

अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् ।
रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥

स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ।
स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥

भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि ।
आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥

स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् ।
निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः ।
क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥

तमुवाच ततो रामः परिहाससमन्वितम् ।
गवाम् सहस्रमप्येकम् न च विश्राणितम् मया ।
परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥

स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् ।
आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥

स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः ।
गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥

तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् ।
आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥

उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् ।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥

इदम् हि तेजस्तव यद्धुरत्ययम् ।
तदेव जिज्ञासितु मिच्छता मया ।
इमम् भवानर्थमभिप्रचोदितो ।
वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥

ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा ।
धनम् हि यद्यन्मम विप्रकारणात् ।
भवत्सु सम्यक्र्पतिपादनेन त ।
न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥

तत स्सभार्य स्त्रिजटो महामुनि ।
र्गवामनीकम् प्रतिगृह्य मोदितः ।
यशोबलप्रीतिसुखोपबृम्हणी ।
स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥

स चापि रामः प्रतिपूर्णमानसो ।
महद्धनम् धर्मबलैरुपार्जितम् ।
नियोजयामास सुहृज्जनेऽचिरा ।
द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥

द्विजः सुहृद्भृत्यजनोऽथवा तदा ।
दरिद्रभिक्षाचरणश्च योऽभवत् ।
न तत्र कश्चिन्न बभूव तर्पितो ।
यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥

द्वादशः सर्गः ॥२-१२॥[सम्पाद्यताम्]

ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः ।
चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥

किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम ।
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥

इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् ।
प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥
व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः ।
असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥
मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः ।
अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥
मोहमापेदिवान्भूयः शोकोपहतचेतनः ।

चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा ।

नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥
किम् कृतम् तव रामेण पापं पापे मयापि वा ।

त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥
अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा ।

जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।

जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥
अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् ।

कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥
जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् ।

परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥
अपश्यतस्तु मे रामम् नष्टा भवति चेतना ।

तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥
न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् ।

तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥
अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ।

किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥
अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये ।
अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥
स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे ।
तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥

तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् ।
आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥

इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् ।
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥

न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम ।
अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥

ननु ते राघवस्तुल्यो भरतेन महात्मना ।
बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥

तस्य धर्मात्मनो देवि वनवासम् यशस्विनः ।
कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥

अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः ।
कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥

रोचयस्यभिरामस्य रामस्य शुभलोचने ।
तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥

रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा ।
विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥

शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् ।
कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥
बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् ।

परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा ।
गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥

सत्येन लोकान् जयति दीनान् दानेन राघवः ।
गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥

सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् ।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् ।
पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥

न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः ।
स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥

क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता ।
अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ।
दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥

पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते ।
तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥

अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते ।
शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥

इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् ।
घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥
पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः ।
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥

यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे ।
धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥

यदा समेता बहवस्त्वया राजर्षयस्सह ।
कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥

यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ।
तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥

किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप ।
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥

शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ ।
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥

सागरः समयम् कृत्वान वेलामतिवर्तते ।
समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥

स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच ।
सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥

भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् ।
यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥

अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः ।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥

एकाहमपि पश्येयम् यद्यहम् राममातरम् ।
अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥

भरतेनात्मना चाहम् शपे ते मनुजाधिप ।
यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥

एतावदुक्त्वा वचनम् कैकेयी विरराम ह ।
विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥

श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् ।
रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥
नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः ।

प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥
ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् ।
दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥

स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् ।
ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः ।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥

दीनया तु गिरा राजा इति होवाच कैकयिम् ।
अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥
भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे ।

शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा ।
ब३
लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥

कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् ।
राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥

विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च ।

वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥
किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि ।

न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥
रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् ।

कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥
मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् ।

ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥
कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् ।
किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥
बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् ।

यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥
परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा ।

कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥
यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति ।

किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥
किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् ।

यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति ।
सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥
न मया सत्कृता देवि सत्कारार्हा कृते तव ।

इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥
अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् ।

विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥
सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति ।

कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥
माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् ।

वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥
हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा ।

न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥
चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् ।

सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥
न हि प्रवाजिते रामे देवि जीवितुमुत्सहे ।

सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥
रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् ।

अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥
गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः ।

अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥
धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा ।

अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥
दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् ।

चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥
अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा ।

रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ।

मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥
यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति ।

व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥
भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते ।

नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥
स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ।

यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥
प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति ।

शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥
स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति ।

राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।

राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥
मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् ।

मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥
इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे ।

कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥
दुःखान्यसहती देवी मामेवानुमरिष्यति ।

कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥
प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव ।

मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥
इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि ।

प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥
मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः ।

हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥
मृते मयि गते रामे वनम् पुरुषपुङ्गवे ।
सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥

त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि ।
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ।

कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥
पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति ।

यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥
अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् ।
स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥
भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति ।

महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥
काशायपरिधानस्तु कथम् भूमौ निवत्स्यति ।

कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥
रामस्यारण्यगवनम् भरतस्यैव मातरम् ।

धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ।

अनर्थभावेऽ र्थपरे नृशम्से ।
ममानुतापाय निविष्टभावे ।
किमप्रियम् पश्यसि मन्निमित्तम् ।
हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥

परित्यजेयुः पितरो हि पुत्रान् ।
भार्याः वतीम्श्चापि कृतानुरागाः ।
कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या ।
द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥

अहम् पुनर्देवकुमाररूप ।
मलकृतम् तम् सुतमाव्रजन्तम् ।
नन्दामि पश्यन्नपि दर्शनेन ।
भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥

विनापि सूर्येण भवेत्प्रवृत्ति ।
रवर्ष्ता वज्रधरेण वापि ।
रामम् तु गच्छन्तमितः समीक्ष्य ।
जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥

विनाशकामामहिताममित्रा ।
मावासयम् मृत्युमिवात्मनस्त्वम् ।
चिरम् बताङ्केन धृतासि सर्पी ।
महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥

मया च रामेण सलक्ष्मणेन ।
प्रशास्तु हीनो भरतस्त्वया सह ।
पुरम् च राष्ट्रम् च निहत्य बान्धवान् ।
ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥

नृशम्सवृत्ते व्यसनप्रहारिणि ।
प्रसह्य वाक्यम् यदिहाद्य भाषसे ।
न नाम ते केन मुखात्पतन्त्यधो ।
विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥

न किम्चिदाहाहितमप्रियम् वचो ।
न वेत्ति रामः परुशाणि Bहाषितुम् ।
कथन्नु रामे ह्यभिरामवादिनि ।
ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥

प्रताम्य वा प्रज्वल वा प्रणश्य वा ।
सहस्रशो वा स्फुटिता महीम् व्रज ।
न ते करिष्यमि वचः सुदारुणम् ।
ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥

क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् ।
प्रदुष्टभावाम् स्वकुलोपघातिनीम् ।
न जीवितुम् त्वाम् विषहेऽमनोरमाम् ।
दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥

न जीवितम् मेऽस्ति पुनः कुतः सुखम् ।
विनात्मजेनात्मवतः कुतो रतिः ।
ममाहितम् देवि न क् कर्तुमर्हसि ।
स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥

स भूमिपलो विलपन्ननाथवत् ।
स्त्रीया गृहीतो हृदयेऽतिमात्रया ।
पपात देव्याश्चरणौ प्रसारिता ।
पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥

द्वाविंशः सर्गः ॥२-२२॥[सम्पाद्यताम्]

अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् ।
श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥
आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् ।
उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥

निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् ।
अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥
उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे ।
स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥

सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः ।
अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥

यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते ।
माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥

तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे ।
मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥

न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन ।
मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥

सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः ।
पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥

तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते ।
सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥

अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण ।
अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥

मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा ।
सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥

मयि चीर अजिन धरे जटा मण्डल धारिणि ।
गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥

बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् ।
तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥

कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने ।
राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥

कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने ।
यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥

जानासि हि यथा सौम्य न मातृषु मम अन्तरम् ।
भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥

सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः ।
उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥

कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा ।
ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥

यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते ।
व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥

कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् ।
यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥

सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ ।
यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥

ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः ।
उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥

असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते ।
निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥

एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना ।
व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥

तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् ।
प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥

एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः ।
मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥

अथवा किम् ममैतेन राजद्रव्यमयेन तु ।
उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥

मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये ।
राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥

न लक्ष्मण अस्मिन् मम राज्य विघ्ने ।
माता यवीयस्य् अतिशन्कनीया ।
दैव अभिपन्ना हि वदन्ति अनिष्टम् ।
जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥

द्विचत्वारिंशः सर्गः ॥२-४२॥[सम्पाद्यताम्]

यावत् तु निर्यतः तस्य रजो रूपम् अदृश्यत ।
न एव इक्ष्वाकु वरः तावत् सम्जहार आत्म चक्षुषी ॥२-४२-१॥

यावद् राजा प्रियम् पुत्रम् पश्यति अत्यन्त धार्मिकम् ।
तावद् व्यवर्धत इव अस्य धरण्याम् पुत्र दर्शने ॥२-४२-२॥

न पश्यति रजो अपि अस्य यदा रामस्य भूमिपः ।
तदा आर्तः च विषण्णः च पपात धरणी तले ॥२-४२-३॥

तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अन्गना ।
वामम् च अस्य अन्वगात् पार्श्वम् कैकेयी भरत प्रिया ॥२-४२-४॥

ताम् नयेन च सम्पन्नो धर्मेण निवयेन च ।
उवाच राजा कैकेयीम् समीक्ष्य व्यथित इन्द्रियः ॥२-४२-५॥

कैकेयि मा मम अन्गानि स्प्राक्षीस् त्वम् दुष्ट चारिणी ।
न हि त्वाम् द्रष्टुम् इच्चामि न भार्या न च बान्धवी ॥२-४२-६॥

ये च त्वाम् उपजीवन्ति न अहम् तेषाम् न ते मम ।
केवल अर्थ पराम् हि त्वाम् त्यक्त धर्माम् त्यजाम्य् अहम् ॥२-४२-७॥

अगृह्णाम् यच् च ते पाणिम् अग्निम् पर्यणयम् च यत् ।
अनुजानामि तत् सर्वम् अस्मिम्ल् लोके परत्र च ॥२-४२-८॥

भरतः चेत् प्रतीतः स्यात् राज्यम् प्राप्य इदम् अव्ययम् ।
यन् मे स दद्यात् पित्र् अर्थम् मा मा तत् दत्तम् आगमत् ॥२-४२-९॥

अथ रेणु समुध्वस्तम् तम् उत्थाप्य नर अधिपम् ।
न्यवर्तत तदा देवी कौसल्या शोक कर्शिता ॥२-४२-१०॥

हत्वा इव ब्राह्मणम् कामात् स्पृष्ट्वा अग्निम् इव पाणिना ।
अन्वतप्यत धर्म आत्मा पुत्रम् सम्चिन्त्य तापसम् ॥२-४२-११॥

निवृत्य एव निवृत्य एव सीदतः रथ वर्त्मसु ।
राज्ञो न अतिबभौ रूपम् ग्रस्तस्य अम्शुमतः यथा ॥२-४२-१२॥

विललाप च दुह्ख आर्तः प्रियम् पुत्रम् अनुस्मरन् ।
नगर अन्तम् अनुप्राप्तम् बुद्ध्वा पुत्रम् अथ अब्रवीत् ॥२-४२-१३॥

वाहनानाम् च मुख्यानाम् वहताम् तम् मम आत्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥

स नूनम् क्वचित् एव अद्य वृक्ष मूलम् उपाश्रितः ।
काष्ठम् वा यदि वा अश्मानम् उपधाय शयिष्यते ॥२-४२-१५॥
उत्थास्यति च मेदिन्याः कृपणः पाम्शु गुण्ठितः ।
विनिह्श्वसन् प्रस्रवणात् करेणूनाम् इव ऋषभः ॥२-४२-१६॥

उत्थास्यति च मेदिन्याः कृपणः पाम्सुगुण्ठितः ।
विनिःस्वसन् प्रस्रवणात्क रेणूनामि वर्ष्भः ॥२-४२-१७॥

द्रक्ष्यन्ति नूनम् पुरुषा दीघ बाहुम् वने चराः ।
रामम् उत्थाय गच्चन्तम् लोक नाथम् अनाथवत् ॥२-४२-१८॥

सकामा भव कैकेयि विधवा राज्यम् आवस ।
कण्टकाक्रमण क्लान्तावनमद्य गमिष्यति ॥२-४२-१९॥

अनभिज्ञा वनानाम् सा नूनम् भयमुपैष्यति ।
श्वापदान्र्धितम् श्रुत्वा गमिभीरम् रोमहर्ष्णम् ॥२-४२-२०॥

सकामा भवकैकेयि विधवा राज्य मावस ।
न हि तम् पुरुष व्याघ्रम् विना जीवितुम् उत्सहे ॥२-४२-२१॥

इति एवम् विलपन् राजा जन ओघेन अभिसम्वृतः ।
अपस्नातैव अरिष्टम् प्रविवेश पुर उत्तमम् ॥२-४२-२२॥

शून्य चत्वर वेश्म अन्ताम् सम्वृत आपण देवताम् ।
क्लान्त दुर्बल दुह्ख आर्ताम् न अत्याकीर्ण महा पथाम् ।
ताम् अवेक्ष्य पुरीम् सर्वाम् रामम् एव अनुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहम् सूर्यैव अम्बुदम् ॥२-४२-२३॥

महा ह्रदम् इव अक्षोभ्यम् सुपर्णेन हृत उरगम् ।
रामेण रहितम् वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२४॥

अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।
उवाच मृदुमन्धार्थम् वचनम् दीन मस्वरम् ॥२-४२-२५॥

कौसल्याया गृहम् शीघ्रम् राम मातुर् नयन्तु माम् ।
इति ब्रुवन्तम् राजानम् अनयन् द्वार दर्शितः ॥२-४२-२६॥

इति ब्रुवन्तम् राजान मनयन् द्वार्दर्शिनः ।
कौसल्याया गृहम् तत्र न्यवेश्यत विनीतवत् ॥२-४२-२७॥

ततः तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्य अपि शयनम् बभूव लुलितम् मनः ॥२-४२-२८॥

पुत्रद्वयविहीनम् च स्नुषयापि विवर्जितम् ।
अपश्यद्भवनम् राजा नष्टचन्ध्रमिवाम्बरम् ॥२-४२-२९॥

तच् च दृष्ट्वा महा राजो भुजम् उद्यम्य वीर्यवान् ।
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥२-४२-३०॥

सुखिता बत तम् कालम् जीविष्यन्ति नर उत्तमाः ।
परिष्वजन्तः ये रामम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-४२-३१॥

अथ रात्र्याम् प्रपन्नायाम् कालरात्र्यामिआत्मनः ।
अर्धरात्रे दशरथह् कौसल्यामिदमब्रवीत् ॥२-४२-३२॥

रामम् मेऽनुगता दृष्टिरद्यापि न निवर्तते ।
न त्वाम् पश्यामि कौसल्ये साधु माम् पाणिना स्पृश ॥२-४२-३३॥

तम् रामम् एव अनुविचिन्तयन्तम् ।
समीक्ष्य देवी शयने नर इन्द्रम् ।
उप उपविश्य अधिकम् आर्त रूपाउप ।
विनिह्श्वसन्ती विललाप कृच्च्रम् ॥२-४२-३४॥

द्वितीयः सर्गः ॥२-२॥[सम्पाद्यताम्]


ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥२-२-१॥

दुन्धुभिस्वनकल्पेन गम्भीरेणानुनादिना ।
स्वरेण महता राजा जीमूत इव नादयन् ॥२-२-२॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च ।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥२-२-३॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
पूर्वकैर्मम राजेन्द्रैस्सुतवत् परिपालितम् ॥२-२-४॥

सोऽहमिक्ष्ह्वाकुभिः सर्वैर्नरेन्द्रैः परिपालितम् ।
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥२-२-५॥

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता ।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥२-२-६॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पाण्दुरस्यातपत्रस्य च्छायायां जरितं मया ॥२-२-७॥

प्राप्य वर्षसहस्राणि बहू न्यायूंषि जीवतः ।
जीर्णस्यास्य शरीरस्य विश्रान्ति मभिरोचये ॥२-२-८॥

राजप्रभावजुष्टाम् हि दुर्वहामजितेन्द्रियैः ।
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥२-२-९॥

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
सन्निकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥२-२-१०॥

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥२-२-११॥

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥२-२-१२॥

अनुरूपः स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥२-२-१३॥

अनेन श्रेयसा सद्यः सम्योज्यैवमिमां महीम् ।
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥२-२-१४॥

यदीदम् मेऽनुरूपार्धं मया साधु सुमन्त्रितम् ।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥२-२-१५॥

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिन्त्यताम् ।
अन्या मद्यस्थचिन्ता हि विमर्दाभ्यधिकोदया ॥२-२-१६॥

इति बृवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम् ।
वृष्तिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥२-२-१७॥

स्निग्धोऽनुनादी सम्जजञे तत्र हर्षसमीरितः ।
जनौघोद्घुष्टसन्नादो विमानं कम्पयन्निव ॥२-२-१८॥

तस्य धर्मार्थविदुषो भावमाजञाय सर्वशः ।
ब्राह्मणा जनमुख्याश्च पौरजानपदैः सह ॥२-२-१९॥

समेत्य मन्त्रयित्वा तु समतागतबुद्धयः ।
ऊचुश्च मनसा जञात्वा वृद्धं दशरथं नृपम् ॥२-२-२०॥

अनेकवर्षसाहस्रो वृद्धस्त्त्वमसि पार्थिव ।
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२-२-२१॥

इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महता यान्तं रामं छत्रावृताननम् ॥२-२-२२॥

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
अजानन्निव जिजञासुरिदं वचनमब्रवीत् ॥२-२-२३॥

श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥२-२-२४॥

कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम् ॥२-२-२५॥

ते तमूचुर्महात्मानं पौरजानपदैः सह ।
बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते ॥२-२-२६॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः ।
प्रियानानन्ददान् कृत्स्नान् प्रवक्ष्यामोऽद्यतान् शृणु ॥२-२-२७॥

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः ।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥२-२-२८॥

रामः सत्पुरुषो लोके सत्यधर्मपरायणः ।
साक्ष्हाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥२-२-२९॥

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्ष्हमागुणैः ।
बुध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥२-२-३०॥

धर्मजजञः सत्यसन्धश्च शीलवाननसूयकः ।
क्षान्तः सान्त्वयिता श्लक्ष्ह्णः कृतजञो विजितेन्द्रियः ॥२-२-३१॥

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।
प्रियवादी च भूतानाम् सत्यवादी च राघवः ॥२-२-३२॥

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।
तेना स्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥२-२-३३॥

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।
सम्यग्विद्याव्रतस्नातो यथवत्साङ्गवेदवित् ॥२-२-३४॥

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।
कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥२-२-३५॥

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥२-२-३६॥

गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ।
संग्रामात्पुनरागम्य कुङ्जरेण रथेन वा ॥२-२-३७॥

पौरान् स्वजनवन्नित्यम् कुशलं परिपृच्छति ।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥२-२-३८॥

निखिलेनानुपूर्व्याच्च पिता पुत्रानिवौरसान् ।
शुश्रूषन्ते च वः शिष्याः कचित्कर्मसु दंशिताः ॥२-२-३९॥

इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते ।
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥२-२-४०॥

उत्सवेषु च सर्वेषु पितेव परितुष्यति ।
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥२-२-४१॥

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥२-२-४२॥

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।
सुभ्रूरायतताम्राक्ष्हस्साक्ष्हाद्विष्णुरिव स्वयम् ॥२-२-४३॥

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।
प्रजापालनतत्त्वजञो न रागोपहतेन्द्रियः ॥२-२-४४॥

शक्तस्त्रैलोक्यमप्येको भोक्तुं किं नु महीमिमाम् ।
नाऽस्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥२-२-४५॥

हन्त्येव नियमाद्वध्यानवध्ये च न कुप्यति ।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥२-२-४६॥

शान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम् ।
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥२-२-४७॥

तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ।
लोकपालोपमं नाथमकामयत मेदिनी ॥२-२-४८॥

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघव ।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥२-२-४९॥

बलमारोग्यमायुश्च रामस्य विदितात्मनः ।
देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥२-२-५०॥

आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा ।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥२-२-५१॥

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ।
सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ॥२-२-५२॥

तेषामायाचितं देव त्वत्प्रसादा त्समृद्ध्यताम् ।
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम् ॥२-२-५३॥

पश्यामो यौवराज्यस्थं तव राजोत्तमाऽअत्मजम् ।
तं देवदेवोपममात्मजं ते ।
सर्वस्य लोकस्य हिते निविष्टम् ।
हिताय नः क्ष्हिप्रमुदारजुष्टं ।
मुदाभिषेक्तुम् वरद त्व मर्हसि ॥२-२-५४॥

द्विपञ्चाशः सर्गः ॥२-५२॥[सम्पाद्यताम्]

प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः ।
उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥

भास्कर उदय कालो अयम् गता भगवती निशा ।
असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥

बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने ।
तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥

विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः ।
गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥

स तु रामस्य वचनम् निशम्य प्रतिगृह्य च ।
स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥

अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् ।
सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥

तम् निशम्य समादेशम् गुहामात्यगणो महान् ।
उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥

ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् ।
उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥

तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् ।
नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥

अथोवाच महातेजा रामो गुहमिदम् वचः ।
कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥

ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ ।
जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥

रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् ।
किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥

ततोऽब्रवीद्दाशरथिः सुमन्त्रम् ।
स्पृशन् करेणोत्तमदक्षिणेन ।
सुमन्त्र शीघ्रम् पुनरेव याहि ।
राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥

निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम ।
रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥

आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः ।
सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥

न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् ।
तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥

न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः ।
मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥

सह राघव वैदेह्या भ्रात्रा चैव वने वसन् ।
त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥

वयम् खलु हता राम ये तया अपि उपवन्चिताः ।
कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥

इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा ।
दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥

ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् ।
रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥

इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये ।
यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥

शोक उपहत चेताः च वृद्धः च जगती पतिः ।
काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥

यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः ।
कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥

एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः ।
यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥

यद्यथा स महा राजो न अलीकम् अधिगच्चति ।
न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥

अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् ।
ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥

न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली ।
अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥

चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः ।
लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥

एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे ।
अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥
आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् ।
सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥

ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय ।
आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥

भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च ।
अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥

भरतः च अपि वक्तव्यो यथा राजनि वर्तसे ।
तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥

यथा च तव कैकेयी सुमित्रा च अविशेषतः ।
तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥

तातस्य प्रियकामेन यौवराज्यमपेक्षता ।
लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥

निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः ।
तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥

यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः ।
भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥

कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् ।
तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥

सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः ।
विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥

दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् ।
सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥

दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् ।
चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥

दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने ।
प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥

आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने ।
रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥

अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया ।
नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥

असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् ।
कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥

मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः ।
कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥

तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ ।
वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥

यदि मे याचमानस्य त्यागम् एव करिष्यसि ।
सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥

भविष्यन्ति वने यानि तपो विघ्न कराणि ते ।
रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥

तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् ।
आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥

प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः ।
प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥

इमे चापि हया वीर यदि ते वनवासिनः ।
परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥

तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् ।
अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥

न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना ।
राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥

वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः ।
यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥

चतुर् दश हि वर्षाणि सहितस्य त्वया वने ।
क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥

भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि ।
भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥

एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः ।
रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥

जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल ।
शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥

नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी ।
कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥

परितुष्टा हि सा देवि वन वासम् गते मयि ।
राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥

एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी ।
भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥

मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज ।
सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥

इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः ।
गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥

नेदानीम् गुह योग्योऽयम् वसो मे सजने वने ।
अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥

सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् ।
हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥
जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय ।

तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥
लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः ।

दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥
तौ तदा चीर वसनौ जटा मण्डल धारिणौ ।
अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥

ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः ।
व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥

अप्रमत्तः बले कोशे दुर्गे जन पदे तथा ।
भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥

ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः ।
जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥

स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः ।
तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥

आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः ।
सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥

स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् ।
आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥

अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः ।
ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥

राघवोऽपि महातेजा नावमारुह्य ताम् ततः ।
ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥

आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया ।
प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥

अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् ।
आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥

ततः तैः चोदिता सा नौः कर्ण धार समाहिता ।
शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥

मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता ।
वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥

पुत्रः दशरथस्य अयम् महा राजस्य धीमतः ।
निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥
चतुर् दश हि वर्षाणि समग्राणि उष्य कानने ।
भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥
ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता ।
यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥

त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे ।
भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥

सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने ।
प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥
गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् ।
ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥

सुराघटसहस्रेण माम्सभूतोदनेन च ।
यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥

यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि ।
तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥

पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः ।
अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥

तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता ।
दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥

तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः ।
प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥

अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् ।
भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥

अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने ।
अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥

पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् ।
अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥

न हि तावदतिक्रान्ता सुकरा काचन क्रिया ।
अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥

प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् ।
विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥

श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः ।
अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥

गतम् तु गन्गा पर पारम् आशु ।
रामम् सुमन्त्रः प्रततम् निरीक्ष्य ।
अध्व प्रकर्षात् विनिवृत्त दृष्टिर् ।
र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥

स लोकपालप्रतिमप्रभाववाम् ।
स्तीर्त्वा महात्मा वरदो महानदीम् ।
ततः समृद्धान् शुभसस्यमालिनः ।
क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥

तौ तत्र हत्वा चतुरः महा मृगान् ।
वराहम् ऋश्यम् पृषतम् महा रुरुम् ।
आदाय मेध्यम् त्वरितम् बुभुक्षितौ।
वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥

द्विषष्ठितमः सर्गः ॥२-६२॥[सम्पाद्यताम्]

एवम् तु क्रुद्धया राजा राम मात्रा सशोकया ।
श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥

चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः ।
अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥

स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् ।
कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् ।
यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥

अमनाः तेन शोकेन राम शोकेन च प्रभुः ।
द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥

दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः ।
वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥

प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः ।
वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥

भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा ।
धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥

सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर ।
न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥

तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् ।
कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥

स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् ।
सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥

प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते ।
याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥

न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता ।
उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥

जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् ।
पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥

शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् ।
शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥

शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः ।
सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥

दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः ।
यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥

वन वासाय रामस्य पन्च रात्रः अद्य गण्यते ।
यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥

तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते ।
अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥

एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः ।
मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥

तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः ।
शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥

द्विसप्ततितमः सर्गः ॥२-७२॥[सम्पाद्यताम्]

अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये ।
जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥

अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् ।
उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥

स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् ।
भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥

सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।
अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥

अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः ।
अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥

आर्यकः ते सुकुशलो युधा जिन् मातुलः तव ।
प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥

एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः ।
आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥

अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः ।
अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥

यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः ।
परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥

राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः ।
यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥

शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः ।
न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥

राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने ।
तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥

पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः ।
आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥

तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् ।
अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥

या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः ।
राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥

तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः ।
पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥

हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् ।
निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥

ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः ।
विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥

एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा ।
शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥

तत् इदम् न विभाति अद्य विहीनम् तेन धीमता ।
व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥

बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः ।
आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥

तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि ।
निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः ।
उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥

उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः ।
त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा ।
बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥

स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च ।
जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥

अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति ।
इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥

तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम ।
पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥

अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते ।
धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥

न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् ।
उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥

क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः ।
येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥

यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः ।
तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥

पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः ।
तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः ।
आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥

पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः ।
इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥

राम इति राजा विलपन् हा सीते लक्ष्मण इति च ।
स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥

इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव ।
काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥

सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह ।
लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥

तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् ।
विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥

क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः ।
लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥

तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे ।
माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥

स हि राज सुतः पुत्र चीर वासा महा वनम् ।
दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥

तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया ।
स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥

कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् ।
कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥

कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते ।
कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥

अथ अस्य चपला माता तत् स्व कर्म यथा तथम् ।
तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥

एवमुक्ता तु कैकेयी भरतेन महात्मना ।
उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥

न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् ।
कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति ।

मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
याचितः ते पिता राज्यम् रामस्य च विवासनम् ।

स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
रामः च सह सौमित्रिः प्रेषितः सह सीतया ।

तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् ।

त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् ।

मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
त्वदधीना हि नगरी राज्यम् चैतदनामयम् ।

तत् पुत्र शीघ्रम् विधिना विधिज्ञैः ।
वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः ।
सम्काल्य राजानम् अदीन सत्त्वम् ।
आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥

द्व्यशीतितमः सर्गः ॥२-८२॥[सम्पाद्यताम्]

ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् ।
ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥

आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा ।
अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥

सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा ।
अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥

राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।
इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥

तात राजा दशरथः स्वर् गतः धर्मम् आचरन् ।
धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥

रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् ।
न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥

पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् ।
तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥

उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः ।
कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥

तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः ।
जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥

स बाष्प कलया वाचा कल हम्स स्वरः युवा ।
विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥

चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।
धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥

कथम् दशरथाज् जातः भवेद् राज्य अपहारकः ।
राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥

ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः ।
लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥

अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि ।
इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥

यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये ।
इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥

रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः ।
त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥

तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः ।
हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥

यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् ।
वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥

सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् ।
समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥

विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः ।
प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥

एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः ।
समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥

तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् ।
यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥

एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना ।
हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥

ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च ।
श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥

ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे ।
यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥

ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः ।
सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥

सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ ।
रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥

भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः ।
रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥

स राघवः सत्य धृतिः प्रतापवान् ।
ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः ।
गुरुम् महा अरण्य गतम् यशस्विनम् ।
प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥

तूण समुत्थाय सुमन्त्र गच्च ।
बलस्य योगाय बल प्रधानान् ।
आनेतुम् इच्चामि हि तम् वनस्थम् ।
प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥

स सूत पुत्रः भरतेन सम्यग् ।
आज्ञापितः सम्परिपूर्ण कामः ।
शशास सर्वान् प्रकृति प्रधानान् ।
बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥

ततः समुत्थाय कुले कुले ते ।
राजन्य वैश्या वृषलाः च विप्राः ।
अयूयुजन्न् उष्ट्र रथान् खरामः च।
नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥

नवमः सर्गः ॥२-९॥[सम्पाद्यताम्]

एवमुक्ता तु कैकेयी कोपेन ज्वलितानना ।
दीर्घमुष्टम् विनिःश्वस्य मन्थरामिदम् अब्रवीत् ॥२-९-१॥

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् ।
यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥२-९-२॥

इदं त्विदानीं संपश्य केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्राज्यं न तु रामः कथंचन॥२-९-३॥

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥२-९-४॥

हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे ।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥२-९-५॥

किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे ।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥२-९-६॥

मयोच्यमानं यदि ते श्रोतुं च्छ्न्दो विलासिनि ।
श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥२-९-७॥

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयि ।
किंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत् ॥२-९-८॥

कथय त्वं ममोपायं केनोपायेन मन्थरे ।
भरतः प्राप्नुयाद्रज्यं न तु रामः कथंचन ॥२-९-९॥

एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत् ॥२-९-१०॥

तव दैवासुरे युद्धे सहराजर्षिभिः पतिः ।
अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥२-९-११॥
दिशमास्थाय वै देवि दक्षिणां दण्डकान् प्रति ।
वैजयन्तमिति क्यातं पुरं यत्र तिमिध्वजः ॥२-९-१२॥

स शम्बर इति ख्यातः शतमायो महासुरः ।
ददौ शक्रस्य संग्रामं देवसङिघैरनिर्जितः ॥२-९-१३॥

तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान् ।
रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसासाद्य राक्षसाः ॥२-९-१४॥

तत्राकरोन्महायुद्धं राजा दशरथ स्तदा ।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥२-९-१५॥

अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः ।
तत्रपि विक्षतः शस्रैः पतिस्ते रक्षितस्त्वया ॥२-९-१६॥

तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ।
सत्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ ॥२-९-१७॥
गृह्णीयामिति तत्तन तधेत्युक्तं महात्मना ।

अनभिज्ञा ह्यहं देवि त्वयैव कथिता पुरा ॥२-९-१८॥
कथैषा तव तु स्नेहान्मनसा धार्यते मया ।
रामाभिषेकसंभारान्निगृह्य विनिवर्तय ॥२-९-१९॥

तौ वरौ याच भर्तारं भरतस्याभिषेचनम् ।
प्रव्राजनं तु रामस्य त्वं वर्षाणि चतुर्दश ॥२-९-२०॥

चतुर्दश हि वर्षाणिरामे प्रव्राजिते वनम् ।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥२-९-२१॥

क्रोधागारं प्रविश्याद्य कृद्द्धेवाश्वपतेः सुते ।
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥२-९-२२॥

मास्मैनं प्रत्युदीक्षेथा माचैन मभिभाषथाः ।
रुदन्ती चापि तं दृष्ट्वा जगत्यां शोकलालसा ॥२-९-२३॥

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।
त्वत्कृते स महाराजो विशेदपि हुताशनम् ॥२-९-२४॥

न त्वां क्रोधयितुं शक्तोन क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा हि प्राणानपि परित्यजेत् ॥२-९-२५॥

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।
मन्दस्वभावे बुद्ध्यस्व सौभाग्यबलमात्मनः ॥२-९-२६॥

मणिमुक्तं सुवर्णानि रत्नानि विविधानि च ।
दद्याद्धशरथो राजा मा स्म तेषु मनः कृथाः ॥२-९-२७॥

यौ तौ दैवासुरे युद्धे वरौ द्शरथोऽददात् ।
तौ स्मारय महाभागे सोऽर्थो मात्वामतिक्रमेत् ॥२-९-२८॥

यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः ।
व्यवस्थाप्य महाराजं तमिमं वृणुया वरम् ॥२-९-२९॥

रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।
भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥२-९-३०॥

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वन्म् ।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥२-९-३१॥

रामप्रव्राजनं चैव देवि याचस्व तं वरम् ।
एवं सिद्ध्यन्ति पुत्रस्य सर्वार्थास्तव भामिनि ॥२-९-३२॥

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति ।
भरतश्च हतामित्रस्तव राजा भविष्यति ॥२-९-३३॥

येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ॥२-९-३४॥
सुगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ।

प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥२-९-३५॥
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय ।

अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥२-९-३६॥
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत् ।

सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ।
कैकेयी विस्मयं प्राप्ता परं परमदर्शना ॥२-९-३७॥

कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ह्ठभिधायिनीम् ।
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिर्णये ॥२-९-३८॥

त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥२-९-३९॥
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम् ।

सन्ति दुःसंस्थिताः कुब्जा वक्राः परमदारुणाः ॥२-९-४०॥
त्वं पद्ममिव वातेन सन्नता प्रियदर्शना ।

उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात्समुन्नतम् ॥२-९-४१॥
अधस्ताच्चोदरं शातं सुनाभमिव लज्जितम् ।

परिपूर्णं तु जघनं सुपीनौ च पयोधरौ ॥२-९-४२॥
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे ।

जघनं तव निर्घुष्टं रशनादामशोभितम् ॥२-९-४३॥
जङघे भ्^इशमुपन्यस्ते पादौ चाप्यायतावुभौ ।

त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ।
अग्रतो मम गच्छन्ती राजहंसेव भाससे॥२-९-४४॥

आसन्याः शम्बरे मायाः सहस्रमसुराधिपे ॥२-९-४५॥
सर्वास्त्वयि निविष्टास्ता भूयश्चान्याः सहस्रशः ।

तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम् ॥२-९-४६॥
मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते ।

अत्रते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥२-९-४७॥
अभिषिक्ते च भरते राघवे च वनं गते ।

जात्येन च सुवर्णेन सुविष्टप्तेन मन्थरे ॥२-९-४८॥
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु ।

मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥२-९-४९॥
कारयिष्यामि ते कुब्जे शुभान्यभरणानि च।

परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥२-९-५०॥
चंद्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्यांगर्वयन्ती द्विषज्जने ॥२-९-५१॥

तवापि कुब्जायाः सर्वाभरणभूषिताः ।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥२-९-५२॥

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।
शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥२-९-५३॥

गतोदके सेतुबन्दो न कल्याणि विधीयते ।
उत्तिष्ठ कुरु कल्याणं राजानमसुदर्शय॥२-९-५४॥

तथा प्रोत्साहिता देवी गता मन्थरया सह ।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥२-९-५५॥
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना ।
अवमुच्य वराराणि शुभान्याभरणानि च ॥२-९-५६॥
ततो हेमोपमा तत्र कुब्जावाक्यवशंगता ।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥२-९-५७॥

इह वा मां मृतां कुब्जे णृपायावेदयिष्यसि ।
वनं तु राघवे प्राप्तेभरतः प्राप्स्यति क्षितिम्॥२-९-५८॥

न सुवर्णेन मे ह्यर्थो न रत्नैर्न च भूषणैः ।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥२-९-५९॥

अथो पुनस्तां महिषीं महीक्षितो ।
वचोभिरत्यर्थ महापराक्रमैः ।
उवाच कुब्जा भरतस्य मातरं ।
हितं वचो राममुपेत्य चाहितम् ॥२-९-६०॥

प्रपत्स्यते राज्यमिदं हि राघवो ।
यदि ध्रुवं त्वं स सुता च तप्स्यसे ।
अतो हि कल्याणि यतस्व तत्तथा ।
यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥२-९-६१॥

तथातिविद्धा महिषि तु कुब्जया ।
समाहता वागिषुभिर्मुहुर्मुहुः ।
विधाय हस्तौ हृदयेऽतिविस्मिता ।
श्शंस कुब्जां कुपिता पुनः पुनः ॥२-९-६२॥

यमस्य वा मां विषयं गतामितो ।
निशाम्य कुब्जे प्रतिवेदयिष्यसि ।
वनं गते वा सुचिराय राघवे ।
समृद्धकामो भरतो भविष्यति ॥२-९-६३॥

अहं हि वै नास्तरणानि न स्रजो ।
न चन्दनं नाञ्जनपानभोजनम् ।
न किंचिदिच्छामि न चेह जीवितं ।
न चेदितो गच्छति राघवो वनम् ॥२-९-६४॥

अथैतदुक्त्वा वचनं सुदारुणं ।
न्धाय सर्वाभरणानि भामिनी ।
असंवृतामास्तरणेन मेदिनीं ।
तदाधिशिश्ये पतितेव किन्नरी ॥२-९-६५॥

उदीर्णसंरम्भतमोवृतानना ।
तदावमुक्तोत्तममूल्यभूषणा ।
नरेन्द्रपत्नी विमना बभूव सा ।
तमोवृता द्यौरिव मग्नतारका ॥२-९-६६॥

पञ्चचत्वारिंशः सर्गः ॥२-४५॥[सम्पाद्यताम्]

अनुरक्ता महात्मानम् रामम् सत्य परक्रमम् ।
अनुजग्मुः प्रयान्तम् तम् वन वासाय मानवाः ॥२-४५-१॥

निवर्तिते अपि च बलात् सुहृद् वर्गे च राजिनि ।
न एव ते सम्न्यवर्तन्त रामस्य अनुगता रथम् ॥२-४५-२॥

अयोध्या निलयानाम् हि पुरुषाणाम् महा यशाः ।
बभूव गुण सम्पन्नः पूर्ण चन्द्रैव प्रियः ॥२-४५-३॥

स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस् तदा ।
कुर्वाणः पितरम् सत्यम् वनम् एव अन्वपद्यत ॥२-४५-४॥

अवेक्षमाणः सस्नेहम् चक्षुषा प्रपिबन्न् इव ।
उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजाइव ॥२-४५-५॥

या प्रीतिर् बहुमानः च मय्य् अयोध्या निवासिनाम् ।
मत् प्रिय अर्थम् विशेषेण भरते सा निवेश्यताम् ॥२-४५-६॥

स हि कल्याण चारित्रः कैकेय्या आनन्द वर्धनः ।
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥२-४५-७॥

ज्ञान वृद्धो वयो बालो मृदुर् वीर्य गुण अन्वितः ।
अनुरूपः स वो भर्ता भविष्यति भय अपहः ॥२-४५-८॥

स हि राज गुणैः युक्तः युव राजः समीक्षितः ।
अपि च अपि मया शिष्टैः कार्यम् वो भर्तृ शासनम् ॥२-४५-९॥

न च तप्येद् यथा च असौ वन वासम् गते मयि ।
महा राजः तथा कार्यो मम प्रिय चिकीर्षया ॥२-४५-१०॥

यथा यथा दाशरथिर् धर्मम् एव आस्थितः अभवत् ।
तथा तथा प्रकृतयो रामम् पतिम् अकामयन् ॥२-४५-११॥

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह ।
चकर्ष इव गुणैः बद्ध्वा जनम् पुनर् इव आसनम् ॥२-४५-१२॥

ते द्विजाः त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा ।
वयः प्रकम्प शिरसो दूरात् ऊचुर् इदम् वचः ॥२-४५-१३॥

वहन्तः जवना रामम् भो भो जात्याः तुरम् गमाः ।
निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि ॥२-४५-१४॥

कर्णवन्ति हि भूतानि विशेषण तुरम्गमाः ।
यूयम् तस्मान्निवर्तध्वम् याचनाम् प्रतिवेदिताः ॥२-४५-१५॥

धर्मतः स विशुद्धात्मा वीरः शुभदृढप्रतह् ।
उपवाह्यः तु वो भर्ता न अपवाह्यः पुरात् वनम् ॥२-४५-१६॥

एवम् आर्त प्रलापाम्स् तान् वृद्धान् प्रलपतः द्विजान् ।
अवेक्ष्य सहसा रामः रथात् अवततार ह ॥२-४५-१७॥

पद्भ्याम् एव जगाम अथ ससीतः सह लक्ष्मणः ।
सम्निकृष्ट पद न्यासो रामः वन परायणः ॥२-४५-१८॥

द्विजातीम्स् तु पदातीम्स् तान् रामः चारित्र वत्सलः ।
न शशाक घृणा चक्षुः परिमोक्तुम् रथेन सः ॥२-४५-१९॥

गच्चन्तम् एव तम् दृष्ट्वा रामम् सम्भ्रान्त मानसाः ।
ऊचुः परम सम्तप्ता रामम् वाक्यम् इदम् द्विजाः ॥२-४५-२०॥

ब्राह्मण्यम् कृत्स्नम् एतत् त्वाम् ब्रह्मण्यम् अनुगच्चति ।
द्विज स्कन्ध अधिरूढाः त्वाम् अग्नयो अपि अनुयान्ति अमी ॥२-४५-२१॥

वाजपेय समुत्थानि चत्राणि एतानि पश्य नः ।
पृष्ठतः अनुप्रयातानि हम्सान् इव जल अत्यये ॥२-४५-२२॥

अनवाप्त आतपत्रस्य रश्मि सम्तापितस्य ते ।
एभिः चायाम् करिष्यामः स्वैः चत्रैः वाजपेयिकैः ॥२-४५-२३॥

या हि नः सततम् बुद्धिर् वेद मन्त्र अनुसारिणी ।
त्वत् कृते सा कृता वत्स वन वास अनुसारिणी ॥२-४५-२४॥

हृदयेष्व् अवतिष्ठन्ते वेदा ये नः परम् धनम् ।
वत्स्यन्ति अपि गृहेष्व् एव दाराः चारित्र रक्षिताः ॥२-४५-२५॥

न पुनर् निश्चयः कार्यः त्वद् गतौ सुकृता मतिः ।
त्वयि धर्म व्यपेक्षे तु किम् स्यात् धर्मम् अवेक्षितुम् ॥२-४५-२६॥

याचितः नो निवर्तस्व हम्स शुक्ल शिरः रुहैः ।
शिरोभिर् निभृत आचार मही पतन पाम्शुलैः ॥२-४५-२७॥

बहूनाम् वितता यज्ञा द्विजानाम् यैह आगताः ।
तेषाम् समाप्तिर् आयत्ता तव वत्स निवर्तने ॥२-४५-२८॥

भक्तिमन्ति हि भूतानि जम्गम अजम्गमानि च ।
याचमानेषु तेषु त्वम् भक्तिम् भक्तेषु दर्शय ॥२-४५-२९॥

अनुगम्तुम् अशक्ताः त्वाम् मूलैः उद्धिऋत वेगिभिः ।
उन्नता वायु वेगेन विक्रोशन्ति इव पादपाः ॥२-४५-३०॥

निश्चेष्ट आहार सम्चारा वृक्ष एक स्थान विष्ठिताः ।
पक्षिणो अपि प्रयाचन्ते सर्व भूत अनुकम्पिनम् ॥२-४५-३१॥

एवम् विक्रोशताम् तेषाम् द्विजातीनाम् निवर्तने ।
ददृशे तमसा तत्र वारयन्ति इव राघवम् ॥२-४५-३२॥

ततः सुमन्त्रोऽपि रथाद्विमुच्य ।
श्रान्तान्हयान्सम्परिवर्त्य श्रीघ्राम् ।
पीतोदकाम्स्तोयपरिप्लुताङ्गा ।
नचारयद्वै तमसाविदूरे ॥२-४५-३३॥

पञ्चत्रिंशः सर्गः ॥२-३५॥[सम्पाद्यताम्]

ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् ।
पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥
लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् ।
कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥
मनः समीक्षमाणश्च सूतो दशरथस्य सः ।
कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः ।
कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥

यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् ।
भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥
न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते ।

पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥
यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् ।
महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥

मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् ।
भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥

यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ।
इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥

राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् ।
वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥

न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति ।
तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥

नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् ।
त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥
का प्रीती राज्यलाभेन तव देवि भविष्यति ।
तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥

आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् ।
आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥

महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना ।
धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥

आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः ।
यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥

अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च ।
न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥

तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् ।
पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥२-३५-१८॥
सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः ।
तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥

ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा ।
पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥

तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती ।
हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥

नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि ।
ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥

माता ते पितरम् देवि ततह् केकयमब्रवीत् ।
शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥

प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः ।
तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥

ततः स वरदह् साधु राजानम् प्रत्यभाषत ।
म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥

स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ।
मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥

तथा त्वमपि राजानम् दुर्जनाचरिते पथि ।
असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥

सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा ।
पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥

नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः ।
भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥

मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् ।
भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥

न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः ।
श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥

ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥

परिवादो हि ते देवि महान्लोके चरिष्यति ।
यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥

स राज्यम् राघवः पातु भवत्वम् विगतज्वरा ।
न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥

रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥

इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि ।
सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥

नैवसाक्षुभ्यते देवी न च स्म परिदूयते ।
न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥

पञ्चदशः सर्गः ॥२-१५॥[सम्पाद्यताम्]

ते तु ताम् रजनीम् उष्य ब्राह्मणा वेद पारगाः ।
उपतस्थुर् उपस्थानम् सह राज पुरोहिताः ॥२-१५-१॥

अमात्या बल मुख्याः च मुख्या ये निगमस्य च ।
राघवस्य अभिषेक अर्थे प्रीयमाणाः तु सम्गताः ॥२-१५-२॥

उदिते विमले सूर्ये पुष्ये च अभ्यागते अहनि ।
अभिषेकाय रामस्य द्विज इन्द्रैः उपकल्पितम् ॥२-१५-३॥
कान्चना जल कुम्भाः च भद्र पीठम् स्वलम्क्Rतम् ।

काञ्चना जलकुमाभश्च भद्रपीठं स्वलङ्कृतम् ॥२-१५-४॥
रथश्च सम्यगा स्तीर्णोभास्वता व्याग्रचर्मणा ।

गङ्गायमुनयोः पुण्यात्सङ्गमादाहृतं जलम् ॥२-१५-५॥
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च ।
प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहा स्समाहिताः ॥२-१५-६॥
ताभ्यश्चैवाहृतं तो यं समुद्रेभ्यश्च सर्वशः ।

सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥२-१५-७॥
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा ।

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥२-१५-८॥
वेश्याश्चैव शुभाचाराः सर्वाभरणभूषिताः ।

चन्द्रांशुविकचप्रख्यं काञ्चनं रत्नभुषितम् ॥२-१५-९॥
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम् ।

चन्द्रमण्डलसम्काशमातपत्रं च पाण्डुरम् ॥२-१५-१०॥
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम् ।

पाण्डुरश्च वृषः सज्जः पाण्डुरोऽस्वश्च सुस्थितः ॥२-१५-११॥
प्रसृतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते ।

अष्टौ च कन्या माङ्गल्याः सर्वाभरणभूषिताः ॥२-१५-१२॥
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे ।

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम् ॥२-१५-१३॥
तथाजातीयमादाय राजपुत्राभिषेचन्म् ।
ते राजवचनात्तत्र समवेता महीपतिम् ॥२-१५-१४॥
अपश्यन्तोऽब्रुवन् को बु राज्ञोनः प्रतिपादयेत् ।

न पश्यामश्च राजानमुदितश्च दिवाकरः ॥२-१५-१५॥
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः ।

इति तेषु ब्रुवाणेषु सार्वभौमान् महीपतीन् ॥२-१५-१६॥
अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः ।

रामः च सम्यग् आस्तीर्णो भास्वरा व्याघ्र चर्मणा ॥२-१५-१७॥
गन्गा यमुनयोह् पुण्यात् सम्गमात् आह्Rतम् जलम् ।

अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥२-१५-१८॥
राज्ञः संप्रतिबुद्धस्य चानागमनकारणम् ।

इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥२-१५-१९॥
सदासक्तं च तद्वेश्म सुमन्त्रः प्रविवेश ह ।

तुष्टावास्य तदा वंशं प्रविश्य स विशां पतेः ॥२-१५-२०॥
शयनीयं नरेन्ध्रस्य तदसाद्य व्यतिष्ठत ।

सोऽत्यासाद्य तु तद्वेश्म तिरस्करिणि मन्त्रा ॥२-१५-२१॥
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम् ।

सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥२-१५-२२॥
वरुणश्चग्निरिन्द्रश्च विजयम् प्रदिशन्तु ते ।

गता भगवती रात्रिरः शिवमुपस्थितम् ॥२-१५-२३॥
बुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ।

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप ॥२-१५-२४॥
दर्शनम् प्रतिकाङ्क्षन्ते प्रतिबुद्ध्यस्व राघव ।

स्तुवन्तं तम् तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥२-१५-२५॥
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत् ।

राममानय सूतेति यदस्यभिहितो/अनया ॥२-१५-२६॥
किमिदं कारणम् येन ममाज्ञा प्रतिहन्यते ।

न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥२-१५-२७॥
इति राजा दशरथः सूतं तत्रान्वशात्पुनः ।

स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥२-१५-२८॥
निर्जगम नृपावासान्मन्यमानः प्रियं महत् ।

प्रसन्नो राजमार्गं च पताकाध्वजशोभितम् ॥२-१५-२९॥
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन् ।

स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥२-१५-३०॥
अभिषेचनसंयुक्तास्सर्वलोकस्य हृष्टवत् ।

ततो ददर्श रुचिरं कैलासशिखरप्रभम् ॥२-१५-३१॥
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम् ।

महाकवाटपिहितं वितर्दिशतशोभितम् ॥२-१५-३२॥
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम् ।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम् ॥२-१५-३३॥
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम् ।
मुक्तामणिभिराकीर्णं चन्धनागुरुभूषितम् ॥२-१५-३४॥
गन्धान्मनोज्ञान् विसृजद्धार्दुरं शिखरं यथा ।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥२-१५-३५॥
सुकृतेहामृगाकीर्णं सुकीर्णं भक्तिभिस्तथा ।
मन्श्चक्षुश्च भूतानामाददत्तिग्मतेजसा ॥२-१५-३६॥
चन्द्रभास्करसंकाशम् कुबेरभवनोपमम् ।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥२-१५-३७॥
मेरुशृङ्गसमम् सूतो रामवेश्म ददर्श ह ।
उपस्थितैः समाकीर्णम् जनैरञ्जलिकारिभिः ॥२-१५-३८॥
उपादाय समाक्रान्तैस्तथा जानपदैर्जनैः ।
रामाभिषेकसुमुखैरुन्मुखैः समलम्कृतम् ॥२-१५-३९॥
महामेघसमप्रख्यमुदग्रं सुविभूषितम् ।
नानारत्नसमाकीर्णं कुब्जकैरातकावृतम् ॥२-१५-४०॥

स वाजियुक्तेन रथेन सारथि ।
र्नराकुलं राजकुलम् विराजयन् ।
वरूथिना रामगृहाभिपातिना ।
पुरस्य सर्वस्य मनांसि हर्शयन् ॥२-१५-४१॥

ततस्समासाद्य महाधनं महत् ।
प्रहृष्टरोमा स बभूव सारथिः ।
मृगैर्मयूरैश्च समाकुलोल्बणं ।
गृहं वरार्हस्य शचीपतेरिव ॥२-१५-४२॥

स तत्र कैलासनिभाः स्वलंकृताः ।
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः ।
प्रियान् वरान् राममते स्थितान् बहून् ।
व्यपोह्य शुद्धांतमुपस्थितो रथी ॥२-१५-४३॥

स तत्र शुश्राव च हर्षयुक्ता ।
रामाभिषेकार्थकृता जनानां ।
नरेम्द्रसूनोरभिमंगLआर्थाः ।
सर्वस्य लोकस्य गिरः प्रहृष्टः ॥२-१५-४४॥

महेंद्रसद्मप्रतिमं तु वेश्म ।
रामस्य रम्यं मृगमुच्चं ।
विभ्राजमानं प्रभया सुमम्त्रः ॥२-१५-४५॥

उपस्थितै रञ्जलिकारिभिश्च ।
सोपायनैर्जानपदैर्जनैश्च ।
कोट्या परार्धैश्च विमुक्तयानैः ।
समाकुलं द्वारपदम् ददर्श ॥२-१५-४६॥

ततो महामेघमहीधराभं ।
प्रभिन्नमत्यङ्कुशमत्यसह्यम् ।
रामोपवाह्याम् रुचिरम् ददर्श ।
शत्रुम्जयं नागमुदग्रकायम् ॥२-१५-४७॥

स्वलंकृतान् सास्वरथान् सकुम्जरा ।
नमात्यमुखयाम्श्च ददर्श वल्लभान् ।
व्यपोह्य सूतः सहितान्समंततः ।
समृद्धमंतःपुर माविवेश ह ॥२-१५-४८॥

ततोऽद्रिकूटाचलमेघसन्नि भं ।
महाविमानोपमवेश्मसंयुतम् ।
अवार्यमाणः प्रविवेश सारथिः ।
प्रभूतरत्नं मकरो यथार्णवम् ॥२-१५-४९॥

पञ्चपञ्चाशः सर्गः ॥२-५५॥[सम्पाद्यताम्]

उषित्वा रजनीम् तत्र राजपुत्रावरिम्दमौ ।
महर्षिमभिवाद्याथ जग्मतुस्तम् गिरिम् प्रति ॥२-५५-१॥

तेषाम् चैव स्वस्त्ययनम् महर्षिः स चकार ह ।
प्रस्थिताम्श्चैव तान् प्रेक्ष्यपिता पुत्रानिवान्वगात् ॥२-५५-२॥

ततः प्रचक्रमे वक्तुम् वचनम् स महामुनिः ।
भर्द्वाजो महातेजा रामम् सत्यपराक्रमम् ॥२-५५-३॥

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ ।
काLइन्दीमनुगच्छेताम् नदीम् पश्चान्मुखाश्रिताम् ॥२-५५-४॥

अथासाद्य तु काLइन्न्धीम् शीघ्रस्रोतसमापगाम् ।
तस्यास्तीर्थम् प्रचरितम् पुराणम् प्रेक्ष्य राघवौ ॥२-५५-५॥
तत्र यूयम् प्लवम् कृत्वा तरताम्शुमतीम् नदीम् ।

ततो न्यग्रोधमासाद्य महान्तम् हरितच्छदम् ॥२-५५-६॥
विवृद्धम् बहुभिर्वऋक्षैह् श्यामम् सिद्धोपसेवितम् ।
तस्मै सीताञ्जलिम् कृत्वा प्रयुञ्जीताशिषः शिवाः ॥२-५५-७॥

समासाद्य तु तम् वृक्षम् वसेद्वातिक्रमेत वा ।
क्रोशमात्रम् ततो गत्वा नीलम् द्रक्ष्यथ काननम् ॥२-५५-८॥
पलाशबदरीमिश्रम् रम्यम् वम्शैश्च यामुनैः ।

स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ॥२-५५-९॥
रम्ये मार्दवयुक्तश्च वनदावैर्विपर्जितः ।

इति पन्थानमावेद्य महर्षः स न्यवर्तत ॥२-५५-१०॥
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ।

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत् ॥२-५५-११॥
कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते ।

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ ॥२-५५-१२॥
सीतामेवाग्रतः कृत्वा काLइन्दीम् जग्मतुर्नदीम् ।

अथा साद्य तु काLइन्दीम् शीघ्रस्रोतोवहाम् नदीम् ॥२-५५-१३॥
तौ काष्ठसम्घातमथो चक्रतुस्तु महाप्लवम् ॥२-५५-१४॥
शुष्कैर्वम्शैः समास्तीर्णमुLईरैश्च समावृतम् ।

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् ॥२-५५-१५॥
चकार लक्ष्मणश्छित्वा सीतायाः सुखमासनम् ।

तत्र श्रियमिवाचिन्त्याम् रामो दाशरथिः प्रियाम् ॥२-५५-१६॥
ईष्त्सन्कह्हनाबान् तानग्तारिओअतत् प्लवम् ।

पार्श्वे च तत्र वैदेह्या वसने चूष्णानि च ॥२-५५-१७॥
प्लवे कठिनकाजम् च रामश्चक्रे सहायुधैः ।

आरोप्य प्रथमम् सीताम् सम्घाटम् प्रतिगृह्य तौ ॥२-५५-१८॥
ततः प्रतेरतुर्य त्तौ वीरौ दशरथात्मजौ ।

काLइन्दीमध्यमायाता सीता त्वेनामवन्दत ॥२-५५-१९॥
स्वस्ति देवि तरामि त्वाम् पार्येन्मे पतिर्वतम् ।
यक्ष्ये त्वाम् गोनहस्रेण सुराघटशतेन च ॥२-५५-२०॥
स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ।

काLइन्दीमथ सीता तु याचमाना कृताञ्जलिः ॥२-५५-२१॥
तीरमेवाभिसम्प्राप्ता दक्षिणम् वरवर्णिनी ।

ततः प्लवेनाम्शुमतीम् शीघ्रगामूर्मिमालिनीम् ॥२-५५-२२॥
तीरजैर्बहुभिर्वृक्षैः सम्तेरुर्यमुनाम् नदीम् ।

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् ॥२-५५-२३॥
श्यामम् न्यग्रोधमासेदुः शीतलम् हरितच्छदम् ।

न्य्ग्रोधम् तमुपागम्य वैदेहि वाक्यमब्रवीत् ॥२-५५-२४॥
नमस्तेऽन्तु महावृक्ष पारयेन्मे पतिर्वतम् ।
कौसल्याम् चैव पश्येयम् सुमित्राम् च यशस्विनीम् ॥२-५५-२५॥
इति सीताञ्जलिम् कृत्वा पर्यगच्छद्वनस्पतिम् ।

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥२-५५-२६॥
दयिताम् च विधेयम् च रामो लक्ष्मणमब्रवीत् ।

सीतामादाय गच्छ त्वमग्रतो भरतानुज ॥२-५५-२७॥
पृष्ठतोऽहम् गमिष्यामि सायुधो द्विपदाम् वर ।

यद्यत्फलम् प्रार्थयते पुष्पम् वा जनकात्मजा ॥२-५५-२८॥
तत्तत्प्रदद्या वैदेह्या यत्रास्य रमते मनः ।

गच्चतोस्तु तयोर्मध्ये बभूव जनकात्मजा ॥२-५५-२९॥
मातङ्गयोर्मद्यगता शुभा नागवधूरिव ।

एकैकम् पादपम् गुल्मम् लताम् वा पुष्पशालिनीम् ॥२-५५-३०॥
अदृष्टपूर्वाम् पश्यन्ती रामम् पप्रच्छ साऽबला ।

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान् ॥२-५५-३१॥
सीतावचनसम्रब्द अनयामास लक्स्मणः ।

विचित्रवालुकजलाम् हससारसनादिताम् ॥२-५५-३२॥
रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम् ।

क्रोशमात्रम् ततो गत्वा भ्रातरौ रामलक्ष्मनौ ॥२-५५-३३॥
बहून्मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने ।

विहृत्य ते बर्हिणपूगनादिते ।
शुभे वने वानरवारणायुते ।
समम् नदीवप्रमुपेत्य सम्मतम् ।
निवासमाजग्मु रदीनदर्शनाः ॥२-५५-३४॥

पञ्चमः सर्गः ॥२-५॥[सम्पाद्यताम्]

सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥२-५-१॥

गच्छोपवासं काकुत्थ्सं कारयाद्य तपोधन ।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२-५-२॥

तथेति च स राजानमुक्त्वा वेदविदां वरः ।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥२-५-३॥

उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।
ब्राह्मं रथवरं युक्तमास्थाय सुदृधव्रतः ॥२-५-४॥

स रामभवनं प्रप्य पाण्डुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या र्थेनैव विवेश मुनिसत्तमः ॥२-५-५॥

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥२-५-६॥

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥२-५-७॥

सचैनं प्रश्रितं दृष्ट्वा सं भाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥२-५-८॥

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।
उपवासं भवानद्य करोतु सह सीतया ॥२-५-९॥

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥२-५-१०॥

इत्युक्त्वा स तदा राम मुपवासं यतव्रतम् ।
मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥२-५-११॥

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
अभ्यनुज्ञाप्य काकुत्थ्सं ययौ रामनिवेशनात् ॥२-५-१२॥

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥२-५-१३॥

हृष्टनारीनरयुतं रामवेश्म तदा बबौ ।
यथा मत्तद्विजगणं प्रपुल्लनलिनं सरः ॥२-५-१४॥

स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥२-५-१५॥

बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।
बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥२-५-१६॥

जनबृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥२-५-१७॥

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।
आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥२-५-१८॥

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।
रामाभिषेकमाकाञ्क्षन्नाकाण्क्षदुदयं रवेः ॥२-५-१९॥

प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥२-५-२०॥

एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥२-५-२१॥

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥२-५-२२॥

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥२-५-२३॥

तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥२-५-२४॥

गुरुणा त्वभ्यनुज्ञातो मनिजौघं विसृज्य तम् ।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥२-५-२५॥

तमग्र्यवेष्प्रमदाजनाकुलं ।
महेन्द्रवेश्मप्रतिमं निवेशनम् ।
विदीपयंश्चारु विवेश पार्थिवः ।
शशीव तारागणसंकुलं नभः ॥२-५-२६॥

पञ्चविंशः सर्गः ॥२-२५॥[सम्पाद्यताम्]

सा अपनीय तम् आयासम् उपस्पृश्य जलम् शुचि ।
चकार माता रामस्य मन्गलानि मनस्विनी ॥२-२५-१॥

न शक्यसे वारयौइतुम् गच्छेदानीम् रघुत्तम ।
श्रीघ्रम् च विनिवर्तस्व वर्तस्व च सताम् क्रमे ॥२-२५-२॥

यम् पालयसि धर्मम् त्वम् धृत्या च नियमेन च ।
सवै राघवशार्दुल! धर्मस्त्वामभिरक्षतु ॥२-२५-३॥

येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥२-२५-४॥

यानि दत्तानि तेऽ स्त्राणि विश्वामित्रेण धीमता ।
तानि त्वामभिरक्षन्तु गुणैस्समुदितम् सदा ॥२-२५-५॥

पितृशुश्रुषया पुत्र मातृशु श्रूषया तथा ।
सत्येन च महाबाहो चिरम् जीवाभिरक्षितः ॥२-२५-६॥

समित्कुशपवित्राणि वेद्यश्चायतनानि च ।
स्थण्ढिलानि विचित्राणि शैला वृक्षाः कुशुफा ह्रदाः ॥२-२५-७॥
पतङ्गाः पन्नगाः सिम्हास्त्वाम् रक्षन्तु नरोत्तम ।

स्वस्ति साध्याः च विश्वे च मरुतः च महर्षयः ॥२-२५-८॥
स्वस्ति धाता विधाता च स्वस्ति पूषा भगो अर्यमा ।
ऋतवः चैव पक्षाः च मासाः सम्वत्सराः क्षपाः ॥२-२५-९॥

ऋतवश्चैव पक्षाश्च मासास्सम्वत्सराः क्षपाः ।
दिनानि च मुहूर्ताः च स्वस्ति कुर्वन्तु ते सदा ॥२-२५-१०॥

स्मृतिर् धृतिः च धर्मः च पान्तु त्वाम् पुत्र सर्वतः ।
स्कन्दः च भगवान् देवः सोमः च सबृहस्पतिः ॥२-२५-११॥
सप्त ऋषयो नारदः च ते त्वाम् रक्षन्तु सर्वतः ।

याश्चापि सर्वतः सिद्दा दिश्श्च सदिगीश्वराः ॥२-२५-१२॥
स्तुता मया वने तस्मिन् पान्तुत्वाम् पुत्र नित्यशः ।

शैलाः सर्वे समुद्राश्च राजा वरुण एव च ॥२-२५-१३॥
द्यौरन्तरिक्षम् पृथिवी नद्यस्सर्वास्तथैव च ।
नक्षत्राणि च सर्वाणि ग्रहाः च सहदेवताः ॥२-२५-१४॥
अहोरात्रे तथा सन्ध्ये पान्तु त्वाम् वनमाश्रितम् ।

ऋतवश्चैव ष्ट्पुण्या मासाः सम्वत्सरास्तथा ॥२-२५-१५॥
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ।

महा वनानि चरतः मुनि वेषस्य धीमतः ॥२-२५-१६॥
तवादित्याश्च दैत्याश्च भवन्तु सुखदाः सदा ।

राक्षसानाम् पिशाचानाम् रौद्राणाम् क्रूरकर्मणाम् ॥२-२५-१७॥
क्रव्यादानाम् च सर्वेषम् माभूत्पुत्रक ते भयम् ।

प्लवगा वृश्चिका दम्शा मशकाः चैव कानने ॥२-२५-१८॥
सरी सृपाः च कीटाः च मा भूवन् गहने तव ।

महा द्विपाः च सिम्हाः च व्याघ्राऋक्षाः च दम्ष्ट्रिणः ॥२-२५-१९॥
महिषाः शृन्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ।

नृ माम्स भोजना रौद्रा ये च अन्ये सत्त्व जातयः ॥२-२५-२०॥
मा च त्वाम् हिम्सिषुः पुत्र मया सम्पूजिताः तु इह ।

आगमाः ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥२-२५-२१॥
सर्व सम्पत्तयो राम स्वस्तिमान् गच्च पुत्रक ।

स्वस्ति ते अस्तु आन्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः ॥२-२५-२२॥
सर्वेभ्यः चैव देवेभ्यो ये च ते परिपन्थिनः ।

गुरुः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२-२५-२३॥
पान्तु त्वामर्चिता राम! दण्डकारण्यवासिनम् ।

अग्निर्वायुस्तथा धूमोमन्त्राश्चर्षिमुखाच्च्युताः ॥२-२५-२४॥
उपस्पर्शनकाले तु पान्तु त्वाम् रघुन्ददन ।

सर्व लोक प्रभुर् ब्रह्मा भूत भर्ता तथा ऋषयः ॥२-२५-२५॥
ये च शेषाः सुराः ते त्वाम् रक्षन्तु वन वासिनम् ।

इति माल्यैः सुर गणान् गन्धैः च अपि यशस्विनी ॥२-२५-२६॥
स्तुतिभिः च अनुरूपाभिर् आनर्च आयत लोचना ।

ज्वलनम् समुपादाय ब्राह्मणेन महात्मना ॥२-२५-२७॥
हावयामास विधिना राममङ्गलकारणात् ।

घृतम् श्वेतानि माल्यानि समिधः श्वेतसर्षपान् ॥२-२५-२८॥
उपसम्पादयामास कौसल्या पमाङ्गना ।

उपाध्यायः स विधिना हुत्व शान्तिमनामयम् ॥२-२५-२९॥
हुतहव्यावशेषेण बाह्यम् बलिमकल्पयत् ।

मधुदद्यक्षतघृतैः स्वस्तिवाच्य द्विजाम् स्ततः ॥२-२५-३०॥
वाचयामास रामस्य वने स्वस्त्ययनक्रियाः ।

ततस्तन्मै द्विजेन्द्राय राममाता यशस्विनी ॥२-२५-३१॥
दक्षिणाम् प्रददौ काम्याम् राघवम् चेदमब्रवीत् ।

यन् मन्गलम् सहस्र अक्षे सर्व देव नमः कृते ॥२-२५-३२॥
वृत्र नाशे समभवत् तत् ते भवतु मन्गलम् ।

यन् मन्गलम् सुपर्णस्य विनता अकल्पयत् पुरा ॥२-२५-३३॥
अमृतम् प्रार्थयानस्य तत् ते भवतु मन्गलम् ।

अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत् ॥२-२५-३४॥
अदितिर्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।

तीन्विक्रमान् प्रकमतो विष्णोरमिततेजसः ॥२-२५-३५॥
यदासीन्मङ्गLअम् प्रादात् तत्ते भवतु मङ्गLअम् ।

ऋतवः सागरा द्वीपा वेदा लोका दिश्श्चते ॥२-२५-३६॥
मम्गLआनि महाबाहो दिशन्तु शुभवङ्गLआः ।

इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी ॥२-२५-३७॥
गन्दाम्श्चापि समालभ्य राममायतलो चना ।
ओषधीम् च अपि सिद्ध अर्थाम् विशल्य करणीम् शुभाम् ॥२-२५-३८॥
चकार रक्षाम् कौसल्या मन्त्रैः अभिजजाप च ।

उवाचातिप्रहृष्टेव सा दुःखवशर्तिनी ॥२-२५-३९॥
वाङ्मात्रेण न भावेन वाचा सम्सज्जमानया ।

आनम्य मूर्ध्नि च आघ्राय परिष्वज्य यशस्विनी ॥२-२५-४०॥
अवदत् पुत्र सिद्ध अर्थो गच्च राम यथा सुखम् ।

अरोगम् सर्व सिद्ध अर्थम् अयोध्याम् पुनर् आगतम् ॥२-२५-४१॥
पश्यामि त्वाम् सुखम् वत्स सुस्थितम् राज वेश्मनि ।

प्रणष्टकुःखसम्कल्पा हर्षविद्योतितानना ॥२-२५-४२॥
द्रक्ष्यामि त्वाम् वनात्र्पाप्तम् पूर्णचन्द्रमिवोदितम् ।

भद्रासनगतम् राम वनवासादिहागतम् ॥२-२५-४३॥
द्रक्षामि च पुनस्त्वाम् तु तीर्णवन्तम् पितुर्वचः ।

मङ्गशैरुपसम्पन्नो वनवासादिहागतः ॥२-२५-४४॥
पध्वा मम च नित्यम् त्वम् कामान् सम्वर्ध याहि भोः ।

मया अर्चिता देव गणाः शिव आदयो ।
महर्षयो भूत महा असुर उरगाः ।
अभिप्रयातस्य वनम् चिराय ते।
हितानि कान्क्षन्तु दिशः च राघव ॥२-२५-४५॥

इति इव च अश्रु प्रतिपूर्ण लोचना।
समाप्य च स्वस्त्ययनम् यथा विधि ।
प्रदक्षिणम् चैव चकार राघवम् ।
पुनः पुनः च अपि निपीड्य सस्वजे ॥२-२५-४६॥

तथा तु देव्या स कृत प्रदक्षिणो ।
निपीड्य मातुः चरणौ पुनः पुनः ।
जगाम सीता निलयम् महा यशाः ।
स राघवः प्रज्वलितः स्वया श्रिया ॥२-२५-४७॥

पञ्चषष्ठितमः सर्गः ॥२-६५॥[सम्पाद्यताम्]

अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि ।
वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः ।
गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥

राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥

ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः ।
अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः ।
शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥

व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः ।
आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥

ततः शुचि समाचाराः पर्युपस्थान कोविदः ।
स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥

हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः ।
आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥

मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् ।
उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥

सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् ।
सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥

ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥

अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः ।
ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥

तथाप्युचितवृत्तास्ता विनयेन नयेन च ।
न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥

ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु ।
ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे ।

अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः ।

कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते ।

निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
न व्यराजत कौसल्या तारेव तिमिरावृता ।

कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
न स्म विभ्राजते देवी शोकाश्रुलुलितानना ।

ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत ।

ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः ।

तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः ।

कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले ।

सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता ।

नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव ।

ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः ।

ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् ।

तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् ।
सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः ।

अतीतम् आज्ञाय तु पार्थिव ऋषभम् ।
यशस्विनम् सम्परिवार्य पत्नयः ।
भृशम् रुदन्त्यः करुणम् सुदुह्खिताः ।
प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥

पञ्चसप्ततितमः सर्गः ॥२-७५॥[सम्पाद्यताम्]

दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् ।
नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् ।

राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः ।
विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥

वनवासम् न जानामि रामस्यहम् महात्मनः ।
विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥

तथैव क्रोशतः तस्य भरतस्य महात्मनः ।
कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥

आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः ।
तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥

एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा ।
प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥

स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा ।
प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥

ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ ।
पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् ।

भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् ।
सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥

प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् ।
कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥

क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति ।
हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥

अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् ।
अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥

कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि ।
यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥

इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् ।
हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः ।
विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः ।
विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥

एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा ।
कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥

आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् ।
विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥

कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन ।
सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥

प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु ।
हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥

कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् ।
अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ।
ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥

बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः ।
अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥

सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् ।
ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥

हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले ।
मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥

उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता ।
स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥

मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् ।
द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥

पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः ।
गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥

गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् ।
मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥

विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् ।
विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥

अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः ।
लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥

पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः ।
स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् ।
अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥

मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः ।
आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥

राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते ।
भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥

लाक्षया मधुमाम्सेन लोहेन च विषेण च ।
सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥

सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे ।
पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥

कपालपाणिः पृथिवीमटताम् चीरसम्वृतः ।
भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥

पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः ।
काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥

यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् ।
अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥

सम्चितान्यस्य वित्तानि विविधानि सहस्रशः ।
दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥

उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते ।
तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥

यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे ।
मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥

देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च ।
मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥

सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा ।
भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः ।
स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥

आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् ।
आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥

मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः ।
राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥

ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् ।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥

धर्मदारान् परित्यज्य परदारान्नि षेवताम् ।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥

विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् ।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥

पानीयदूषके पापम् तथैव विषदायके ।
यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥

ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः ।
बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥

तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् ।
लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः ।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥

विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः ।
एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥

तथा तु शपथैः कष्टैः शपमानम् अचेतनम् ।
भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥

मम दुह्खम् इदम् पुत्र भूयः समुपजायते ।
शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥

दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः ।
वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥

इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् ।
परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥

एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः ।
मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥

लालप्यमानस्य विचेतनस्य ।
प्रनष्ट बुद्धेः पतितस्य भूमौ ।
मुहुर् मुहुर् निह्श्वसतः च दीर्घम् ।
सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥

पञ्चाशः सर्गः ॥२-५०॥[सम्पाद्यताम्]

विशालान् कोसलान् रम्यान् यात्वा लक्ष्मण पूर्वजः ।
अयोध्याभिमुखो धीमान् प्राञ्ञ्लिर्वाक्वमब्रवीत् ॥२-५०-१॥

आपृच्छे त्वाम् पुरीश्रेष्ठे काकुत्स्थपरिपालिते ।
दैवतानि च यानि त्वाम् पालयन्त्यावसन्ति च ॥२-५०-२॥

निवृत्तवनवासस्त्वामनृणो जगतीपतेः ।
पुनर्ध्रक्ष्यामि मात्रा च पित्रा च सह सम्गतः ॥२-५०-३॥

ततो रुधिरताम्राक्षो भुजमुद्यम्य दक्षिणम् ।
अश्रुपूर्णमुखो दीनोऽब्रवीज्जानपदम् जनम् ॥२-५०-४॥

अनुक्रोशो दया चैव यथार्हम् मयि वह् कृतः ।
चिरम् दुःखस्य पापीयो गम्यतामर्थसिद्धये ॥२-५०-५॥

तेऽभिवाद्य महात्मानम् कृत्वा चापि प्रदक्षिणम् ।
विलपन्तो नरा घोरम् व्यतिष्ठन्त क्वचित् क्वचित् ॥२-५०-६॥

तथा विलपताम् तेषामतृप्तानाम् च राघवः ।
अचक्षुरिषयम् प्रायाद्यथार्कः क्षणदामुखे ॥२-५०-७॥

ततो धान्यधनोपेतान् दानशीलजनान् शिवान् ।
अकुतश्चिद्भयान् रम्याम् श्चैत्ययूपसमावृतान् ॥२-५०-८॥
उद्यानाम्रवनोपेतान् सम्पन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान् गोकुलाकुलसेवितान् ॥२-५०-९॥
लक्षणीयान्न रेम्द्राणाम् ब्रह्मघोषाभिनादितान् ।
रथेन पुरुषव्याघ्रः कोसलानत्यवर्तत ॥२-५०-१०॥

मध्येन मुदितम् स्फीतम् रम्योद्यानसमाकुलम् ।
राज्यम् भोग्यम् नरेन्द्राणाम् ययौ धृतिमताम् वरः ॥२-५०-११॥

तत्र त्रिपथगाम् दिव्याम् शिव तोयाम् अशैवलाम् ।
ददर्श राघवो गन्गाम् पुण्याम् ऋषि निसेविताम् ॥२-५०-१२॥

आश्रमैरविदूर्स्थैः श्रीमद्भिः समलम् कृताम् ।
कालेऽप्सरोभिर्हृष्टाभिः सेविताम्भोह्रदाम् शिवाम् ॥२-५०-१३॥

देवदानवगन्धर्वैः किन्नरैरुपशोभिताम् ।
नागगन्धर्वपत्नीभिः सेविताम् सततम् शिवाम् ॥२-५०-१४॥

देवाक्रीडशताकीर्णाम् देवोद्यानशतायुताम् ।
देवार्थमाकाशगमाम् विख्याताम् देवपद्मिनीम् ॥२-५०-१५॥

जलघाताट्टहासोग्राम् फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलाम् क्वचिदावर्तशोभिताम् ॥२-५०-१६॥

क्वचित्स्तिमितगम्भीराम् क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गम्भीरनिर्घोषाम् क्वचिद्भैरवनिस्वनाम् ॥२-५०-१७॥

देवसम्घाप्लुतजलाम् निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनाम् क्वचिन्नर्मलवालुकाम् ॥२-५०-१८॥

हम्स सरस सम्घुष्टाम् चक्र वाक उपकूजिताम् ।
सदामदैश्च विहगैरभिसम्नादिताम् तराम् ॥२-५०-१९॥

क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम् ।
क्वचित्फुल्लोत्पलच्छन्नाम् क्वचित्पद्मवनाकुलाम् ॥२-५०-२०॥

क्वचित्कुमुदष्ण्डैश्च कुड्मलैरुपशोभिताम् ।
नानापुष्परजोध्वस्ताम् समदामिव च क्वचित् ॥२-५०-२१॥

व्यपेतमलसम्घाताम् मणिनिर्मलदर्शनाम् ।
दिशागजैर्वनगजैर्मत्तैश्च वरवारणैः ॥२-५०-२२॥
देवोपवाह्यश्च मुहुः सम्नादितवनान्तराम् ।

प्रमदामिव यत्ने न भूषिताम् भूषणोत्तमैः ॥२-५०-२३॥
फलैः पुष्पैः किसलयैर्वऋताम् गुल्मैद्द्विजैस्तथा ।
शिम्शुमरैः च नक्रैः च भुजम्गैः च निषेविताम् ॥२-५०-२४॥

विष्णुपादच्युताम् दिव्यामपापाम् पापनाशिनीम् ।
ताम् शङ्करजटाजूटाद्भ्रष्टाम् सागरतेजसा ॥२-५०-२५॥
समुद्रमहीषीम् गङ्गाम् सारसक्रौञ्चनादिताम् ।
आससाद महाबाहुः शृङ्गिबेरपुरम् प्रति ॥२-५०-२६॥

ताम् ऊर्मि कलिल आवर्ताम् अन्ववेक्ष्य महा रथः ।
सुमन्त्रम् अब्रवीत् सूतम् इह एव अद्य वसामहे ॥२-५०-२७॥

अविदूरात् अयम् नद्या बहु पुष्प प्रवालवान् ।
सुमहान् इन्गुदी वृक्षो वसामः अत्र एव सारथे ॥२-५०-२८॥

द्रक्ष्यामः सरिताम् श्रेष्ठाम् सम्मान्यसलिलाम् शिवाम् ।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥२-५०-२९॥

लक्षणः च सुमन्त्रः च बाढम् इति एव राघवम् ।
उक्त्वा तम् इन्गुदी वृक्षम् तदा उपययतुर् हयैः ॥२-५०-३०॥

रामः अभियाय तम् रम्यम् वृक्षम् इक्ष्वाकु नन्दनः ।
रथात् अवातरत् तस्मात् सभार्यः सह लक्ष्मणः ॥२-५०-३१॥

सुमन्त्रः अपि अवतीर्य एव मोचयित्वा हय उत्तमान् ।
वृक्ष मूल गतम् रामम् उपतस्थे कृत अन्जलिः ॥२-५०-३२॥

तत्र राजा गुहो नाम रामस्य आत्म समः सखा ।
निषाद जात्यो बलवान् स्थपतिः च इति विश्रुतः ॥२-५०-३३॥

स श्रुत्वा पुरुष व्याघ्रम् रामम् विषयम् आगतम् ।
वृद्धैः परिवृतः अमात्यैः ज्ञातिभिः च अपि उपागतः ॥२-५०-३४॥

ततः निषाद अधिपतिम् दृष्ट्वा दूरात् अवस्थितम् ।
सह सौमित्रिणा रामः समागच्चद् गुहेन सः ॥२-५०-३५॥

तम् आर्तः सम्परिष्वज्य गुहो राघवम् अब्रवीत् ।
यथा अयोध्या तथा इदम् ते राम किम् करवाणि ते ॥२-५०-३६॥
ईदृशम् हि महाबाहो कः प्रप्स्यत्यतिथिम् प्रियम् ।

ततः गुणवद् अन्न अद्यम् उपादाय पृथग् विधम् ।
अर्घ्यम् च उपानयत् क्षिप्रम् वाक्यम् च इदम् उवाच ह ॥२-५०-३७॥

स्वागतम् ते महा बाहो तव इयम् अखिला मही ।
वयम् प्रेष्या भवान् भर्ता साधु राज्यम् प्रशाधि नः ॥२-५०-३८॥

भक्ष्यम् भोज्यम् च पेयम् च लेह्यम् च इदम् उपस्थितम् ।
शयनानि च मुख्यानि वाजिनाम् खादनम् च ते ॥२-५०-३९॥

गुहम् एव ब्रुवाणम् तम् राघवः प्रत्युवाच ह ॥२-५०-४०॥
अर्चिताः चैव हृष्टाः च भवता सर्वथा वयम् ।
पद्भ्याम् अभिगमाच् चैव स्नेह सम्दर्शनेन च ॥२-५०-४१॥

भुजाभ्याम् साधु वृत्ताभ्याम् पीडयन् वाक्यम् अब्रवीत् ।
दिष्ट्या त्वाम् गुह पश्यामिअरोगम् सह बान्धवैः ॥२-५०-४२॥
अपि ते कूशलम् राष्ट्रे मित्रेषु च धनेषु च ।

यत् तु इदम् भवता किम्चित् प्रीत्या समुपकल्पितम् ।
सर्वम् तत् अनुजानामि न हि वर्ते प्रतिग्रहे ॥२-५०-४३॥

कुश चीर अजिन धरम् फल मूल अशनम् च माम् ।
विद्धि प्रणिहितम् धर्मे तापसम् वन गोचरम् ॥२-५०-४४॥

अश्वानाम् खादनेन अहम् अर्थी न अन्येन केनचित् ।
एतावता अत्र भवता भविष्यामि सुपूजितः ॥२-५०-४५॥

एते हि दयिता राज्ञः पितुर् दशरथस्य मे ।
एतैः सुविहितैः अश्वैः भविष्याम्य् अहम् अर्चितः ॥२-५०-४६॥

अश्वानाम् प्रतिपानम् च खादनम् चैव सो अन्वशात् ।
गुहः तत्र एव पुरुषाम्स् त्वरितम् दीयताम् इति ॥२-५०-४७॥

ततः चीर उत्तर आसन्गः सम्ध्याम् अन्वास्य पश्चिमाम् ।
जलम् एव आददे भोज्यम् लक्ष्मणेन आहृतम् स्वयम् ॥२-५०-४८॥

तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।
सभार्यस्य ततः अभ्येत्य तस्थौ वृष्कम् उपाश्रितः ॥२-५०-४९॥

गुहो अपि सह सूतेन सौमित्रिम् अनुभाषयन् ।
अन्वजाग्रत् ततः रामम् अप्रमत्तः धनुर् धरः ॥२-५०-५०॥

तथा शयानस्य ततः अस्य धीमतः ।
यशस्विनो दाशरथेर् महात्मनः ।
अदृष्ट दुह्खस्य सुख उचितस्य सा ।
तदा व्यतीयाय चिरेण शर्वरी ॥२-५०-५१॥

पञ्चाशीतितमः सर्गः ॥२-८५॥[सम्पाद्यताम्]

एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् ।
प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥

ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे ।
यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥

इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् ।
अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥

कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह ।
गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥

तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः ।
अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥

दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥

कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः ।
इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥

तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥

मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥

तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् ।
बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥

स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् ।
पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥

धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले ।
अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥

शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।
यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥

एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा ।
बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥

सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥

राम चिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥

अन्तर् दाहेन दहनः सम्तापयति राघवम् ।
वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥

प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः ।
यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥

ध्यान निर्दर शैलेन विनिह्श्वसित धातुना ।
दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना ।
आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥

विनिश्श्वसन्वै भृशदुर्मनास्ततः ।
प्रमूढसम्ज्ञः परमापदम् गतः ।
शमम् न लेभे हृदयज्वरार्दितो ।
नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥

गुहेन सार्धम् भरतः समागतः ।
महा अनुभावः सजनः समाहितः ।
सुदुर्मनाः तम् भरतम् तदा पुनर् ।
गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥

प्रथमः सर्गः ॥२-१॥[सम्पाद्यताम्]

गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥

स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥

सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥

तेषामपि महातेजा रामो रतिकरः पितुः ।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥

स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥

कौसल्या शुशुभे पुत्रेणामिततेजसा ।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥

स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।
भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥

स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥

कथंचिदुपकारेण कृतेनै केन तुष्यति ।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥

शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।
कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।
दीनानुकम्पी धर्मज्Jनो नित्यं प्रग्रहवान् शुचिः ॥२-१-१५॥

कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥

नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥

स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥

सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥

सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥

श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥

धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥

अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥

एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।
संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥

बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥

गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।
तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥

लोकपालोपमं नाथमकामयत मेदिनी ।
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥

दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥

प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥

कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥

मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥

महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥

अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥

शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥

निश्चित्य सचिवैः सार्धं युवराजममन्यत ।
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥

संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥

लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥

प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥

समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥

त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥

ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥

ततः प्रविविशुः शेष राजानो लोकसम्मताः ।
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥

राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।
स लब्धमानैर्विनयान्वितैर्नृपैः ।
पुरालयै र्जानपदैश्च मानवैः ।
उपोपविष्टैर्नृतो बभौ ।
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥

विंशः सर्गः ॥२-२०॥[सम्पाद्यताम्]

तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥

क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।
गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥

कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥

न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।
कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥

अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।
यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥

स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥

रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।
जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥

सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।
उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥

द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।
जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥

प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।
ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥

प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।
स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥

वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।
न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥

कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।
प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥

सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।
अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥

प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।
ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥

देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।
दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।
समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥

ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।
तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥

सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।
अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥

स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।
परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥

तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।
कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥

व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।
प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥

सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।
अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥

दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥

स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥

देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।
इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥

गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।
विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥

भरताय महा राजो यौवराज्यम् प्रयच्चति ।
माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥

स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥

सा निकृत्तैव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥

ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।
रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥

उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।
पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥

सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।
उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥

यदि पुत्र न जायेथा मम शोकाय राघव ।
न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥

एकएव हि वन्ध्यायाः शोको भवति मानवः ।
अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥

न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।
अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥

सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।
अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥

अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।
त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥

त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।
किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥

अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।
परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥

यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥

नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।
कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥

दश सप्त च वर्षाणि तव जातस्य राघव ।
असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥

तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।
विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥

अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥

उपवासैः च योगैः च बहुभिः च परिश्रमैः ।
दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥

स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।
प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥

मम एव नूनम् मरणम् न विद्यते ।
न च अवकाशो अस्ति यम क्षये मम ।
यद् अन्तको अद्य एव न माम् जिहीर्षति ।
प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥

स्थिरम् हि नूनम् हृदयम् मम आयसम् ।
न भिद्यते यद् भुवि न अवदीर्यते ।
अनेन दुःखेन च देहम् अर्पितम् ।
ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥

इदम् तु दुःखम् यद् अनर्थकानि मे।
व्रतानि दानानि च सम्यमाः च हि ।
तपः च तप्तम् यद् अपत्य कारणात् ।
सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥

यदि हि अकाले मरणम् स्वया इच्चया ।
लभेत कश्चित् गुरु दुःख कर्शितः ।
गता अहम् अद्य एव परेत सम्सदम् ।
विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥

अथापि किम् जीवित मद्य मे वृथा ।
त्वया विना च्न्द्रनिभाननप्रभ ।
अनुव्रजिष्यामि वनम् त्वयैव गौः ।
सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥

भृशम् असुखम् अमर्षिता तदा ।
बहु विललाप समीक्ष्य राघवम् ।
व्यसनम् उपनिशाम्य सा महत् ।
सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥

षट्चत्वारिंशः सर्गः ॥२-४६॥[सम्पाद्यताम्]

ततः तु तमसा तीरम् रम्यम् आश्रित्य राघवः ।
सीताम् उद्वीक्ष्य सौमित्रिम् इदम् वचनम् अब्रवीत् ॥२-४६-१॥

इयम् अद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।
वन वासस्य भद्रम् ते स न उत्कण्ठितुम् अर्हसि ॥२-४६-२॥

पश्य शून्यानि अरण्यानि रुदन्ति इव समन्ततः ।
यथा निलयम् आयद्भिर् निलीनानि मृग द्विजैः ॥२-४६-३॥

अद्य अयोध्या तु नगरी राज धानी पितुर् मम ।
सस्त्री पुम्सा गतान् अस्मान् शोचिष्यति न सम्शयः ॥२-४६-४॥

अनुरक्ता हि मनुजा राजानम् बहुभिर्गुणैः ।
त्वाम् च माम् च नरव्याघ्र शत्रघ्नभरतौ तथा ॥२-४६-५॥

पितरम् चानुशोचामि मातरम् च यशस्विनीम् ।
अपि वानौध भवेताम् तु रुदन्तौ तावभीक्ष्णशः ॥२-४६-६॥

भरतः खलु धर्म आत्मा पितरम् मातरम् च मे ।
धर्म अर्थ काम सहितैः वाक्यैः आश्वासयिष्यति ॥२-४६-७॥

भरतस्य आनृशम्सत्वम् सम्चिन्त्य अहम् पुनः पुनः ।
न अनुशोचामि पितरम् मातरम् च अपि लक्ष्मण ॥२-४६-८॥

त्वया कार्यम् नर व्याघ्र माम् अनुव्रजता कृतम् ।
अन्वेष्टव्या हि वैदेह्या रक्षण अर्थे सहायता ॥२-४६-९॥

अद्भिर् एव तु सौमित्रे वत्स्याम्य् अद्य निशाम् इमाम् ।
एतद्द् हि रोचते मह्यम् वन्ये अपि विविधे सति ॥२-४६-१०॥

एवम् उक्त्वा तु सौमित्रम् सुमन्त्रम् अपि राघवः ।
अप्रमत्तः त्वम् अश्वेषु भव सौम्य इति उवाच ह ॥२-४६-११॥

सो अश्वान् सुमन्त्रः सम्यम्य सूर्ये अस्तम् समुपागते ।
प्रभूत यवसान् कृत्वा बभूव प्रत्यनन्तरः ॥२-४६-१२॥

उपास्यतु शिवाम् सम्ध्याम् दृष्ट्वा रात्रिम् उपस्थिताम् ।
रामस्य शयनम् चक्रे सूतः सौमित्रिणा सह ॥२-४६-१३॥

ताम् शय्याम् तमसा तीरे वीक्ष्य वृक्ष दलैः कृताम् ।
रामः सौमित्रिणाम् सार्धम् सभार्यः सम्विवेश ह ॥२-४६-१४॥

सभार्यम् सम्प्रसुप्तम् तम् भ्रातरम् वीक्ष्य लक्ष्मणः ।
कथयाम् आस सूताय रामस्य विविधान् गुणान् ॥२-४६-१५॥

जाग्रतः हि एव ताम् रात्रिम् सौमित्रेर् उदितः रविः ।
सूतस्य तमसा तीरे रामस्य ब्रुवतः गुणान् ॥२-४६-१६॥

गो कुल आकुल तीरायाः तमसायाः विदूरतः ।
अवसत् तत्र ताम् रात्रिम् रामः प्रकृतिभिः सह ॥२-४६-१७॥

उत्थाय तु महा तेजाः प्रकृतीस् ता निशाम्य च ।
अब्रवीद् भ्रातरम् रामः लक्ष्मणम् पुण्य लक्षणम् ॥२-४६-१८॥

अस्मद् व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्व् अपि ।
वृक्ष मूलेषु सम्सुप्तान् पश्य लक्ष्मण साम्प्रतम् ॥२-४६-१९॥

यथा एते नियमम् पौराः कुर्वन्ति अस्मन् निवर्तने ।
अपि प्राणान् असिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥२-४६-२०॥

यावद् एव तु सम्सुप्ताः तावद् एव वयम् लघु ।
रथम् आरुह्य गच्चामः पन्थानम् अकुतः भयम् ॥२-४६-२१॥

अतः भूयो अपि न इदानीम् इक्ष्वाकु पुर वासिनः ।
स्वपेयुर् अनुरक्ता माम् वृष्क मूलानि सम्श्रिताः ॥२-४६-२२॥

पौरा हि आत्म कृतात् दुह्खात् विप्रमोच्या नृप आत्मजैः ।
न तु खल्व् आत्मना योज्या दुह्खेन पुर वासिनः ॥२-४६-२३॥

अब्रवील् लक्ष्मणो रामम् साक्षात् धर्मम् इव स्थितम् ।
रोचते मे महा प्राज्ञ क्षिप्रम् आरुह्यताम् इति ॥२-४६-२४॥

अथ रामोऽब्रवीच्छ्रीमान् सुमन्त्रम् युज्यताम् रथः ।
गमिष्यामि ततोऽरण्यम् गच्छ श्रीघ्रमितः प्रभो ॥२-४६-२५॥

सूतः ततः सम्त्वरितः स्यन्दनम् तैः हय उत्तमैः ।
योजयित्वा अथ रामाय प्रान्जलिः प्रत्यवेदयत् ॥२-४६-२६॥

अयम् युक्तो महाबाहो रथस्ते रथिनाम् वर ।
त्वमारोहस्व भद्रम् ते ससीतः सहलक्ष्मणः ॥२-४६-२७॥

तम् स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।
शीघ्रगामाकुलावर्ताम् तमसामतरन्नदीम् ॥२-४६-२८॥

स सम्तीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
प्रापद्यत महामार्गमभयम् भयदर्शिनाम् ॥२-४६-२९॥

मोहन अर्थम् तु पौराणाम् सूतम् रामः अब्रवीद् वचः ।
उदन् मुखः प्रयाहि त्वम् रथम् आस्थाय सारथे ॥२-४६-३०॥
मुहूर्तम् त्वरितम् गत्वा निर्गतय रथम् पुनः ।
यथा न विद्युः पौरा माम् तथा कुरु समाहितः ॥२-४६-३१॥

रामस्य वचनम् श्रुत्वा तथा चक्रे स सारथिः ।
प्रत्यागम्य च रामस्य स्यन्दनम् प्रत्यवेदयत् ॥२-४६-३२॥

तौ सम्प्रयुक्तम् तु रथम् समासित्थौ ।
तदा ससीतौ रघवम्शवर्धनौ ।
प्रचोदयामास ततस्तुरम्गमान् ।
स सारथिर्येन पथा तपोवनम् ॥२-४६-३३॥

ततः समास्थाय रथम् महारथः
ससारथिर्धाशरथिर्वनम् ययौ ।
उदङ्मुखम् तम् तु रथम् चकार स ।
प्रयाणमाङ्गश्यनिवितदर्शनात् ॥२-४६-३४॥

षट्त्रिंशः सर्गः ॥२-३६॥[सम्पाद्यताम्]

ततः सुमन्त्रम् ऐक्ष्वाकः पीडितः अत्र प्रतिज्ञया ।
सबाष्पम् अतिनिह्श्वस्य जगाद इदम् पुनः पुनः ॥२-३६-१॥

सूत रत्न सुसम्पूर्णा चतुर् विध बला चमूः ।
रागवस्य अनुयात्रा अर्थम् क्षिप्रम् प्रतिविधीयताम् ॥२-३६-२॥

रूप आजीवा च शालिन्यो वणिजः च महा धनाः ।
शोभयन्तु कुमारस्य वाहिनीम् सुप्रसारिताः ॥२-३६-३॥

ये च एनम् उपजीवन्ति रमते यैः च वीर्यतः ।
तेषाम् बहु विधम् दत्त्वा तान् अपि अत्र नियोजय ॥२-३६-४॥

आयुधानि च मुख्यानि नागराः शकटानि च ।
अनुगच्छन्तु काकुत्थ्सम् व्याधाश्चारण्यगोचराः ॥२-३६-५॥

निघ्नन् मृगान् कुन्जरामः च पिबमः च आरण्यकम् मधु ।
नदीः च विविधाः पश्यन् न राज्यम् सम्स्मरिष्यति ॥२-३६-६॥

धान्य कोशः च यः कश्चित् धन कोशः च मामकः ।
तौ रामम् अनुगच्चेताम् वसन्तम् निर्जने वने ॥२-३६-७॥

यजन् पुण्येषु देशेषु विसृजमः च आप्त दक्षिणाः ।
ऋषिभिः च समागम्य प्रवत्स्यति सुखम् वने ॥२-३६-८॥

भरतः च महा बाहुर् अयोध्याम् पालयिष्यति ।
सर्व कामैः पुनः श्रीमान् रामः सम्साध्यताम् इति ॥२-३६-९॥

एवम् ब्रुवति काकुत्स्थे कैकेय्या भयम् आगतम् ।
मुखम् च अपि अगमात् शेषम् स्वरः च अपि न्यरुध्यत ॥२-३६-१०॥

सा विषण्णा च सम्त्रस्ता कैकेयी वाक्यम् अब्रवीत् ।
राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत् ॥२-३६-११॥

राज्यम् गत जनम् साधो पीत मण्डाम् सुराम् इव ।
निरास्वाद्यतमम् शून्यम् भरतः न अभिपत्स्यते ॥२-३६-१२॥

कैकेय्याम् मुक्त लज्जायाम् वदन्त्याम् अतिदारुणम् ।
राजा दशरथो वाक्यम् उवाच आयत लोचनाम् ॥२-३६-१३॥

वहन्तम् किम् तुदसि माम् नियुज्य धुरि मा आहिते ।
अनार्ये कृत्यमार्ब्धम् किम् न पूर्वमुपारुधः ॥२-३६-१४॥

तस्यैतत्क्रोधसम्युक्तमुक्तम् श्रुत्वा वराङ्गना ।
कैकेयी द्वि गुणम् क्रुद्धा राजानम् इदम् अब्रवीत् ॥२-३६-१५॥

तव एव वम्शे सगरः ज्येष्ठम् पुत्रम् उपारुधत् ।
असमन्जैति ख्यातम् तथा अयम् गन्तुम् अर्हति ॥२-३६-१६॥

एवम् उक्तः धिग् इति एव राजा दशरथो अब्रवीत् ।
व्रीडितः च जनः सर्वः सा च तन् न अवबुध्यत ॥२-३६-१७॥

तत्र वृद्धो महा मात्रः सिद्ध अर्थो नाम नामतः ।
शुचिर् बहु मतः राज्ञः कैकेयीम् इदम् अब्रवीत् ॥२-३६-१८॥

असमन्जो गृहीत्वा तु क्रीडितः पथि दारकान् ।
सरय्वाः प्रक्षिपन्न् अप्सु रमते तेन दुर्मतिः ॥२-३६-१९॥

तम् दृष्ट्वा नागरः सर्वे क्रुद्धा राजानम् अब्रुवन् ।
असमन्जम् वृषीण्व एकम् अस्मान् वा राष्ट्र वर्धन ॥२-३६-२०॥

तान् उवाच ततः राजा किम् निमित्तम् इदम् भयम् ।
ताः च अपि राज्ञा सम्पृष्टा वाक्यम् प्रकृतयो अब्रुवन् ॥२-३६-२१॥

क्रीडितः तु एष नः पुत्रान् बालान् उद्भ्रान्त चेतनः ।
सरय्वाम् प्रक्षिपन् मौर्ख्यात् अतुलाम् प्रीतिम् अश्नुते ॥२-३६-२२॥

स तासाम् वचनम् श्रुत्वा प्रकृतीनाम् नर अधिप ।
तम् तत्याज अहितम् पुत्रम् तासाम् प्रिय चिकीर्षया ॥२-३६-२३॥

तम् यानम् श्रीघ्रमारोप्य सभार्यम् सपरिच्छदम् ।
यावज्जीवम् विवास्योऽयमिति स्वानन्वशात् पिता ॥२-३६-२४॥

स फालपिटकम् गृह्य गिरिदुर्गान्यलोडयत् ।
दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत् ॥२-३६-२५॥

इति एवम् अत्यजद् राजा सगरः वै सुधार्मिकः ।
रामः किम् अकरोत् पापम् येन एवम् उपरुध्यते ॥२-३६-२६॥

न हि कम्चन पश्यामो राघवस्यागुणम् वयम् ।
दुर्लभो यस्य निरयः श्शाङ्कस्येव कल्मषम् ॥२-३६-२७॥

अथवा देवि दोषम् त्वं कंचित्पश्यसि राघवे ।
तमद्य ब्रूहि तत्वैन तदा रोमो विवास्यताम् ॥२-३६-२८॥

अदुष्टस्य हि सम्त्यागः सत्पथे निरतस्य च ।
निर्दहे दपि शक्रस्य द्युतिम् धर्मनिरोधनात् ॥२-३६-२९॥

तदलम् देवि रामस्य श्रिया विहतया त्वया ।
लोकतोऽप् हि ते रक्ष्यः परिवादः शुभानने ॥२-३६-३०॥

श्रुत्वा तु सिद्ध अर्थ वचो राजा श्रान्ततर स्वनः ।
शोक उपहतया वाचा कैकेयीम् इदम् अब्रवीत् ॥२-३६-३१॥

एतद्वचो नेच्छ्सि पापवृत्ते ।
हितम् न जानासि ममात्मनो वा ।
आस्थाय मार्गम् कृपणम् कुचेष्टा ।
चेष्टा हि ते साधुपदादपेता ॥२-३६-३२॥

अनुव्रजिष्याम्य् अहम् अद्य रामम् ।
राज्यम् परित्यज्य सुखम् धनम् च ।
सह एव राज्ञा भरतेन च त्वम् ।
यथा सुखम् भुन्क्ष्व चिराय राज्यम् ॥२-३६-३३॥

षट्पञ्चाशः सर्गः ॥२-५६॥[सम्पाद्यताम्]

अथ रात्र्याम् व्यतीतायाम् अवसुप्तम् अनन्तरम् ।
प्रबोधयाम् आस शनैः लक्ष्मणम् रघु नन्दनः ॥२-५६-१॥

सौमित्रे शृणु वन्यानाम् वल्गु व्याहरताम् स्वनम् ।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परम् तप ॥२-५६-२॥

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्राम् च तन्द्रीम् च प्रसक्तम् च पथि श्रमम् ॥२-५६-३॥

ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवम् जलम् ।
पन्थानम् ऋषिणा उद्दिष्टम् चित्र कूटस्य तम् ययुः ॥२-५६-४॥

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।
सीताम् कमल पत्र अक्षीम् इदम् वचनम् अब्रवीत् ॥२-५६-५॥

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।
स्वैः पुष्पैः किम्शुकान् पश्य मालिनः शिशिर अत्यये ॥२-५६-६॥

पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् ।
फल पत्रैः अवनतान् नूनम् शक्ष्यामि जीवितुम् ॥२-५६-७॥

पश्य द्रोण प्रमाणानि लम्बमानानि लक्ष्मण ।
मधूनि मधु कारीभिः सम्भृतानि नगे नगे ॥२-५६-८॥

एष क्रोशति नत्यूहः तम् शिखी प्रतिकूजति ।
रमणीये वन उद्देशे पुष्प सम्स्तर सम्कटे ॥२-५६-९॥

मातम्ग यूथ अनुसृतम् पक्षि सम्घ अनुनादितम् ।
चित्र कूटम् इमम् पश्य प्रवृद्ध शिखरम् गिरिम् ॥२-५६-१०॥

समभूमितले रम्ये द्रुमैर्बहुभिरावृते ।
पुण्ये रम्स्यामहे तात चित्रकूटस्य कानने ॥२-५६-११॥

ततः तौ पाद चारेण गच्चन्तौ सह सीतया ।
रम्यम् आसेदतुः शैलम् चित्र कूटम् मनो रमम् ॥२-५६-१२॥

तम् तु पर्वतम् आसाद्य नाना पक्षि गण आयुतम् ।
बहुमूलफलम् रम्यम् सम्पन्नम् सरसोदकम् ॥२-५६-१३॥

मनोज्Jनोऽयम् तिरिः सौम्य नानाद्रुमलतायतह् ।
बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ॥२-५६-१४॥

मनयश्च महात्मानो वसन्त्य शिलोच्चये ।
अयम् वासो भवेत् तावद् अत्र सौम्य रमेमहि ॥२-५६-१५॥

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः ।
अभिगम्याश्रमम् सर्वे वाल्मीकि मभिवादयन् ॥२-५६-१६॥

तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् ।
आस्यतामिति चोवाच स्वागतम् तु निवेद्य च ॥२-५६-१७॥

ततोऽब्रवीन्महाबाहुर्लकमणम् लक्ष्मणाग्रजः ।
सम्निवेद्य यथान्याय मात्मानमृष्ये प्रभुः ॥२-५६-१८॥

लक्ष्मण आनय दारूणि दृढानि च वराणि च ।
कुरुष्व आवसथम् सौम्य वासे मे अभिरतम् मनः ॥२-५६-१९॥

तस्य तत् वचनम् श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।
आजहार ततः चक्रे पर्ण शालाम् अरिम् दम ॥२-५६-२०॥

ताम् निष्ठताम् बद्धकटाम् दृष्ट्वा रमः सुदर्शनाम् ।
शुश्रूषमाणम् एक अग्रम् इदम् वचनम् अब्रवीत् ॥२-५६-२१॥

ऐणेयम् माम्सम् आहृत्य शालाम् यक्ष्यामहे वयम् ।
कर्त्व्यम् वास्तुशमनम् सौमित्रे चिरजीवभिः ॥२-५६-२२॥

मृगम् हत्वाऽऽनय क्षिप्रम् लक्ष्मणेह शुभेक्षण
कर्तव्यः शास्त्रदृष्टो हि विधिर्दर्ममनुस्मर ॥२-५६-२३॥

भ्रातुर्वचन माज्ञाय लक्ष्मणः परवीरहा ।
चकार स यथोक्तम् च तम् रामः पुनरब्रवीत् ॥२-५६-२४॥

इणेयम् श्रपयस्वैतच्च्चालाम् यक्ष्यमहे वयम् ।
त्वरसौम्य मुहूर्तोऽयम् ध्रुवश्च दिवसोऽप्ययम् ॥२-५६-२५॥

स लक्ष्मणः कृष्ण मृगम् हत्वा मेध्यम् पतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जात वेदसि ॥२-५६-२६॥

तम् तु पक्वम् समाज्ञाय निष्टप्तम् चिन्न शोणितम् ।
लक्ष्मणः पुरुष व्याघ्रम् अथ राघवम् अब्रवीत् ॥२-५६-२७॥

अयम् कृष्णः समाप्त अन्गः शृतः कृष्ण मृगो यथा ।
देवता देव सम्काश यजस्व कुशलो हि असि ॥२-५६-२८॥

रामः स्नात्वा तु नियतः गुणवान् जप्य कोविदः ।
सम्ग्रहेणाकरोत्सर्वान् मन्त्रन् सत्रावसानिकान् ॥२-५६-२९॥

इष्ट्वा देवगणान् सर्वान् विवेशावसथम् शुचिः ।
बभूव च मनोह्लादो रामस्यामिततेजसः ॥२-५६-३०॥

वैश्वदेवबलिम् कृत्वा रौद्रम् वैष्णवमेव च ।
वास्तुसम्शमनीयानि मङ्गLआनि प्रवर्तयन् ॥२-५६-३१॥
जपम् च न्यायतः कृत्वा स्नात्वा नद्याम् यथाविधि ।
पाप सम्शमनम् रामः चकार बलिम् उत्तमम् ॥२-५६-३२॥

वेदिस्थलविधानानि चैत्यान्यायतनानि च ।
आश्रमस्यानुरूपाणि स्थापयामास राघवः ॥२-५६-३३॥

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्माम्सैर्यथाविधि ।
अद्भर्जपैश्च वेदोक्तै र्धर्भैश्च ससमित्कुशैः ॥२-५६-३४॥
तौ तर्पयित्वा भूतानि राघवौ सह सीतया ।
तदा विविशतुः शालाम् सुशुभाम् शुभलक्षणौ ॥२-५६-३५॥

ताम् वृक्ष पर्णच् चदनाम् मनोज्ञाम् ।
यथा प्रदेशम् सुकृताम् निवाताम् ।
वासाय सर्वे विविशुः समेताः ।
सभाम् यथा देव गणाः सुधर्माम् ॥२-५६-३६॥

अनेक नाना मृग पक्षि सम्कुले ।
विचित्र पुष्प स्तबलैः द्रुमैः युते ।
वन उत्तमे व्याल मृग अनुनादिते ।
तथा विजह्रुः सुसुखम् जित इन्द्रियाः ॥२-५६-३७॥

सुरम्यम् आसाद्य तु चित्र कूटम् ।
नदीम् च ताम् माल्यवतीम् सुतीर्थाम् ।
ननन्द हृष्टः मृग पक्षि जुष्टाम् ।
जहौ च दुह्खम् पुर विप्रवासात् ॥२-५६-३८॥

षट्षष्ठितमः सर्गः ॥२-६६॥[सम्पाद्यताम्]

तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् ।
हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता ।
उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥

सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् ।
त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥

विहाय माम् गतः रामः भर्ता च स्वर् गतः मम ।
विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥

भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः ।
इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥

न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् ।
कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥

अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् ।
सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥

स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः ।
रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥

विदेह राजस्य सुता तहा सीता तपस्विनी ।
दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥

नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् ।
निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥

वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् ।
सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥

साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता ।
इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥

ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् ।
व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥

तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् ।
राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥

न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः ।
सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥

तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् ।
हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥

बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः ।
रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥

हा महाराज रामेण सततम् प्रियवादिना ।
विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥

कैकेय्या दुष्टभावाया राघवेण वियोजिताः ।
कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥

स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् ।
वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥

त्वया तेन च वीरेण विना व्यसनमोहिताः ।
कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥

यया तु राजा रामश्च लक्ष्मणश्च महाबलः ।
सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥

ता बाष्पेण च सम्वीताः शोकेन विपुलेन च ।
व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥

निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता ।
पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥

बाष्प पर्याकुल जना हाहा भूत कुल अन्गना ।
शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥

गत प्रभा द्यौर् इव भास्करम् विना ।
व्यपेत नक्षत्र गणा इव शर्वरी ।
निवृत्तचारः सहसा गतो रविः ।
प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥

ऋते तु पुत्राद्दहनम् महीपते ।
र्नरोचयन्ते सुहृदः समागताः ।
इतीव तस्मिन् शयने न्यवेशय ।
न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥

गतप्रभा द्यौरिव भास्करम् विना ।
व्यपेतनक्षत्रगणेव शर्वरी ।
पुरी बभासे रहिता मह आत्मना ।
न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥

नराः च नार्यः च समेत्य सम्घशो ।
विगर्हमाणा भरतस्य मातरम् ।
तदा नगर्याम् नर देव सम्क्षये ।
बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥

षट्सप्ततितमः सर्गः ॥२-७६॥[सम्पाद्यताम्]

तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् ।
उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥

अलम् शोकेन भद्रम् ते राज पुत्र महा यशः ।
प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥

वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः ।
प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥

उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् ।
आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते ।
ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥

किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते ।
विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥

क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् ।
हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥

योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे ।
त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥

विधवा पृथिवी राजम्स् त्वया हीना न राजते ।
हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥

एवम् विलपमानम् तम् भरतम् दीन मानसम् ।
अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥

प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः ।
तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥

तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् ।
ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥

ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः ।
ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥

शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् ।
बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥

हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च ।
प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥

चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा ।
देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् ।
ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥

तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः ।
जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥

शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः ।
नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥

प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् ।
स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥

क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे ।
आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥

ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥

कृत उदकम् ते भरतेन सार्धम् ।
नृप अन्गना मन्त्रि पुरोहिताः च ।
पुरम् प्रविश्य अश्रु परीत नेत्रा ।
भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥

षडशीतितमः सर्गः ॥२-८६॥[सम्पाद्यताम्]

आचचक्षे अथ सद्भावम् लक्ष्मणस्य महात्मनः ।
भरताय अप्रमेयाय गुहो गहन गोचरः ॥२-८६-१॥

तम् जाग्रतम् गुणैर् युक्तम् वर चाप इषु धारिणम् ।
भ्रातृ गुप्त्य् अर्थम् अत्यन्तम् अहम् लक्ष्मणम् अब्रवम् ॥२-८६-२॥

इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता ।
प्रत्याश्वसिहि शेष्व अस्याम् सुखम् राघव नन्दन ॥२-८६-३॥

उचितो अयम् जनः सर्वे दुह्खानाम् त्वम् सुख उचितः ।
धर्म आत्ममः तस्य गुप्त्य् अर्थम् जागरिष्यामहे वयम् ॥२-८६-४॥

न हि रामात् प्रियतरो मम अस्ति भुवि कश्चन ।
मा उत्सुको भूर् ब्रवीम्य् एतद् अप्य् असत्यम् तव अग्रतः ॥२-८६-५॥

अस्य प्रसादाद् आशम्से लोके अस्मिन् सुमहद् यशः ।
धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-८६-६॥

सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया ।
रक्षिष्यामि धनुष् पाणिः सर्वैः स्वैर् ज्नातिभिः सह ॥२-८६-७॥

न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा ।
चतुर् अन्गम् ह्य् अपि बलम् प्रसहेम वयम् युधि ॥२-८६-८॥

एवम् अस्माभिर् उक्तेन लक्ष्मणेन महात्मना ।
अनुनीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-८६-९॥

कथम् दाशरथौ भूमौ शयाने सह सीतया ।
शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-८६-१०॥

यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि ।
तम् पश्य गुह सम्विष्टम् तृणेषु सह सीतया ॥२-८६-११॥

महता तपसा लब्धो विविधैः च परिश्रमैः ।
एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-८६-१२॥

अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति ।
विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-८६-१३॥

विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः ।
निर्घोष उपरतम् नूनम् अद्य राज निवेशनम् ॥२-८६-१४॥

कौसल्या चैव राजा च तथा एव जननी मम ।
न आशम्से यदि ते सर्वे जीवेयुः शर्वरीम् इमाम् ॥२-८६-१५॥

जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया ।
दुह्खिता या तु कौसल्या वीरसूर् विनशिष्यति ॥२-८६-१६॥

अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनो रथम् ।
राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-८६-१७॥

सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले ह्य् उपस्थिते ।
प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-८६-१८॥

रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् ।
हर्म्य प्रासाद सम्पन्नाम् सर्व रत्न विभूषिताम् ॥२-८६-१९॥
गज अश्व रथ सम्बाधाम् तूर्य नाद विनादिताम् ।
सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-८६-२०॥
आराम उद्यान सम्पूर्णाम् समाज उत्सव शालिनीम् ।
सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-८६-२१॥

अपि सत्य प्रतिज्नेन सार्धम् कुशलिना वयम् ।
निवृत्ते समये ह्य् अस्मिन् सुखिताः प्रविशेमहि ॥२-८६-२२॥

परिदेवयमानस्य तस्य एवम् सुमहात्मनः ।
तिष्ठतो राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-८६-२३॥

प्रभाते विमले सूर्ये कारयित्वा जटा उभौ ।
अस्मिन् भागीरथी तीरे सुखम् सम्तारितौ मया ॥२-८६-२४॥

जटा धरौ तौ द्रुम चीर वाससौ ।
महा बलौ कुन्जर यूथप उपमौ ।
वर इषु चाप असि धरौ परम् तपौ ।
व्यवेक्षमाणौ सह सीतया गतौ ॥२-८६-२५॥

षड्विंशः सर्गः ॥२-२६॥[सम्पाद्यताम्]

अभिवाद्य तु कौसल्याम् रामः सम्प्रस्थितः वनम् ।
कृत स्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥२-२६-१॥
विराजयन् राज सुतः राज मार्गम् नरैः वृतम् ।
हृदयानि आममन्थ इव जनस्य गुणवत्तया ॥२-२६-२॥

वैदेही च अपि तत् सर्वम् न शुश्राव तपस्विनी ।
तत् एव हृदि तस्याः च यौवराज्य अभिषेचनम् ॥२-२६-३॥

देव कार्यम् स्म सा कृत्वा कृतज्ञा हृष्ट चेतना ।
अभिज्ञा राज धर्मानाम् राज पुत्रम् प्रतीक्षते ॥२-२६-४॥

प्रविवेश अथ रामः तु स्व वेश्म सुविभूषितम् ।
प्रहृष्ट जन सम्पूर्णम् ह्रिया किम्चित् अवान् मुखः ॥२-२६-५॥

अथ सीता समुत्पत्य वेपमाना च तम् पतिम् ।
अपश्यत् शोक सम्तप्तम् चिन्ता व्याकुलिल इन्द्रियम् ॥२-२६-६॥

ताम् दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ।
तम् शोकम् राघवह् सोढुम् ततो विवृतताम् गतः ॥२-२६-७॥

विवर्ण वदनम् दृष्ट्वा तम् प्रस्विन्नम् अमर्षणम् ।
आह दुह्ख अभिसम्तप्ता किम् इदानीम् इदम् प्रभो ॥२-२६-८॥

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव ।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वम् असि दुर्मनाः ॥२-२६-९॥

न ते शत शलाकेन जल फेन निभेन च ।
आवृतम् वदनम् वल्गु चत्रेण अभिविराजते ॥२-२६-१०॥

व्यजनाभ्याम् च मुख्याभ्याम् शत पत्र निभ ईक्षणम् ।
चन्द्र हम्स प्रकाशाभ्याम् वीज्यते न तव आननम् ॥२-२६-११॥

वाग्मिनो बन्दिनः च अपि प्रहृष्टाः त्वम् नर ऋषभ ।
स्तुवन्तः न अद्य दृश्यन्ते मन्गलैः सूत मागधाः ॥२-२६-१२॥

न ते क्षौद्रम् च दधि च ब्राह्मणा वेद पारगाः ।
मूर्ध्नि मूर्ध अवसिक्तस्य दधति स्म विधानतः ॥२-२६-१३॥

न त्वाम् प्रकृतयः सर्वा श्रेणी मुख्याः च भूषिताः ।
अनुव्रजितुम् इच्चन्ति पौर जापपदाः तथा ॥२-२६-१४॥

चतुर्भिर् वेग सम्पन्नैः हयैः कान्चन भूषणैः ।
मुख्यः पुष्य रथो युक्तः किम् न गच्चति ते अग्रतः ॥२-२६-१५॥

न हस्ती च अग्रतः श्रीमाम्स् तव लक्षण पूजितः ।
प्रयाणे लक्ष्यते वीर कृष्ण मेघ गिरि प्रभः ॥२-२६-१६॥

न च कान्चन चित्रम् ते पश्यामि प्रिय दर्शन ।
भद्र आसनम् पुरः कृत्य यान्तम् वीर पुरह्सरम् ॥२-२६-१७॥

अभिषेको यदा सज्जः किम् इदानीम् इदम् तव ।
अपूर्वो मुख वर्णः च न प्रहर्षः च लक्ष्यते ॥२-२६-१८॥

इति इव विलपन्तीम् ताम् प्रोवाच रघु नन्दनः ।
सीते तत्रभवाम्स् तात प्रव्राजयति माम् वनम् ॥२-२६-१९॥

कुले महति सम्भूते धर्मज्ञे धर्म चारिणि ।
शृणु जानकि येन इदम् क्रमेण अभ्यागतम् मम ॥२-२६-२०॥

राज्ञा सत्य प्रतिज्ञेन पित्रा दशरथेन मे ।
कैकेय्यै प्रीत मनसा पुरा दत्तौ महा वरौ ॥२-२६-२१॥

तया अद्य मम सज्जे अस्मिन्न् अभिषेके नृप उद्यते ।
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥२-२६-२२॥

चतुर्दश हि वर्षाणि वस्तव्यम् दण्डके मया ।
पित्रा मे भरतः च अपि यौवराज्ये नियोजितः ॥२-२६-२३॥

सो अहम् त्वाम् आगतः द्रष्टुम् प्रस्थितः विजनम् वनम् ।
भरतस्य समीपे ते न अहम् कथ्यः कदाचन ॥२-२६-२४॥
ऋद्धि युक्ता हि पुरुषा न सहन्ते पर स्तवम् ।
तस्मान् न ते गुणाः कथ्या भरतस्य अग्रतः मम ॥२-२६-२५॥

न अपि त्वम् तेन भर्तव्या विशेषेण कदाचन
अनुकूलतया शक्यम् समीपे तस्य वर्तितुम् ॥२-२६-२६॥

तस्मै दत्तम् नृवतिना यौवराज्यम् सनातनम् ।
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥२-२६-२७॥

अहम् च अपि प्रतिज्ञाम् ताम् गुरोह् समनुपालयन् ।
वनम् अद्य एव यास्यामि स्थिरा भव मनस्विनि ॥२-२६-२८॥

याते च मयि कल्याणि वनम् मुनि निषेवितम् ।
व्रत उपवास रतया भवितव्यम् त्वया अनघे ॥२-२६-२९॥

काल्यम् उत्थाय देवानाम् कृत्वा पूजाम् यथा विधि ।
वन्दितव्यो दशरथः पिता मम नर ईश्वरः ॥२-२६-३०॥

माता च मम कौसल्या वृद्धा सम्ताप कर्शिता ।
धर्मम् एव अग्रतः कृत्वा त्वत्तः सम्मानम् अर्हति ॥२-२६-३१॥

वन्दितव्याः च ते नित्यम् याः शेषा मम मातरः ।
स्नेह प्रणय सम्भोगैः समा हि मम मातरः ॥२-२६-३२॥

भ्रातृ पुत्र समौ च अपि द्रष्टव्यौ च विशेषतः ।
त्वया लक्ष्मण शत्रुघ्नौ प्राणैः प्रियतरौ मम ॥२-२६-३३॥

विप्रियम् न च कर्तव्यम् भरतस्य कदाचन ।
स हि राजा प्रभुः चैव देशस्य च कुलस्य च ॥२-२६-३४॥

आराधिता हि शीलेन प्रयत्नैः च उपसेविताः ।
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥२-२६-३५॥

औरसान् अपि पुत्रान् हि त्यजन्ति अहित कारिणः ।
समर्थान् सम्प्रगृह्णन्ति जनान् अपि नर अधिपाः ॥२-२६-३६॥

सा त्वम् वसेह कल्याणि राज्ञः समनुवर्तिनी ।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥२-२६-३७॥

अहम् गमिष्यामि महा वनम् प्रिये ।
त्वया हि वस्तव्यम् इह एव भामिनि ।
यथा व्यलीकम् कुरुषे न कस्यचित् ।
तथा त्वया कार्यम् इदम् वचो मम ॥२-२६-३८॥

षष्ठः सर्गः ॥२-६॥[सम्पाद्यताम्]

गते पुरोहिते रामः स्नातो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥२-६-१॥

प्रगृह्य शिरसा पात्रं हविषो विधिवत्तदा । महते दैवतायाज्यं जुहाव ज्वलितानले ॥२-६-२॥

शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥२-६-३॥ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥२-६-४॥

एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः । अलञ्कारविधिं कृत्स्नं कारयामास वेश्मनः ॥२-६-५॥

तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् । पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥२-६-६॥

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥२-६-७॥

तेषां पुण्याहघोषोऽध गम्भीरमधुरस्तदा । अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥२-६-८॥

कृतोपवासं तु तदा वैदेह्या सह राघवम् । अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥२-६-९॥

ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥२-६-१०॥

सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पधेषु रध्यासु चैत्येष्वट्टाल केषु च ॥२-६-११॥ नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥२-६-१२॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेएशु च । ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥२-६-१३॥

नटनर्तकसंघानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥२-६-१४॥

रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः । रामाभिषेके संप्रप्ते चत्वरेषु गृहेषु च ॥२-६-१५॥

बाला अपि क्रीडमाना गृ हद्वारेषु संघशः । रामाभिषवसंयुक्ताश्चक्रुरेवं मिथः कथाः ॥२-६-१६॥

कृतपुष्पोपहारश्च धूपगन्धाधिवासितः । राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥२-६-१७॥

प्रकाशकरणार्धं च निशागमनशञ्कया । दीपवृक्षां स्तथाचक्रु रनुर्थ्यसु सर्वशः ॥२-६-१८॥

अलङ्कारं पुरस्त्यवं कृत्वा तत्पुरवासिनः । आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम् ॥२-६-१९॥ समेत्य संघशः सर्वे चत्वरेषु सभासु च । कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥२-६-२०॥

अहोओ महात्मा राजायमिक्ष्वाकुकुलनन्दनः । ज्ञात्वा यो वृद्ध मात्मानं रामं राज्येऽभिषेक्ष्यति ॥२-६-२१॥

सर्वेऽप्यनुगृहीताः स्म यन्नो रामो महीपतिः । चिराय भविता गोप्ता दृष्टलोकपरावरः ॥२-६-२२॥

आनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः । यधा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः ॥२-६-२३॥

चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः । यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥२-६-२४॥

एवंविधं कथयतां पौराणां शुश्रुवुस्तदा । दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ताजानपदा नराः ॥२-६-२५॥

ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् । रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥२-६-२६॥

जनौघै स्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः । पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥२-६-२७॥

ततस्तदिन्द्रक्षयसन्निभं पुरं । दिदृक्षुभिर्जानपदै रुपागतैः । समन्ततः सस्वनमाकुलं बभौ । समुद्रयादोभि रिवार्णवोदकम् ॥२-६-२८॥

षष्ठितमः सर्गः ॥२-६०॥[सम्पाद्यताम्]

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।
धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।
अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥

बाष्प वेगौपहतया स वाचा सज्जमानया ।
इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।
व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।
विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥

न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।
उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥

नगर उपवनम् गत्वा यथा स्म रमते पुरा ।
तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥

बाला इव रमते सीता बाल चन्द्र निभ आनना ।
रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।
अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥

परि पृच्चति वैदेही ग्रामामः च नगराणि च ।
गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।
अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।
कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥

ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।
ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥

अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।
न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।
वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।
अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।
इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।
न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।
इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥

विधूय शोकम् परिहृष्ट मानसा ।
महर्षि याते पथि सुव्यवस्थिताः ।
वने रता वन्य फल अशनाः पितुः ।
शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥

तथा अपि सूतेन सुयुक्त वादिना ।
निवार्यमाणा सुत शोक कर्शिता ।
न चैव देवी विरराम कूजितात् ।
प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥

षोडशः सर्गः ॥२-१६॥[सम्पाद्यताम्]

स तत् अन्तः पुर द्वारम् समतीत्य जन आकुलम् ।
प्रविविक्ताम् ततः कक्ष्याम् आससाद पुराणवित् ॥२-१६-१॥
प्रास कार्मुक बिभ्रद्भिर् युवभिर् मृष्ट कुण्डलैः ।
अप्रमादिभिर् एक अग्रैः स्वनुरक्तैः अधिष्ठिताम् ॥२-१६-२॥

तत्र काषायिणो वृद्धान् वेत्र पाणीन् स्वलम्कृतान् ।
ददर्श विष्ठितान् द्वारि स्त्र्य् अध्यक्षान् सुसमाहितान् ॥२-१६-३॥

ते समीक्ष्य समायान्तम् राम प्रिय चिकीर्षवः ।
सह भार्याय रामाय क्षिप्रम् एव आचचक्षिरे ॥२-१६-४॥

प्रतिवेदितम् आज्ञाय सूतम् अभ्यन्तरम् पितुः ।
तत्र एव आनाययाम् आस राघवः प्रिय काम्यया ॥२-१६-५॥

ते राममुपसम्गम्य भर्तुः प्रियचिकीर्षवः ।
सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे ॥२-१६-६॥

प्रतिवेदितमाज्ञाय सूतमभ्यम्तरम् पितुः ।
तत्रैवानाययामास राघवः पियकाम्यया ॥२-१६-७॥

तम् वैश्रवण सम्काशम् उपविष्टम् स्वलम्कृतम् ।
दादर्श सूतः पर्यन्के सौवणो स उत्तरच् चदे ॥२-१६-८॥
वराह रुधिर आभेण शुचिना च सुगन्धिना ।
अनुलिप्तम् पर अर्ध्येन चन्दनेन परम् तपम् ॥२-१६-९॥
स्थितया पार्श्वतः च अपि वाल व्यजन हस्तया ।
उपेतम् सीतया भूयः चित्रया शशिनम् यथा ॥२-१६-१०॥

तम् तपन्तम् इव आदित्यम् उपपन्नम् स्व तेजसा ।
ववन्दे वरदम् बन्दी नियमज्ञो विनीतवत् ॥२-१६-११॥

प्रान्जलिस् तु सुखम् पृष्ट्वा विहार शयन आसने ।
राज पुत्रम् उवाच इदम् सुमन्त्रः राज सत्कृतः ॥२-१६-१२॥

कौसल्या सुप्रभा देव पिता त्वम् द्रष्टुम् इच्चति ।
महिष्या सह कैकेय्या गम्यताम् तत्र माचिरम् ॥२-१६-१३॥

एवम् उक्तः तु सम्हृष्टः नर सिम्हो महा द्युतिः ।
ततः सम्मानयाम् आस सीताम् इदम् उवाच ह ॥२-१६-१४॥

देवि देवः च देवी च समागम्य मद् अन्तरे ।
मन्त्रेयेते ध्रुवम् किम्चित् अभिषेचन सम्हितम् ॥२-१६-१५॥

लक्षयित्वा हि अभिप्रायम् प्रिय कामा सुदक्षिणा ।
सम्चोदयति राजानम् मद् अर्थम् मदिर ईक्षणा ॥२-१६-१६॥

सा प्रहृष्टा महाराजम् हितकामानुवर्तिनी ।
जननी चार्थकामा मे केकयाधिपतेस्सुता ॥२-१६-१७॥

दिष्ट्या खलु महाराजो महिष्या प्रियया सह ।
सुमम्त्रम् प्राहिणोद्दूत मर्थकामकरम् मम ॥२-१६-१८॥

यादृशी परिषत् तत्र तादृशो दूताअगतः ।
ध्रुवम् अद्य एव माम् राजा यौवराज्ये अभिषेक्ष्यति ॥२-१६-१९॥

हन्त शीघ्रम् इतः गत्वा द्रक्ष्यामि च मही पतिः ।
सह त्वम् परिवारेण सुखम् आस्स्व रमस्य च ॥२-१६-२०॥

पति सम्मानिता सीता भर्तारम् असित ईक्षणा ।
आद्वारम् अनुवव्राज मन्गलानि अभिदध्युषी ॥२-१६-२१॥

राज्यम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् ।
कर्तुमर्हति ते राजा वासवस्येव लोककृत् ॥२-१६-२२॥

दीक्षितम् व्रतसम्पन्नम् वराजिनधरम् शुचिम् ।
कुरङ्गपाणिम् च पश्यन्ती त्वाम् भजाम्यहम् ॥२-१६-२३॥

पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः ।
वरुणः पश्चिमामाशाम् धनेशस्तूत्तराम् दिशम् ॥२-१६-२४॥

अथ सीतामनुज्ञाप्य कृतकौतुकमगLअः ।
निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥२-१६-२५॥

पर्वतादिव निष्क्रम्य सिम्हो गिरिगुहाशयः ।
लक्ष्मणम् द्वारिसोऽपश्यत् प्रह्वञ्जलिपुटम् स्थितम् ॥२-१६-२६॥

अथ मध्यमकक्ष्यायाम् समागच्छत् सुहृज्जनैः ।
स सर्वान् अर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥२-१६-२७॥
ततः पावक सम्काशम् आरुरोह रथ उत्तमम् ।
वैयाघ्रम् पुरुष्व्या घो राजितम् राजनम्दनः ॥२-१६-२८॥

मेघनादमसम्बाधम् मणिहेमविभूशितम् ।
मुष्णन्तम् इव चक्षूम्षि प्रभया हेम वर्चसम् ॥२-१६-२९॥
करेणु शिशु कल्पैः च युक्तम् परम वाजिभिः ।
हरि युक्तम् सहस्र अक्षो रथम् इन्द्रैव आशुगम् ॥२-१६-३०॥
प्रययौ तूर्णम् आस्थाय राघवो ज्वलितः श्रिया ।

स पर्जन्यैव आकाशे स्वनवान् अभिनादयन् ॥२-१६-३१॥
निकेतान् निर्ययौ श्रीमान् महा अभ्रात् इव चन्द्रमाः ।

चत्र चामर पाणिस् तु लक्ष्मणो राघव अनुजः ॥२-१६-३२॥
जुगोप भ्रातरम् भ्राता रथम् आस्थाय पृष्ठतः ।

ततः हल हला शब्दः तुमुलः समजायत ॥२-१६-३३॥
तस्य निष्क्रममाणस्य जन ओघस्य समन्ततः ।

ततो हयवरा मुख्या नागाश्च गिरिसन्निभाः ॥२-१६-३४॥
अनुजग्मुस्तदा रामम् शतशोऽथ सहस्रशः ।

अग्रतश्चास्य सन्नद्धाश्चन्दनागुरुभूषिताः ॥२-१६-३५॥
खड्गचापधराः शूरा जग्मुराशम्सवो जनाः ।

ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम् ॥२-१६-३६॥
सिम्हनादाश्च शूराणाम् तदा शुश्रुविरे पथि ।

हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः ॥२-१६-३७॥
कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिम्दमः ।

रामम् सर्वानवद्याण्ग्यो रामपिप्रीषया ततः ॥२-१६-३८॥
वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ।

नूनम् नन्धिति ते माता कौसल्या मातृनन्दन ॥२-१६-३९॥
पश्यन्ती सिद्धयात्रम् त्वाम् पित्र्यम् राज्यमुपस्थितम् ।

सर्वसीमन्तिनीभ्यश्च सीताम् सीमन्तिनीम् वराम् ॥२-१६-४०॥
अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम् ।

तया सुचरितम् देव्या पुरा नूनम् महत्तपः ॥२-१६-४१॥
रोहिणीव शशाङ्केन रामसम्योगमाप या ।

इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः ॥२-१६-४२॥
शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ।

स राघवः तत्र कथा प्रलापम् ।
शुश्राव लोकस्य समागतस्य ।
आत्म अधिकारा विविधाः च वाचः ।
प्रहृष्ट रूपस्य पुरे जनस्य ॥२-१६-४३॥

एष श्रियम् गच्चति राघवो अद्य।
राज प्रसादात् विपुलाम् गमिष्यन् ।
एते वयम् सर्व समृद्ध कामा।
येषाम् अयम् नो भविता प्रशास्ता ॥२-१६-४४॥

लाभो जनस्य अस्य यद् एष सर्वम् ।
प्रपत्स्यते राष्ट्रम् इदम् चिराय ।
स घोषवद्भिः च हयैः सनागैः ।
पुरह्सरैः स्वस्तिक सूत मागधैः ॥२-१६-४५॥

स घोषवद्भिश्च हयैः सनागैः ।
पुरस्सरैः स्वस्तिकसूतमागधैः ।
महीयमानः प्रवरैः च वादकैः ।
अभिष्टुतः वैश्रवणो यथा ययौ॥२-१६-४६॥

करेणु मातन्ग रथ अश्व सम्कुलम् ।
महा जन ओघैः परिपूर्ण चत्वरम् ।
पभूतरत्नम् बहुपण्यसम्चयम् ।
ददर्श रामो विमलम् महापथम् ॥२-१६-४७॥

सप्तचत्वारिंशः सर्गः ॥२-४७॥[सम्पाद्यताम्]

प्रभातायाम् तु शर्वर्याम् पौराः ते राघवो विना ।
शोक उपहत निश्चेष्टा बभूवुर् हत चेतसः ॥२-४७-१॥

शोकज अश्रु परिद्यूना वीक्षमाणाः ततः ततः ।
आलोकम् अपि रामस्य न पश्यन्ति स्म दुह्खिताः ॥२-४७-२॥

ते विषादार्तवदना रहितास्तेन धिमता ।
कृपणाः करुणा वाचो वदन्ति स्म मनस्विनः ॥२-४७-३॥

धिगस्तु खलु निद्राम् ताम् ययापहृतचेतसः ।
नाद्य पश्यामहे रामम् पृथूरस्कम् महाभुजम् ॥२-४७-४॥

कथम् नाम महाबाहुः स तथाऽवितथक्रियः ।
भक्तम् जनम् परित्यज्य प्रवासम् राघवो गतः ॥२-४७-५॥

यो नः सदा पालयति पिता पुत्रानिवौरसान् ।
कथम् रघूणाम् स श्रेष्ठस्त्यक्त्वा नो विपिनम् गतः ॥२-४७-६॥

इहैव निधनम् यामो महाप्रस्थानमेव वा ।
रामेण रहितानाम् हि किमर्थम् जीवितम् हि नः ॥२-४७-७॥

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च ।
तैः प्रज्वाल्य चिताम् सर्वे प्रविशामोऽथ पावकम् ॥२-४७-८॥

किम् व्ख्स्यामो महाबाहुरनसूयः प्रियम्वद ।
नीतः स राघवोऽस्माभिर्ति वक्तुम् कथम् क्षमम् ॥२-४७-९॥

सा नूनम् नगरी दीना दृष्ट्वाऽस्मान् राघवम् विना ।
भविष्यति निरानन्दा सस्त्रीबालवयोधिका ॥२-४७-१०॥

निर्यातास्तेन वीरेण सह नित्यम् जितात्मना ।
विहिनास्तेन च पुनः कथम् पश्याम ताम् पुरीम् ॥२-४७-११॥

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः ।
विलपन्तिस्म दुःखर्ता विवत्सा इव धेनवः ॥२-४७-१२॥

ततः मार्ग अनुसारेण गत्वा किम्चित् क्षणम् पुनः
मार्ग नाशात् विषादेन महता समभिप्लुतः ॥२-४७-१३॥

रथस्य मार्ग नाशेन न्यवर्तन्त मनस्विनः ।
किम् इदम् किम् करिष्यामः दैवेन उपहताइति ॥२-४७-१४॥

ततः यथा आगतेन एव मार्गेण क्लान्त चेतसः ।
अयोध्याम् अगमन् सर्वे पुरीम् व्यथित सज्जनाम् ॥२-४७-१५॥

आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः ।
आवर्तयन्त तऽश्रूणि नयनैः शोकपीडितैः ॥२-४७-१६॥

एषा रामेण नगरी रहिता नातिशोभते ।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥२-४७-१७॥

चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् ।
अपश्यन्निहतानन्दम् नगरम् ते विचेतसः ॥२-४७-१८॥

ते तानि वेश्मानि महाधनानि ।
दुःखेन दुःखोपहता विशन्तः ।
नैव प्रजज्ञुः स्वजनम् जनम् वा ।
निरीक्षमाणाः प्रविणष्टहर्षाः ॥२-४७-१९॥

सप्ततितमः सर्गः ॥२-७०॥[सम्पाद्यताम्]

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।
प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥

इमानि च महार्हाणि वस्त्राण्Yआभरणानि च ।
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥

अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।
दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥

कच्चित् सुकुशली राजा पिता दशरथो मम ।
कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।
अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।
अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥

एवम् उक्ताः तु ते दूता भरतेन महात्मना ।
ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।
श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।
आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।
दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।
पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥

भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।
तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।
मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।
तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।
सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।
ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।
खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।
दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।
रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।
त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।
ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥

स माता महमापृच्च्य मातुलम् च युधाजितम् ।
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।
उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥

बलेन गुप्तः भरतः महात्मा ।
सह आर्यकस्य आत्म समैः अमात्यैः ।
आदाय शत्रुघ्नम् अपेत शत्रुर् ।
गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥

सप्तत्रिंशः सर्गः ॥२-३७॥[सम्पाद्यताम्]

महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।
अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥

त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।
किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥

यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।
रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥

तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।
सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥

खनित्र पिटके च उभे मम आनयत गच्चतः ।
चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥

अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।
उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥

स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥

लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।
तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥

अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।
समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥

सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।
गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥
अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।
गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥

कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।
इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥

कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।
तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥

तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।
चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥

रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥

उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।
वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥

पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।
तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥

लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।
नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥

कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी ।
धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥

तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।
बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।
वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥

न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥

आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥

अथ यास्यति वैदेही वनम् रामेण सम्गता ।
वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।
वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥

ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२-३७-२८॥

न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।
तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥

न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।
त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥

यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।
पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।
लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥

द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।
गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥

अथोत्तमान्याभरणानि देवि ।
देहि स्नुषायै व्यपनीय चीरम् ।
न चीरमस्याः प्रविधीयतेति ।
न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥

एकस्य रामस्य वने निवास ।
स्त्वया वृतह् केकयराजपुत्रि ।
विभूषितेयम् प्रतिकर्मनित्या ।
वसत्वरण्ये सह राघवेण ॥२-३७-३५॥

यानैश्च मुख्यैः परिचारकैश्च ।
सुसम्वृता गच्छतु राजपुत्री ।
वस्रैश्च सर्वैः सहितैर्विधानै ।
र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥

तस्मिम्स्तथा जल्पति विप्रमुख्ये ।
गुरौ नृपस्याप्रतिमप्रभावे ।
नैव स्म सीता विनिवृत्तभावा ।
प्रियस्य भर्तुः प्रतिकारकामा ॥२-३७-३७॥

सप्तदशः सर्गः ॥२-१७॥[सम्पाद्यताम्]

स रामः रथम् आस्थाय सम्प्रह्Rष्ट सुह्Rज् जनः ।
पताकाध्वजसंपन्नं महार्हगुरुधूपितम् ॥२-१७-१॥
अपश्यन् नगरम् श्रीमान् नाना जन समाकुलम् ।

स ग्Rहैः अभ्र सम्काशैः पाण्डुरैः उपशोभितम् ॥२-१७-२॥
राज मार्गम् ययौ रामः मध्येन अगरु धूपितम् ।

चन्दनानाम् च मुख्यानामगुरूणाम् च सम्चयैः ॥२-१७-३॥
उत्तमानाम् च गन्धानां क्षौमकौशाम्बरस्य च ।
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥२-१७-४॥
शोभमानम् असम्बाधम् तम् राज पथम् उत्तमम् ।
सम्व्Rतम् विविधैः पण्यैः भक्ष्यैः उच्च अवचैः अपि ॥२-१७-५॥

ददर्श तं राजपथं दिवि देवपथम् यथा ।
दध्यक्षतहविर्लाजैर्धूपैरगुरुचम्दनैः ॥२-१७-६॥
नानामाल्योपगंधैश्च सदाभ्यर्चितचत्वरम् ।

आशीर् वादान् बहून् श्Rण्वन् सुह्Rद्भिः समुदीरितान् ॥२-१७-७॥
यथा अर्हम् च अपि सम्पूज्य सर्वान् एव नरान् ययौ ।

पितामहैः आचरितम् तथैव प्रपितामहैः ॥२-१७-८॥
अद्य उपादाय तम् मार्गम् अभिषिक्तः अनुपालय ।

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः ॥२-१७-९॥
ततः सुखतरम् सर्वे रामे वत्स्याम राजनि ।

अलमद्य हि भुक्तेन परम अर्थैः अलम् च नः ॥२-१७-१०॥
यथा पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ।

ततः हि न प्रियतरम् न अन्यत् किम्चित् भविष्यति ॥२-१७-११॥
यथा अभिषेको रामस्य राज्येन अमित तेजसः ।

एताः च अन्याः च सुह्Rदाम् उदासीनः कथाः शुभाः ॥२-१७-१२॥
आत्म सम्पूजनीः श्Rण्वन् ययौ रामः महा पथम् ।

न हि तस्मान् मनः कश्चिच् चक्षुषी वा नर उत्तमात् ॥२-१७-१३॥
नरः शक्नोति अपाक्रष्टुम् अतिक्रान्ते अपि राघवे ।

यश्च रामं न पश्येत्तु यं च रामो न पश्यति ॥२-१७-१४॥
निन्दतः सर्वलोकेषु स्वात्माप्येनम् विगर्हते ।

सर्वेषाम् स हि धर्म आत्मा वर्णानाम् कुरुते दयाम् ॥२-१७-१५॥
चतुर्णाम् हि वयह्स्थानाम् तेन ते तम् अनुव्रताः ।

चत्पुष्पथान् देवपथाम्श्चैत्यान्यायतनानि च ॥२-१७-१६॥
प्रदक्षिणम् परिहरन् जगाम नृपतेस्सुतः ।

स राज कुलम् आसाद्य महा इन्द्र भवन उपमम् ॥२-१७-१७॥
प्रासादश्पङ्गैर्विविधैः कैलासशिखरोपमैः ।
आवारयद्भि र्गनं विमानैरिव पाण्डुरैः ॥२-१७-१८॥
वर्धमानगृहैश्चापि रत्न जालपरिष्कृतैः ।
तत्पृथिव्यां गृहवरं महेन्द्रसदनोपमम् ॥२-१७-१९॥
राज पुत्रः पितुर् वेश्म प्रविवेश श्रिया ज्वलन् ।

स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः ॥२-१७-२०॥
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ।

स सर्वाः समतिक्रम्य कक्ष्या दशरथ आत्मजः ॥२-१७-२१॥
सम्निवर्त्य जनम् सर्वम् शुद्ध अन्तः पुरम् अभ्यगात् ।

तस्मिन् प्रविष्टे पितुर् अन्तिकम् तदा ।
जनः स सर्वो मुदितः न्Rप आत्मजे ।
प्रतीक्षते तस्य पुनः स्म निर्गमम् ।
यथा उदयम् चन्द्रमसः सरित् पतिः ॥२-१७-२२॥

सप्तपञ्चाशः सर्गः ॥२-५७॥[सम्पाद्यताम्]

कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।
रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥२-५७-१॥

भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।
आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥२-५७-२॥

अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।
अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥२-५७-३॥

स वनानि सुगन्धीनि सरितः च सराम्सि च ।
पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥२-५७-४॥

ततः साय अह्न समये तृतीये अहनि सारथिः ।
अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥२-५७-५॥

स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।
सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥२-५७-६॥

कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।
राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥२-५७-७॥

इति चिन्ता परः सूतः वाजिभिः श्रीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥२-५७-८॥

सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।
क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥२-५७-९॥

तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।
अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥२-५७-१०॥

ते तीर्णाइति विज्ञाय बाष्प पूर्ण मुखा जनाः ।
अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥२-५७-११॥

शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।
हताः स्म खलु ये न इह पश्यामैति राघवम् ॥२-५७-१२॥

दान यज्ञ विवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥२-५७-१३॥

किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।
इति रामेण नगरम् पितृवत् परिपालितम् ॥२-५७-१४॥

वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।
राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥२-५७-१५॥

स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।
यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥२-५७-१६॥

सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।
कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥२-५७-१७॥

हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥२-५७-१८॥

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥२-५७-१९॥

ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।
राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥२-५७-२०॥

सह रामेण निर्यातः विना रामम् इह आगतः ।
सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥२-५७-२१॥

यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।
आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥२-५७-२२॥

सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥२-५७-२३॥

स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।
पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥२-५७-२४॥

अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।
सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥२-५७-२५॥

स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।
मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥२-५७-२६॥

ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥२-५७-२७॥

सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।
उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥२-५७-२८॥

इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।
वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥२-५७-२९॥

अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥२-५७-३०॥

देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।
न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥२-५७-३१॥

सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।
धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥२-५७-३२॥

एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।
पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥२-५७-३३॥

ततः तम् अन्तः पुर नादम् उत्थितम् ।
समीक्ष्य वृद्धाः तरुणाः च मानवाः ।
स्त्रियः च सर्वा रुरुदुः समन्ततः ।
पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥२-५७-३४॥

सप्तमः सर्गः ॥२-७॥[सम्पाद्यताम्]

जञातिदासी यतो जाता कैकेय्या तु सहोषिता ।
प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥२-७-१॥

सिक्तराजपथां कृत्स्नां प्रकीर्णकुसुमोत्कराम् ।
अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत ॥२-७-२॥

पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
वृतां चंदपथैश्चापि शिरःस्नातजनैर्वृताम् ॥२-७-३॥

माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम्॥२-७-४॥

संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां संप्रणर्धितगोवृशाम् ॥२-७-५॥

प्रहृउष्टमुदितैः पौरैरुच्च्रि तद्वजमालिनीम् ।
अयोध्यां वन्थरा तस्मात्प्रासादादन्ववैक्षत॥२-७-६॥

प्रहर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम् ।
अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥२-७-७॥

उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
राममाता धनं किं नु जनेभ्यः संप्रयच्छति ॥२-७-८॥

अतिमात्रप्रहर्षोऽयं किं जनस्य च शंस मे ।
कारयिष्यति किं वापि संप्रहृष्टो महीपतिः ॥२-७-९॥

विदीर्यमाणा हर्षेण धात्री तु परया मुदा ।
आच्च्क्षे/अथ कुब्जायै भूयसीं राघवश्रियम् ॥२-७-१०॥

श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम् ।
राजा दशरथो राममभिषेचयितानघम् ॥२-७-११॥

धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
कैलासशिखराकारात्प्रासादादवरोहत ॥२-७-१२॥

सा दह्यमाना कोपेन मनथरा पापदर्शिनी ।
शयानामेत्य कैकेयीमिदं वचन मब्रवीत् ॥२-७-१३॥

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥२-७-१४॥

अनिष्टे सुभगाकारे सौभग्येन विकत्थसे ।
चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥२-७-१५॥

एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥२-७-१६॥

कैकेयि त्वब्रवीत्कुभां कच्चित्क्षेमं न मनथरे ।
विषण्णवदनां हि त्वां लक्षये भृ शदुःखिताम् ॥२-७-१७॥

मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् ।
उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥२-७-१८॥

सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
विषदयन्ती प्रोवाच भेदयन्ती च राघवम् ॥२-७-१९॥

अक्षय्यं सुमहद्देवि प्रवृत्तं द्वद्विनाशनम् ।
रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥२-७-२०॥

सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता ।
दह्यमानाऽ नलेनेव त्वद्धितार्थमिहागता ॥२-७-२१॥

तव दुःखेन कैकेयि मम दुःखं महद्भवेत् ।
त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥२-७-२२॥

नराधिपकुले जाता महिषी त्वं महीपतेः ।
उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे ॥२-७-२३॥

धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः ।
शुद्धभावे न जानीषे तेनैवमतिसन्धिता ॥२-७-२४॥

उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥२-७-२५॥

अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
काल्यं स्थापयिता रामं राज्ये निहतकण्टके ॥२-७-२६॥

शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
आशीविष इवाङ्केन बाले परिधृतस्त्वया ॥२-७-२७॥

यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
राजञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥२-७-२८॥

पापेनानृतसान्त्वेन बाले नित्यं सुखोचिते ।
रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥२-७-२९॥

सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव ।
त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥२-७-३०॥

मन्थराया वचः श्रुत्वा शयनात्स शुभानना ।
उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखव शारदी ॥२-७-३१॥

अतीव सा तु संहृष्टाअ कैकेयी विस्मयान्विता ।
एकमाभरणं तस्यै कुब्जायै प्रददौ शुभम् ॥२-७-३२॥

दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम् ॥२-७-३३॥

इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम् ।
एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते ॥२-७-३४॥

रामे वा भरते वाहं विशेषं नोपलक्षये ।
तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥२-७-३५॥

न मे परं किञ्चि दितस्त्वयापि न ।
प्रियं प्रियार्हे सुवचं वचो वरम् ।
तथा ह्यवोचस्त्वमतः प्रियोत्तरं ।
वरं वरं ते प्रददामि तं वृणु ॥२-७-३६॥

सप्तविंशः सर्गः ॥२-२७॥[सम्पाद्यताम्]

एवम् उक्ता तु वैदेही प्रिय अर्हा प्रिय वादिनी ।
प्रणयात् एव सम्क्रुद्धा भर्तारम् इदम् अब्रवीत् ॥२-२७-१॥

किमिदम् भाषसे राम वाक्यम् लघुतया ध्रुवम् ।
त्वया यदपहास्यम् मे श्रुत्वा नरवरात्मज ॥२-२७-२॥

आर्य पुत्र पिता माता भ्राता पुत्रः तथा स्नुषा ।
स्वानि पुण्यानि भुन्जानाः स्वम् स्वम् भाग्यम् उपासते ॥२-२७-३॥

भर्तुर् भाग्यम् तु भार्या एका प्राप्नोति पुरुष ऋषभ ।
अतः चैव अहम् आदिष्टा वने वस्तव्यम् इति अपि ॥२-२७-४॥

न पिता न आत्मजो न आत्मा न माता न सखी जनः ।
इह प्रेत्य च नारीणाम् पतिर् एको गतिः सदा ॥२-२७-५॥

यदि त्वम् प्रस्थितः दुर्गम् वनम् अद्य एव राघव ।
अग्रतः ते गमिष्यामि मृद्नन्ती कुश कण्टकान् ॥२-२७-६॥

ईर्ष्या रोषौ बहिष् कृत्य भुक्त शेषम् इव उदकम् ।
नय माम् वीर विश्रब्धः पापम् मयि न विद्यते ॥२-२७-७॥

प्रासाद अग्रैः विमानैः वा वैहायस गतेन वा ।
सर्व अवस्था गता भर्तुः पादच् चाया विशिष्यते ॥२-२७-८॥

अनुशिष्टा अस्मि मात्रा च पित्रा च विविध आश्रयम् ।
न अस्मि सम्प्रति वक्तव्या वर्तितव्यम् यथा मया ॥२-२७-९॥

अहम् दुर्गम् गमिष्यामि वनम् पुरुषवर्जितम् ।
नानामृगगणाकीर्णम् शार्दूलवृकसेवितम् ॥२-२७-१०॥

सुखम् वने निवत्स्यामि यथा एव भवने पितुः ।
अचिन्तयन्ती त्रीम्ल् लोकामः चिन्तयन्ती पति व्रतम् ॥२-२७-११॥

शुश्रूषमाणा ते नित्यम् नियता ब्रह्म चारिणी ।
सह रम्स्ये त्वया वीर वनेषु मधु गन्धिषु ॥२-२७-१२॥

त्वम् हि कर्तुम् वने शक्तः राम सम्परिपालनम् ।
अन्यस्य पै जनस्य इह किम् पुनर् मम मानद ॥२-२७-१३॥

सह त्वया गमिश्यामि वसमद्य न सम्शयः ।
नाहम् शक्या महाभाग निवर्तयितु मुद्यता ॥२-२७-१४॥

फल मूल अशना नित्यम् भविष्यामि न सम्शयः ।
न ते दुह्खम् करिष्यामि निवसन्ती सह त्वया ॥२-२७-१५॥

इच्चामि सरितः शैलान् पल्वलानि वनानि च ।
द्रष्टुम् सर्वत्र निर्भीता त्वया नाथेन धीमता ॥२-२७-१६॥

हम्स कारण्डव आकीर्णाः पद्मिनीः साधु पुष्पिताः ।
इच्चेयम् सुखिनी द्रष्टुम् त्वया वीरेण सम्गता ॥२-२७-१७॥

अभिषेकम् करिष्यामि तासु नित्यम् यतव्रता ।
सह त्वया विशाल अक्ष रम्स्ये परम नन्दिनी ॥२-२७-१८॥

एवम् वर्ष सहस्राणाम् शतम् वा अहम् त्वया सह ।
व्यतिक्रमम् न वेत्स्यामि स्वर्गोऽपि हि न मे मतः ॥२-२७-१९॥

स्वर्गे अपि च विना वासो भविता यदि राघव ।
त्वया मम नर व्याघ्र न अहम् तम् अपि रोचये ॥२-२७-२०॥

अहम् गमिष्यामि वनम् सुदुर्गमम् ।
मृग आयुतम् वानर वारणैः युतम् ।
वने निवत्स्यामि यथा पितुर् गृहे ।
तव एव पादाव् उपगृह्य सम्मता ॥२-२७-२१॥

अनन्य भावाम् अनुरक्त चेतसम् ।
त्वया वियुक्ताम् मरणाय निश्चिताम् ।
नयस्व माम् साधु कुरुष्व याचनाम् ।
न ते मया अतः गुरुता भविष्यति ॥२-२७-२२॥

तथा ब्रुवाणाम् अपि धर्म वत्सलो ।
न च स्म सीताम् नृ वरः निनीषति ।
उवाच च एनाम् बहु सम्निवर्तने ।
वने निवासस्य च दुह्खिताम् प्रति ॥२-२७-२३॥

सप्तषष्ठितमः सर्गः ॥२-६७॥[सम्पाद्यताम्]

आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला ।
आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥

व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः ।
समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥

मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः ।
कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् ।
वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥

अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा ।
अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥

स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः ।
लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥

उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ ।
पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥

इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् ।
अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥

न अराजले जन पदे विद्युन् माली महा स्वनः ।
अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥

न अराजके जन पदे बीज मुष्टिः प्रकीर्यते ।
न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥

अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके ।
इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥

न अराजके जन पदे कारयन्ति सभाम् नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥

न अराजके जन पदे यज्ञ शीला द्विजातयः ।
सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥

न अराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥

न अराजके जन पदे प्रभूत नट नर्तकाः ।
उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥

न अरजके जन पदे सिद्ध अर्था व्यवहारिणः ।
कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥

न अराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥

न अराजके जन पदे वाहनैः शीघ्र गामिभिः ।
नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥

न अराकजे जन पदे धनवन्तः सुरक्षिताः ।
शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥

न अराजके जनपदे बद्दघण्टा विषाणीनः ।
आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥

न अराजके जनपदे शरान् सम्ततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥

न अराजके जन पदे वणिजो दूर गामिनः ।
गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥

न अराजके जन पदे चरति एक चरः वशी ।
भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥

न अराजके जन पदे योग क्षेमम् प्रवर्तते ।
न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥

न अराजके जनपदे हृष्टैः परमवाजिभिः ।
नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥

न अराजके जनपदे नराः शास्त्रविशारदाः ।
सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥

न अराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥

न अराजके जनपदे चन्दनागुरुरूषिताः ।
राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥

यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् ।
अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥

ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः ।
तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥

न अराजके जन पदे स्वकम् भवति कस्यचित् ।
मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥

येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः ।
ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥

यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते ।
तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥

राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥

यमो वैश्रवणः शक्रो वरुणश्च महाबलः ।
विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥

अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन ।
राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥

जीवति अपि महा राजे तव एव वचनम् वयम् ।
न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥

स नः समीक्ष्य द्विज वर्य वृत्तम् ।
नृपम् विना राज्यम् अरण्य भूतम् ।
कुमारम् इक्ष्वाकु सुतम् वदान्यम् ।
त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥

सप्तसप्ततितमः सर्गः ॥२-७७॥[सम्पाद्यताम्]

ततः दश अहे अतिगते कृत शौचो नृप आत्मजः ।
द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥

ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् ।
वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥

बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा ।
दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् ।

ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
विललाप महा बाहुर् भरतः शोक मूर्चितः ।
शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः ।

तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया ।

यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप ।

दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह ।

स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः ।

अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
अन्त काले निपतितम् ययातिम् ऋषयो यथा ।

शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् ।

उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा ।

मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः ।

सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् ।

ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति ।

अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना ।

पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् ।

हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् ।

तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः ।

ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ ।

ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह ।

त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे ।

त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति ।

सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ ।

उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव ।

अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।

सप्ताशीतितमः सर्गः ॥२-८७॥[सम्पाद्यताम्]

गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।
ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥

सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।
पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥

भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।
बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥

तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।
परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥

ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।
उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥

ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥

वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।
परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥

पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।
अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥

त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥

कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।
पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥

स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।
कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥

भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।
अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥

सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।
यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥

अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।
रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥

तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।
न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥

न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।
इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥

लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।
औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥

ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।
वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥

सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।
स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥

तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥

एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।
यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥

नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।
शरैः सुपूर्णाउ इषुधी परम् तपः ।
महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।
निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥

ततः तु अहम् च उत्तम बाण चापधृक् ।
स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।
महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥

"https://sa.wikiquote.org/w/index.php?title=अयोध्याकाण्ड&oldid=459" इत्यस्माद् पुनः प्राप्तिः